| YouTube Channel

मधुहा (madhuhA)

 
शब्दकल्पद्रुमः
Sanskrit
मधुहा, [न्]
पुं,
(मधुं तन्नामानमसुरं हन्तीति ।हन् + क्विप् ।) विष्णुः इति हेमचन्द्रः
(मधु हन्तीति हन् + क्विप् मधुनाशके, त्रि ।यथा, महाभारते ३३ ६८ ।“सर्व्वथा संहतैरेव दुर्ब्बलैर्बलवानपि ।अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव
”प्रसहजातिप्राणिविशेषः
यंथा, --“शशघ्नी भासकुररगृध्रोलूककुलिङ्गकाः ।धूमिका मधुहा चेति प्रसहा मृगपक्षिणः
”इति वाभटे सूत्रस्थाने षष्ठेऽध्याये
)