| YouTube Channel

मध्यस्थः (madhyasthaH)

 
Apte Hindi
Hindi
मध्यस्थः
पुं*
मध्य-स्थः -
"निर्णायक, विवाचक, मध्यस्थ"
मध्यस्थः
पुं*
मध्य-स्थः -
शिव का विशेषण
Wordnet
Sanskrit
Synonyms:
स्थेयः, मध्यस्थः, प्रमाणपुरुषः, प्रश्नविवाकः, प्राश्निकः
noun
कञ्चित् विवादं निर्णेतुं नियतेषु दलेषु कश्चित् एकः सदस्यः।
"स्थेयः स्वनिर्णयं सम्यक् विचार्य क्रियेत।"
Synonyms:
मध्यस्थः, मध्यमपुरुषः, मध्यस्थितः, चरपुष्टः
noun
यः द्वयोः पक्षयोः मध्ये भूत्वा तयोः व्यवहारे सुलभताम् आनयति स्वस्य कृते लाभञ्च सम्पादयति।
"रामश्यामयोः कलहे सोहनः मध्यस्थः आसीत्।"
Synonyms:
मध्यस्थः
noun
सः पुरुषः यः विवाहसम्बन्धं योजयितुं प्रयतति।
"वधूपिता वारंवारं मध्यस्थं धन्यवादान् वितरति।"
शब्दकल्पद्रुमः
Sanskrit
मध्यस्थः, त्रि, (मध्ये वादिप्रतिवादिनोरन्तरेतिष्ठतीति स्था + कः ।) मध्यस्थायी तत्-पर्य्यायः निसृष्टः इति त्रिकाण्डशेषः
(यथा कथासरित्सागरे १० १९१ ।“निषिद्धवत्या मध्यस्थान्दस्यूनानन्दपूर्णया ।स श्रीदत्तस्तया साकं तन्मन्दिरमथाविशत्
”यथा भागवते १६ ।“बन्धुज्ञात्यरिमध्यस्थमित्रोदासीनविद्विषः ।सर्व्व एव हि सर्व्वेषां भवन्ति क्रमशो मिथः
”)उभयपक्षहीनः यथा, --“श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः ।तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल
”इति श्रीभागवते १० स्कन्धे ७८ अध्यायः
स्वार्थाविरोधेन परार्थघटकः यथाह प्राञ्चः ।“ते ते सत्पुरुषाः परार्थघटकाः स्वार्थस्यवाधेन येमध्यस्थाः परकीयकार्य्यकुशलाः स्वार्थाविरो-धेन ये ।तेऽमी मानुषराक्षसाः परहितं यैः स्वार्थतोहन्यतेये तु घ्नन्ति निरर्थकं परहितं ते के जानी-महे