मध्याह्न (madhyAhna)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishमध्याह्न - madhyAhna - - noon
अद्य मध्याह्ने - adyamadhyAhne - phrase - thisnoon
मध्याह्नसमये - madhyAhnasamaye - - inthenoon
त्रिसन्ध्यम् - trisandhyam - - noon
त्रिषवणम् - triSavaNam - - noon
दिनार्ध - dinArdha - - noon
पृष्ठताप - pRSThatApa - - noon
मध्याह्नकाल - madhyAhnakAla - - noon
मध्यन्दिन - madhyandina - - noon
मध्यन्दिनसमय - madhyandinasamaya - - noon
आवर्तन - Avartana - - noon
त्रैकाल्य - traikAlya - - noon
दिवामध्य - divAmadhya - - noon
त्रिकालम् - trikAlam - - at noon
मध्याह्ने - madhyAhne - loc. - at noon
अतिमध्यन्दिन - atimadhyandina - - high noon
अरुणपुष्पी - aruNapuSpI - - noon plant [ Pentapetes Phoenicea - Bot. ]
अर्कवल्लभ - arkavallabha - - noon plant [ Pentapetes Phoenicea - Bot. ]
बन्धु - bandhu - - noon plant [ Pentapetes Phoenicea - Bot. ]
बन्धुजीव - bandhujIva - - noon plant [ Pentapetes Phoenicea - Bot. ]
मध्याह्न - madhyAhna - - noon
मध्याह्न - madhyAhna - - midday
मध्याह्न madhyAhna midday
अर्धदिवस ardhadivasa midday
अर्धभास्कर ardhabhAskara midday
पृष्ठताप pRSThatApa midday
मध्यन्दिन madhyandina midday
अहर्दल ahardala midday
उद्दिन uddina midday
दिवामध्य divAmadhya midday
आमध्याह्नम् AmadhyAhnam to midday
मध्यादित्य madhyAditya midday sun
मध्याह्नकाल madhyAhnakAla midday time
मध्यन्दिनसमय madhyandinasamaya midday-time
मध्यन्दिन madhyandina midday offering
माध्याह्निक mAdhyAhnika belonging to midday
माध्यन्दिन mAdhyandina belonging to midday
मध्यन्दिनार्कसन्तप्त madhyandinArkasantapta burnt by the midday-sun
माध्यन्दिनवत् mAdhyandinavat as at the midday oblation
मध्यन्दिनीय madhyandinIya belonging to noon or midday
माध्यन्दिनीय mAdhyandinIya usual at the midday oblation
पलभा palabhA equinoctial shadow at midday
सशास्त्रमरुत्वतीय sazAstramarutvatIya second graha at the midday libation
मध्याह्नकृत्य madhyAhnakRtya midday duty or business or observance
Apte Hindi
Hindiमध्याह्नः
मध्य-अह्नः -
"(अह्न के स्थान में) मध्याह्न, दोपहर"
Shabdartha Kaustubha
Kannadaमध्याह्न
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮಧ್ಯಹಗಲು /ಹಗಲಿನ ಮಧ್ಯಭಾಗ
निष्पत्तिः - > अह्नादेशः (५-४-८८)
व्युत्पत्तिः - > मध्यमह्नः
प्रयोगाः - > "मध्याह्नार्कमरीचिकास्विव पयःपूरो यदज्ञानतः"
उल्लेखाः - > प्रबोध० १-१
Schmidt Nachtrage zum Sanskrit Worterbuch
GermanSanskrit Tibetan
Tibetannyi ma phyed
मध्याह्न
nyi ma'i gung
मध्याह्न
nyin mo'i mtha'
मध्याह्न
वैजयन्तीकोषः
SanskritWord: मध्याह्नः
Root: मध्याह्न
Gender: पुं
Number: all
अर्थः ⇒ दिवसः मध्यभागः
Meaning(s):
⇒ Middle day
noon
Shloka(s):
2|1|65|1 ► मध्यन्दिनं तु मध्याह्न उच्छूरस्तु विकालकः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
➠ 2|1|65|1 ⇢ मध्यन्दिनः (मध्यन्दिन) (पुं) ⇒ Middle day
noon ⇒ दिवसः मध्यभागः
➠ 2|1|65|1 ⇢ मध्याह्नः (मध्याह्न) (पुं) ⇒ Middle day
noon ⇒ दिवसः मध्यभागः
Related word(s):
अवयव_अवयवीसंबन्धः ➡ दिवसः
जातिः ➡ कालः
Tamil
Tamilமத்4யாஹ்ன : நடுப் பகல்.
