| YouTube Channel

मधुकैटभौ (madhukaiTabhau)

 
शब्दकल्पद्रुमः
Sanskrit
मधुकैटभौ,
पुं,
(मधुश्च कैटभश्च तौ इतरेतर-द्वन्द्वः ।) असुरविशेषौ तयोरुत्पत्त्यादि यथा, “दैनन्दिने तु प्रलये प्रसुप्ते गरुडध्वजे ।तस्य श्रवणविड्जातावसुरौ मधुकैटभौ
कूर्म्मपृष्ठगता पृथ्वी विलीनेवाभवज्जलैः ।तां विशीर्णां योगनिद्रा महामाया व्यलोकयत्
तां वै दृढतरां कर्त्तुं पृथ्वीं प्रति तदेश्वरी ।उपायं चिन्तयामास कथं पृथ्वी भवेद्दृढा
इदानीमाज्यवत् पृथ्वी प्रवृत्ता कोमला जलैः ।सृष्टिकाले जनान् वोढुं कथं शक्ता भविष्यति
इति सञ्चिन्त्य सा माता जगतां सृष्टिकारिणी ।उपगम्य तदा विष्णुमाससाद सुनिद्रितम्
तन्तु सुप्तं समासाद्य जगन्नाथं जगत्पतिम् ।वामहस्तकनिष्ठाग्रं तस्य कर्णे न्यवेशयत्
निवेश्य नखराग्रेण प्रोद्धृत्य श्रावणं मलम् ।चूर्णीचकार सा देबी योगनिद्रा जगत्प्रसूः
तत्कर्णमलचूर्णेभ्यो मधुनामासुरोऽभवत् ।ततो दक्षिणहस्तस्य कनिष्ठाग्रन्तु दक्षिणे
कर्णे न्यवेशवद्देवी तस्मादप्युद्धृतं मलम् ।तच्चापि क्षोदयामास करशाखाग्रजेन तु
ततोऽभूत् कैटभो नाम बलवानसुरो महान्
उत्पन्नः पानार्थं यस्मान् मृगितवान्मधु ।अतस्तस्य महादेवी मधुनामाकरोत्तदा
उत्पन्नः कीटवद्भाति महामायाकरे यतः ।अतस्तं कैटभाख्यन्तु स्वयं देवी तदाकरोत्
ताबुवाच महामाया युध्यतां हरिणा सह ।युवानौ श्रद्धयैवात्र भवन्तौ निहनिष्यति
यदा युवां प्रभाषेथे आवां विष्णो ! वधान तौ ।तदैवायं युवां हन्ता नान्यथा हरिरप्यथ
महामायामोहितौ तौ विष्णुगात्रे तदा मुहुः ।भ्रममाणौ ददृशतुर्नाभिपद्मस्थितं विधिम्
तमूचतुस्तौ धातारं हनिष्यावोऽद्य नामितम्त्वं जागरय वैकुण्ठं यदि जीवितुमिच्छसि
ततो ब्रह्मा महामायां योगनिद्रां जगत्प्रसूम् ।प्रसादयामास तदा स्तुतिभिर्नतिभिर्भिया
चिरं स्तुताथ सा देवी ब्रह्मणा जगदात्मना ।प्रसन्नाभवदत्यर्थमुवाच तथा विधिम्
किमर्थं संस्तुता चाहं किं करिष्याम्यहं तव ।तद्वद त्वं महाभाग ! करिष्याम्यहमद्य ते
ततस्तेन प्तहामाया प्रोक्ता धात्रा महात्मना ।प्रबोधय जगन्नाथं यावन्नो मां हनिष्यतः ।संमोहयैतौ दुर्द्धर्षावसुरौ मधुकैटभौ
इत्युक्ता सा तदा देवी ब्रह्मणा जगदात्मना ।बोधयामास वैकुण्ठं मोहयामास तौ तदा
ततः प्रबुद्धः कृष्णः ददर्श भयशालिनम् ।ब्रह्माणं तौ तदा घोरावसुरौ मधुकैटभौ
ततस्ताभ्यां युयुधे ह्यसुराभ्यां जनार्द्दनः ।नाशकद् वाधितुं वीरावसुरौ मधुकैटभौ
अनन्तोऽपि फणाग्रेण तान्नो धर्त्तुं क्षमोऽभवत् ।युध्यमानान्महावीरान् वैकुण्ठमधुकैटभान्
अथ ब्रह्मा शिलारूपां स्थितिशक्तिं तदाकरोत् ।अर्द्धयोजनविस्तीर्णां सार्द्धयोजनमायताम्
