| YouTube Channel

मधुवनं (madhuvanaM)

 
शब्दकल्पद्रुमः
Sanskrit
मधुवनं,
क्ली,
(मधुना तन्नाम्ना दैत्येन कृतंवनम् मध्यपदलोपी कर्म्मधारयः ।) मथुरायावनविशेषः यथा, श्रीभागवते ४२ ।“तत्तात ! गच्छ भद्रं ते यमुनायास्तटं शुचि ।पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः
”(मधुप्रधानं वनमिति ।) किस्किन्धायां सुग्री-वस्य वनविशेषः इति रामायणे किस्किन्धा-काण्डम्
(यथा, महाभारते २८१ ।२७ ।“वालिना रक्षितं यत्तत् स्फीतं मधुवनं महत् ।त्वया प्लवगश्रेष्ठ ! तद्भुङ्क्ते पवनात्मजः
”)