| YouTube Channel

मधुरः (madhuraH)

 
Apte Hindi
Hindi
मधुरः
पुं*
- -
"लाल रंग का गन्ना, ईख"
मधुरः
पुं*
- -
चावल
मधुरः
पुं*
- -
"राब, गुड़"
मधुरः
पुं*
- -
एक प्रकार का आम
Wordnet
Sanskrit
Synonyms:
गुड़ः, इक्षुपाकः, इक्षुसारः, मधुरः, रसपाकजः, खण्डजः, द्रवजः, सिद्धः, मोदकः, अमृतसारजः, शिशुप्रियः, सितादिः, अरुणः, रसजः
noun
इक्ष्वादीनां रसः यः लोष्टवत् दृढः संपक्वः अस्ति।
"कैलासः प्रतिदिनं दन्तधावनानन्तरं गुडं भुक्त्वा जलं पिबति।"
Synonyms:
माधुर्यम्, मधुरता, मधुत्वम्, मधुरत्वम्, मधूलकः, माधुरी, माधुरिः, माधवम्, मधुरः
noun
मधुरस्य अवस्था भावः वा।
"लतामङ्गेशकरमहोदयायाः स्वरे माधुर्यम् अस्ति।"
Synonyms:
मधुरः
noun
एकः गन्धर्वः
"मधुरस्य उल्लेखः सद्धर्मपुण्डरीके वर्तते"
Synonyms:
मधुरः
noun
एकः अनुचरः
"मधुरः स्कन्दस्य अनुचरः अस्ति"
शब्दकल्पद्रुमः
Sanskrit
मधुरः,
पुं,
(मधु माधुर्य्यं रातीति रा + कः ।यद्वा, मधुमाधुर्य्यमस्यास्तीति “ऊषसुषिमुष्क-मधो रः ।” १०७ इति रः ।) मिष्टरसः ।इत्यमरः
इक्ष्वादौ लक्ष्यते ।तत्पर्य्यायः गौल्यः इति राजनिर्घण्टः
रसज्येष्ठः गुल्यः स्वादुः मधूलकः इतिहेमचन्द्रः २४
तस्य गुणाः प्रीणनत्वम् ।बल्यत्वम् बृंहणत्वम् वायुपित्तनाशित्वम् ।रसायनत्वम् गुरुत्वम् स्निग्धत्वम् चक्षुष्य-त्वम् तर्पणत्वम् सरत्वञ्च अन्यच्च ।“रसो मधुरकः शीतो धातुस्तन्यबलप्रदः ।चक्षुष्यो वातपित्तघ्नः कुर्य्यात् स्थौल्यकफक्रमीन्
सोऽतियुक्तो ज्वरश्वासगलगण्डादिरोगकृत्
”इति राजवल्लभः
अपि ।“मधुरस्तु रसश्चिनोति केशान्बपुषः स्थैर्य्यबलौजोवीर्य्यदायी ।अतिसेव्रनतः प्रमेहशैत्य-जडतामान्द्यमुखान् करोति दोषान्
”इति राजनिर्घण्टः
(यथा वाभटे सूत्रस्थाने दशमेऽध्याये
“रसानामिति रूपाणि कर्म्माणि मधुरो रसः ।आजन्मसात्म्यात् कुरुते धातूनां प्रबलं बलम् ।बालवृद्धक्षतक्षीणवर्णकेशेन्द्रियौजसाम्
प्रशस्तो बृंहणो कण्ठ्यः स्तन्यसन्धानकृद्गुरुः ।आयुष्यो जीवनः स्निग्धः पित्तानिलविषापहः
कुरुतेऽत्यु पयोगेन समेदःकफजान् गदान् ।स्थौल्याग्निसादसंन्यासमेहगण्डार्व्वुदादिकान्
”अपिच ।“तत्र मधुरो रसः शरीरसात्म्याद्रसरुधिरमांस-मेदोऽस्थिमज्जौजः शुक्राभिवर्द्धन आयुष्यः षडि-न्द्रियप्रसादनो बलवर्णकरः पित्तविषमारुतघ्न-स्तृष्णाप्रशमनः त्वच्यः केश्यः कण्ठ्यः प्रीणनोजीवनस्तर्पणः स्नेहनः स्थैर्य्यकरः क्षीणक्षत-सन्धानकरः घ्राणमुखकण्ठोष्ठतालुप्रह्लादनोदाहमूर्च्छाप्रशमनः षट्पदपिपीलिकाना-मिष्टतमः स्निग्धः शीतो गुरुश्च ।स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानः स्थौल्यंमार्द्दवमालस्यमतिस्वप्नं गौरवमनन्नाभिलाष-मग्नेर्द्दोबल्यमास्यकण्ठमांसाभिवृद्धिं श्वासकास-प्रतिश्यायालसकशीतज्वरानाहास्यमाधुर्य्यव-मथुसंज्ञास्वरप्रणाशगलगण्डमालाश्लीपदगल-शोफवस्तिधमनीगुदोपलेपाक्ष्यामयानभिष्य-मित्येवंप्रभृतीन् कफजान् विकारानुपजनयन्ति ।“स्नेहनप्रीणनाह्लादमार्द्दवैरुपलभ्यते ।मुखस्थो मधुरश्चास्यं व्याप्नुवँल्लिम्पतीव
”इति चरके सूत्रस्थाने २६ अध्याये
)जीवकः रक्तशिग्रुः राजाम्रः रक्तेक्षुः ।गुडः शालिः इति राजनिर्घण्टः
(बीजपूरविशेषः तत्पर्य्यायो यथा, --“बीजपूरोऽपरः प्रोक्तो मधुरो मधुकर्कटी ।”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
स्कन्दस्यसैनिकभेदः यथा महाभारते ।४५ ६९ ।“मधुरः सुप्रसादश्च किरीटी महाबलः
”)
मधुरः, त्रि, (मधु माधुर्य्यमस्यास्तीति “ऊषसुषि-मुष्कमधो रः ।” १०७ इति रः ।)मधुररसविशिष्टः स्वादुः (यथा, हितोप-देशे ७९ ।“न धर्म्मशास्त्रं पठतीति कारणंन चापि वेदाध्ययनं दुरात्मनः ।स्वभाव एवात्र तथातिरिच्यतेयथा प्रकृत्या मधुरं गवां पयः
”)प्रियः इति मेदिनी रे, १९५
पारि-भाषिकमधुराणि यथा विदग्धोक्तिः प्रिया-धरकुचादिः शशी स्त्रियः बालोक्तिः ।इति कविकल्पलता