तस्यां शिलायां वैकुण्ठो युयुधे नृपसत्तम ! ।सह ताभ्यां शिला सा तु प्रविवेश जलान्तरम्
तस्यान्तु शक्त्यां मग्नायां तोयेषु युयुधे हरिः ।पञ्चवर्षसहस्राणि बाहुयुद्धैर्निरन्तरम्
यदा नैवाशकद्धन्तुं तौ विष्णुर्जगतां पतिः ।परां चिन्तां तदावाप विधातापि भयात्ततः
ततस्तावेव तं विष्णुमूचतुर्ब्बलदर्पितौ ।पुनः पुनस्तौ गर्जन्तौ महामायाविमोहितौ
तुष्टौ स्वस्त्वन्नियुद्धेन वरं वरय माधव ! ।तवेष्टं संप्रदास्यावः सत्यमेतद्वराधुना
तयोस्तद्वचनं श्रुत्वा भगवान् गरुडध्वजः ।उवाच तौ युवां वध्यौ भवेतां मे महाबलौ ।इति देहि वरं मह्यं दातव्यं यदि विद्यते
तौ तदा प्राह युष्मत्तो योग्यो नौ शोभनो वधः ।तत्रावां जहि नो यत्र तोयं सम्प्रति विद्यते
तयोस्तद्वचनं श्रुत्वा माधवो जगतां पतिः ।ब्रह्माणं माञ्च शीघ्रेण प्राहेदञ्चात्मसंज्ञया
ब्रह्मशक्तिशिलां शीघ्रमुद्धृत्य धीयतां यथा ।तत्र स्थित्वा महाधारे हनिष्यामि महाबलौ
ततो ब्रह्मा ह्यहञ्चैव उद्दधार शिलान्तु ताम्
तस्या मध्ये पूर्व्वभागे ह्यहं पर्व्वतरूपधृक् ।ऊर्द्ध्वे स्थित्वा शिलां भित्त्वा प्रविवेश रसातलम्
ऐशान्यामभवत् कूर्म्मः पर्व्वतश्चाग्रहीत् शिलाम् ।वायव्याञ्च तथानन्तो नैरृत्याञ्च सुरेश्वरी
महामाया जगद्धात्री शैलरूपप्रधारिणी ।आग्नेय्याञ्च स्वयं विष्णुरेकरूपेण संस्थितः
ब्रह्मशक्तिशिलां गृह्णन् भगवान् परमेश्वरः ।मध्ये ब्रह्मा त्वहञ्चैव वराहश्च तथापरः
ततो वराहपृष्ठस्य चरमे जगतां पतिः ।स्थित्वा शिलामवष्टभ्य ब्रह्मशक्तिमधोगताम्
वामे स्वजघने यत्नादारोप्य शिरसी तयोः ।जगदाधारभूतः सर्व्वयत्नेन संयुतः
सर्व्वैर्बलैः समाक्रम्य चिच्छेद पृथक् पृथक् ।मधुकैटभयोः सम्यक् वीरयोः पृथिवीमृते
तस्य चाक्रम्य संस्थानाद्ब्रह्मशक्तिरधोगता ।ध्रियमाणापि देवौघैर्यत्नादपि मुहुर्मुहुः
ततस्तयोस्तु मृतयोः शरीरे जगतां पतिः ।ब्रह्मशक्तिं समुद्धृत्य न्यधात्तस्यां प्रयत्नतः ।उद्धृतायां पृथिव्यान्तु तयोर्म्मेदोविलेपनैः ।सुदृढामकरोत् पृथ्वीं क्लेदितां तोयराशिभिः
मेदोविलेपिता यस्माद् गीयते मेदिनीति सा ।अद्यापि पृथिवी देवी देवमानुषराक्षसैः
”इति कालिकापुराणे ६१ अध्यायः
(अनयोर्नामनिरुक्तिर्यथा, महाभारते १२ ।३४७ २४ -- २६ ।“सत्त्वस्थः परमेष्ठी ततो भूतगणान् सृजन् ।पूर्व्वमेव पद्मस्य पत्रे सूर्य्यांशुसप्रभे
नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ ।तावपश्यत् भगवाननादिनिधनोऽच्युतः
एकस्तत्राभवद्विन्दुर्म्मध्वाभो रुचिरप्रभः ।स तामसो मधुर्जातस्तदा नारायणाज्ञया ।कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः
”)