| YouTube Channel

मध्यमेश्वरः (madhyamezvaraH)

 
शब्दकल्पद्रुमः
Sanskrit
मध्यमेश्वरः,
पुं,
(मध्यमस्य स्थानस्य ईश्वरः ।)काशीस्थशिवलिङ्गविशेषः यथा, --“धन्यास्तु खलु ते विप्रा मन्दाकिन्यां कृतोदकाः ।अर्च्चयन्ति महादेवं मध्यमेश्वरमीश्वरम्
स्नानं दानं तपः श्राद्धं पिण्डनिर्व्वापणं त्विह ।एकैकशः कृतं विप्राः पुनन्त्यासप्तमं कुलम्
सन्निहित्वा अपस्पृश्य राहुग्रस्ते निशाकरे ।यत् फलं लभते मर्त्यस्तस्माद्दशगुणं त्विह
एवमुक्त्वा महायोगी मध्यमे शान्तिके प्रभुः ।उवास सुचिरं कालं पूजयन् वै महेश्वरम्
”इति कौर्म्मे ३१ अध्यायः