शब्दकल्पद्रुमः
Sanskritमध्याह्नः, (मध्यं अहः समासान्तः टच् ।“अह्नोऽह्न एतेभ्यः ।” ५ । ४ । ८८ । इत्यह्नादेशःपुंस्त्वञ्च ।) अह्रोऽष्टममुहूर्त्तात्मकमध्यभागः ।स च कुतपकालस्य संज्ञाविशेषः । यथा, --“अह्रो मुहूर्त्ता विख्याता दश पञ्च च सर्व्वदा ।तत्राष्टमो मुहूर्त्तो यः सः कालः कुतपः स्मृतः ।मध्याह्रे सर्व्वदा यस्मान्मन्दीभवति भास्करः ।तस्मादनन्तफलदस्तत्रारम्भो विशिष्यते ॥
मध्याह्रः खड्गपात्रञ्च तथा नेपालकम्बलम् ।रौप्यं दर्भास्तिला गावो दौहित्रं चाष्टमः स्मृतः ॥
पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः ।अष्टावेते यतस्तस्मात् कुतपा इति संस्मृताः ॥
”इति मत्स्यपुराणे श्राद्धकल्पे २२ अध्यायः ॥
त्रिधाविभक्तदिनमध्यभागः । स च दशदण्डात्परं दशदण्डरूपः । इति श्रुत्युक्तः अमरोक्तश्च ॥
पञ्चधाविभक्तदिनतृतीयभागः । स तु द्वादश-दण्डात् परषड्दण्डात्मकः । इति स्मार्त्तधृतमत्स्य-पुराणम् ॥
एष नियमस्त्रिंशद्दण्डदिनाभिप्रायेणन्यूनाधिके न्यूनाधिककालो ज्ञेयः ॥
* ॥
मध्याह्न-कृत्यं यथा, --“ततो मध्याह्रसमये स्नानार्थं मृदमाहरेत् ।पुष्पाक्षतं कुशतिलान् गोमयं शुद्धमेव च ॥
नदीषु देवखातेषु तडागेषु सरित्सु च ।स्नानं समाचरेन्नित्यं गर्भप्रस्रवणेषु च ॥
परकीयनिपानेषु न स्नायाद्वै कदाचन ।पञ्च पिण्डान् समुद्धृत्य स्नायाद्वा सम्भवे पुनः ॥
मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि ।अधश्च तिसृभिः कार्य्यं पादौ षड्भिस्तथैव च ॥
मृत्तिका च समुद्दिष्टा त्वार्द्रामलकमानिका ।गोमयस्य प्रमाणन्तत्तेनाङ्गं लेपयेत्ततः ॥
लेपयित्वाथ तीरस्थस्तल्लिङ्गेनैव मन्त्रतः ।प्रक्षाल्याचम्य विधिवत्ततः स्नायात् समाहितः ॥
अभिमन्त्र्य जलं मन्त्रैस्तल्लिङ्गैर्वारुणैः शुभैः ।भावपूतस्तदव्यक्तं ध्यायन् वै विष्णुमव्ययम् ॥
आपो नारायणोद्भूतास्ता एवास्यायनं पुनः ।तस्मान्नारायणं देवं स्नानकाले स्मरेद्बुधः ॥
प्रेक्ष्य ओँकारमादित्यं त्रिर्निमज्जेज्जलाशये ।पुनः पुनरथाचामेत् मन्त्रेणानेन मन्त्रवित् ॥
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृ-तम् ॥
द्विवारं वा त्रिरभ्यस्येत् व्याहृतिप्रणवान्विताम् ।सावित्रीं वा जपेद्विद्वांस्तथा चैवाघमर्षणम् ॥
ततः सम्मार्ज्जनं कुर्य्यादापोहिष्ठामयो भुवः ।इदमापः प्रवहत व्याहृतिभिस्तथैव च ॥
ततोऽभिमन्त्र्य तत् तीर्थमापोहिष्ठादिमन्त्रकैः ।अन्तर्ज्जले त्रिरावर्त्त्य सर्व्वपापात् प्रमुच्यते ॥
अपः पाणौ समादाय जप्त्वा वै मार्ज्जने कृते ।विन्यस्य मूर्द्ध्नि तत्तोयं मुच्यते सर्व्वपातकैः ॥
यथाश्वमेधः क्रतुराट् सर्व्वपापापनोदनः ।तथाघमर्षणं सूक्तं सर्व्वपापापनोदनम् ॥
अथोपतिष्ठेदादित्यं मूर्द्ध्नि पुष्पान्विताञ्जलिम् ।प्रक्षिप्यालोकयन्देवमदृश्यं वैदिकैः परम् ॥
