| YouTube Channel

मधुधेनुः (madhudhenuH)

 
शब्दकल्पद्रुमः
Sanskrit
मधुधेनुः,
स्त्री,
(मधुरचिता धेनुः ।) दानार्थ-मध्वादिनिर्म्मितसवत्सा गौः यथा, --होतोवाच ।“मधुधेनुं प्रवक्ष्यामि सर्व्वपातकनाशिनीम् ।अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे
धेनुं मधुमयीं कृत्वा संपूर्णां घटषोडशीम् ।चतुर्थेन तथांशेन वत्सकं परिकल्पयेत्
सौवर्णन्तु मुखं कृत्वा शृङ्गाण्यगुरुचन्दनैः ।पृष्ठं ताम्रमयं कृत्वा सास्नां पट्टमयीं तथा
पदानिक्षुमयान् कृत्वा सितकम्बलकम्बलाम् ।मुखं गुडमयं कृत्वा जिह्वां शर्करया तथा ।ओष्ठौ पुष्पमयौ तस्या दन्ताः फलमयाः स्मृताः ।दर्भरोमधरा देवी रौप्यक्षुरविभूषिता
प्रशस्तपत्रश्रवणा प्रमाणात् परितस्ततः ।सर्व्वलक्षणसंयुक्ता सप्तधान्यान्विता तथा
चत्वारि तिलपात्राणि चतुर्द्दिक्ष्वपि स्थापयेत् ।छादितां वस्त्रयुग्मेन घण्टाभरणभूषिताम् ।कांस्योपदोहनां कृत्वा गन्धपुष्पैस्तु धूपिताम्
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।संक्रान्त्यामुपरागे सर्व्वकालं यदृच्छया
द्रव्यब्राह्मणसम्पत्तिं दृष्ट्वा तान्तु प्रदापयेत् ।ब्राह्मणाय दरिद्राय श्रोत्रियायाहिताग्नये
आर्य्यावर्त्ते समुत्पन्ने वेदवेदाङ्गपारगे ।तादृशाय प्रदातव्या मधुधेनुर्नरोत्तम !
पुच्छदेशोपविष्टस्तु गन्धधूपादिपूजिताम्
आच्छाद्य वस्त्रयुग्मेन मुद्रिकाकर्णपत्रकैः
स्वशक्त्या दक्षिणां दत्त्वा वित्तशाठ्यविवर्जितः ।जलपूर्व्वन्तु कर्त्तव्यं पश्चाद्दानं समर्पयेत्
रसज्ञा सर्व्वदेवानां सर्व्वभूतहिते रता ।प्रीयन्तां पितृदेवाश्च मधुधेनो ! नमोऽस्तु ते
एवमुच्चार्य्य तां धेनुं ब्राह्मणाय निवेदयेत्
अहं गृह्णामि त्वां देवि ! कुटुम्बार्थे विशेषतः ।कामं कामदुघे कामां मधुयेनो ! नमोऽस्तु ते
मधुवातेतिमन्त्रेण दद्यादाशु त्रिकेण तु ।दत्त्वा धेनुं महाराज ! छत्रकोपानहौ तथा
एवं यः कुरुते भक्त्या मधुधेनुं नराधिप ! ।दत्त्वा दानं पायसेन मधुना दिनं नयेत्
ब्राह्मणोऽपि त्रिरात्रन्तु मधुपायससंयुतम् ।एवं कृते तु यत् पुण्यं तन्निबोध नराधिप !
यत्र नद्यो मधुवहा यत्र पायसकर्द्दमाः ।ऋषयो मुनयः सिद्धास्तत्र गच्छन्ति धेनुदाः
तत्र भोगानथो भुङ्क्ते ब्रह्मलोके तिष्ठति ।क्रीडित्वा सुचिरं कालं पुनर्मर्त्त्यमुपागतः ।स भुक्त्वा विपुलान् भोगान् विष्णुलोकं सगच्छति
दशपूर्व्वान् दशपरानात्मानञ्चैकविंशतिम् ।नयते विष्णुसायुज्यं मधुधेनुप्रसादतः
इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः ।सर्व्वपापविनिर्मुक्तो विष्णुलोकं गच्छति
”इत्यादि वराहपुराणे श्वेतोपाख्याने मधु-धेनुमाहात्म्यम्