उदुत्यं चित्रं देवानामित्यादिभिरनन्यधीः ।हंसः शुचिषदेतेन सावित्र्या च विशेषतः ॥
अन्यैश्च वैदिकैर्मन्त्रैः सौरैः पापप्रणाशनैः ।सावित्रीं वै जपेत् पश्चाज्जपयज्ञः स वै स्मृतः ॥
विविधानि पवित्राणि गुह्यविद्यास्तथैव च ।शतरुद्रियमथर्व्वशिरः सौरमन्त्रांश्च शक्तितः ॥
प्राक्कूलेषु समासीनः कुशेषु प्राङ्मुखः शुचिः ।तिष्ठंश्चेदीक्षमाणोऽर्कं जाप्यं कुर्य्यात् समा-हितः ॥
स्फाटिकेन्द्राक्षरुद्राक्षपुत्त्रजीवसमुद्भवैः ।कर्त्तव्या अक्षमाला वा उत्तरादुत्तमा स्मृता ॥
जपकाले न भावेत नान्यानि प्रेक्षयेद्बुधः ।न कम्पयेच्छिरोग्रीवान्दन्तान्नैव प्रकाशयेत् ॥
गुह्यका राक्षसाः सिद्धा हरन्ति प्रसभम्भयात् ।एकान्तेषु शुभे देशे तस्माज्जप्यं समाचरेत् ॥
चण्डालाशौचिपतितान् दृष्ट्वाचम्य पुनर्ज्जपेत् ।तैरेव भाषणं कृत्वा स्नात्वा चैव जपेद्बुधः ॥
आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ।सौरान् मन्त्रान् शक्तितो वै पावमानीस्तुकामतः ॥
यदि स्यात् क्लिन्नवासो वै वारिमध्यगतो जपेत् ।अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहितः ॥
प्रदक्षिणं समावृत्य नमस्कृत्वा ततः क्षितौ ।आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाच-रेत् ॥
ततः सन्तर्पयेद्देवानृषीन् पितृगणान् क्रमात् ।आदावोङ्कारमुच्चार्य्य नमोऽन्ते तर्पयामि च ॥
देवान् ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ।तिलोदकैः पितॄन् भक्त्या स्वसूत्रोक्तविधानतः ॥
अन्वारब्धेन सव्येन पाणिना दक्षिणेन च ।देवर्षींस्तर्पयेद्धीमानुदकाञ्जलिभिः पितॄन् ॥
यज्ञोपवीती देवानां निवीती ऋषितर्पणम् ।प्राचीनावीती पैत्र्ये तु स्वेन तीर्थेन भावतः ॥
नापीड्य स्नानवस्त्रं वै समाचम्य च वाग्यतः ।स्वैर्म्मन्त्रैरर्च्चयेद्देवान् पुष्पैः पत्रैरथाम्बुभिः ॥
ब्रह्माणं शङ्करं सूर्य्यं तथैव मधुसूदनम् ।अन्यांश्चाभिमतान् देवान् भक्त्या चाक्रोधनो-ऽत्वरः ॥
प्रदद्याद्वाथ पुष्पाणि सूक्तेन पुरुषेण तु ।आपो वा देवताः सर्व्वास्तेन सम्यक् समर्च्चिताः ॥
नमस्कारेण पुष्पाणिं विन्यसेद्बै पृथक् पृथक् ।न विष्ण्वाराधनात् पुण्यं विद्यते कर्म्म वैदिकम् ।तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ॥
तद्विष्णोरितिमन्त्रेण सूक्तेन पुरुषेण तु ।नैताभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि ॥
निवेदयेत् स्वमात्मानं विष्णावमलतेजसि ।तदात्मा तन्मनाः शान्तस्तद्विष्णोरितिमन्त्रतः ॥
अथवा देवमीशानं भगवन्तं सनातनम् ॥
आराधयेन्महादेवं भावपूतो महेश्वरम् ॥
मन्त्रेण रुद्रगायत्त्र्या प्रणवेनाथ वा पुनः ।ईशानेनाथवा रुद्रैस्त्र्यम्बकेण समाहितः ॥
पुष्पैः पत्रैरथाद्भिश्च चन्दनाद्यैर्महेश्वरम् ।अथोन्नमः शिवायेति मन्त्रेणानेन योजयेत् ॥
नमस्कुर्य्यान्महादेवमृतं सत्यमितीश्वरम् ।निवेदयीत स्वात्मानं यो ब्राह्मणमितीश्वरे ॥
प्रदक्षिणं द्विजः कुर्य्यात् पञ्च ब्राह्मण वै जपन् ।ध्यायेत्तं देवमीशानं व्योममध्यगतं शिवम् ॥
अथावलोकयेदर्कं हंसः शुचिषदित्यृचा ।कुर्य्यात् पञ्च महायज्ञान् गृहं कृत्वा समाहितः ॥
देवयज्ञं पितृयज्ञं ऋषियज्ञं तथैव च ।मानुष्यं ब्रह्मयज्ञञ्च पञ्चयज्ञान् प्रचक्षते ॥
यदि स्यात् तर्पणादर्व्वाक्ब्रह्मयज्ञः कृतो न हि ।कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ।अग्नेः पश्चिमतो देशे भूतयज्ञान्त एव वा ।कुशासनसमासीनः कुशपाणिः समाहितः ॥
शालाग्नौ लौकिकाग्नौ वा जले भूम्यामथापिवा ।वैश्वदेवनिमित्तं वै देवयज्ञः स वै स्मृतः ॥
यदि स्याल्लौकिके पक्वं ततोऽन्नं तत्र हूयते ।शालाग्नौ तत्र देवान्नं विधिरेष सनातनः ॥
देवेभ्यश्च हुतान्दद्यात् शेषान् भूतबलिं हरेत् ।भूतयज्ञः स वै ज्ञेयो भूतिदः सर्व्वदेहिनाम् ॥
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यो नित्यमेव च ।दद्याद्भूमौ बलिं त्वन्नं पक्षिभ्योऽथ द्विजोत्तमः ॥
सायं चान्नस्य सिद्धस्य कुर्य्यादेवमतन्द्रितः ।भूतयज्ञः स्वयं नित्यं सायं प्रातर्विधीयते ॥
एकन्तु भोजयेद्विप्रं षितॄनुद्दिश्य सत्तमम् ।अथवायं यथाशक्ति किञ्चिदन्नं समाहितः ।वेदतत्त्वार्थविदुषे द्विजायै वोपपादयेत् ॥
पूजयेदतिथिं नित्यं नमस्येदर्च्चयेद्द्विजम् ।मनोवाक्कर्म्मभिः शान्तमागतं स्वगृहन्तु तम् ॥
हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः ।दद्यादतिथये नित्यं बुद्ध्वा तं परमेश्वरम् ॥
भिक्षामाहुर्ग्रासमात्रमग्रं स्यात् तच्चतुर्गुणम् ।पुष्कलं हन्तकारन्तु तच्चतुर्गुणमुच्यते ॥
गोदोहमात्रं कालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् ।अभ्यागतान् यथाशक्ति पूजयेदतिथिं यथा ॥
भिक्षां वै भिक्षवे दद्याद्विधिवद् ब्रह्मचारिणे ।दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्ज्जितः ॥
सर्व्वेषामप्यलाभे तु अन्नं गोभ्यो निवेदयत् ।भुञ्जीत बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् ॥
अकृत्वा तु द्बिजः पञ्च महायज्ञान् द्विजोत्तमाः ।भुञ्जीत चेत् सुमूढात्मा तिर्य्यग्योनिं सगच्छति ॥
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षमाः ।नाशयन्त्याशु पापानि देवानामर्च्चनं तथा ॥
यो मोहादथवालस्यादकृत्वा देवतार्च्चनम् ।भुङ्क्ते स याति नरकान् शूकरेष्वभिजायते ॥
तस्मात् सर्व्वप्रयत्नेन कृत्वा कर्म्माणि वै द्विजः ।भुञ्जीत स्वजनैः सार्द्धं स याति परमां गतिम् ॥
”इति कौर्म्मे उपविभागे १७ अध्यायः ॥
अत्र भोजनविधिर्भोजनशब्दे द्रष्टव्यः ॥
वाचस्पत्यम्
SanskritNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
