मद्यं (madyaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritमद्यं, (माद्यति जनोऽनेन । मद् + “गदमद-यमश्चानुपसर्गे ।” ३ । १ । १०० । इति करणेयत् ।) सुरा । इत्यमरः । २ । १० । ४० ॥
(यथा, साहित्यदर्पणे ।“भिक्षो ! मांसनिषेवणं प्रकुरुषे किं तेन मद्यंविनामद्यञ्चापि तव प्रियं प्रियमहो वाराङ्गनाभिःसह ।वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन चौर्य्येण बा, एतावानपि संग्रहोऽस्ति भवतो नष्टस्य कान्यागतिः ॥
”)अस्य गुणपर्य्यायौ मदिराशब्दे द्रष्टव्यौ ॥
* ॥
तत् द्वादशविधं यथा पुलस्त्यः ।“पानसं द्राक्षमाधूकं खार्ज्जूरं तालमैक्षवम् ।माध्वीकं टाङ्कमाध्वीकं मैरेयं नारिकेलजम् ॥
समानानि विजानीयान्मद्यान्येकादशैव तु ।द्वादशस्तु सुरा मद्यं सर्व्वेषामधमं स्मृतम् ॥
”अनेन एकादशानां सुरात्वं निषेधयति मद्यशब्दोमदहेतुद्रव्यवचनः । अस्मादेव वचनात् नतुमद्यमात्रं सुराशब्दार्थः । यथा बृहस्पतिः ।“गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समा-चरेत् ।तप्तकृच्छं पराकञ्च चान्द्रायणमनुक्रमात् ॥
”त्रयाणां सुरात्वे क्रमेण प्रायश्चित्तत्रयं न स्यात् ।तथा भविष्ये ।“सुरा तु पैष्ठी मुख्योक्ता न तस्यास्त्वितरे समे ।”पैष्टीति तण्डुलविकारमात्रोपलक्षणं इतरेगौडीमाध्व्यौ अतोऽन्नविकार एव सुराशब्दस्यमुख्यत्वात् त्रिविधा सुरेति गौडीमाध्व्योर्गौण-सुरात्वज्ञापनार्थम् । तेन एतत्पानेऽपि महा-पातकत्वमतिदिशति यथैवैका तथा सर्व्वा इतिपैष्ट्यां पूर्व्वप्रसिद्ध्वं दर्शयति । यथा पैष्टी सुरातथा सर्व्वा गौडी माध्वी चेति पूर्व्ववचनोक्तातु पैष्टी दृष्टान्तत्वेनात्र दर्शिता । न पातव्याद्विजोत्तमैरिति ब्राह्मणैरित्यर्थः । त्रैवर्णिकपरत्वेउत्तमपदानर्थक्यात् बहवचनानर्थक्यपरी-हारार्थमुत्तमप्रातिपदिकानर्थक्यमयुक्तं अतोब्राह्मणस्य त्रिविधैव सुरा महापातकहेतुः ।क्षत्त्रियवैश्ययोस्तु सुरा वै मलमन्नानामितिवचनेन पैष्ट्यैव इति स्थितम् । अतएव ।“एका माध्वी च गौडी च पैष्टी च त्रिविधासुरा ।द्विजातिभिर्न पातव्या कदाचिदपि कर्हिचित् ॥
”इति यमवचने द्विजातिपदं ब्राह्मणपरमेव ।अत एव द्विविधसुरापाने न क्षत्त्रियादीनांमहापातकम् ॥
* ॥
तावदस्तु । दोषाभावमेवाहवृद्धयाज्ञवल्क्यः ।“कामादपि हि राजन्यो वैश्यो वापि कथञ्चन ।मद्यमेव सुरां पीत्वा न दोषं प्रतिपद्यते ॥
”तदेवं पैष्टीनिषेधस्त्रैवर्णिकानां गौडीमाध्वीनि-षेधन्तु व्राह्मणानामेव ॥
* ॥
तज्जातेः स्त्रीणा-मपि सुरापाननिषेधः । यथा भविष्ये ।“तस्मान्न पेयं विप्रेण सुरा मद्यं कथञ्चन ।ब्राह्मण्यापि न पेया वै सुरा पापभयावहा ॥
”“या ब्राह्मणी सुरापी स्यान्न तां देवाः पतिलोकं नयन्ति ॥
”इति श्रुतिः ॥
“पतत्यर्द्धशरीरेण भार्य्या यस्य सुरां पिवेत् ।पतितार्द्धशरीरस्य निष्कृतिर्नोपपद्यते ॥
”न चैवं क्षत्त्रियवेश्यस्त्रीणामनिषेधः । ब्राह्मणी-पदस्य निषिद्धसुरापानकर्त्तृभार्य्योपलक्षणत्वाद्-भार्य्या यस्य सुरां पिबेदिति सामान्यश्रवणाच्च ॥
पानञ्च द्रवीभूतस्याभ्यवहारः । स च कण्ठदेशा-दधोनयनं न तु वक्त्रमात्रप्रवेशः । निष्ठीवनार्थंकपोलधारणे पानशब्दप्रसङ्गात् । यच्चोक्तम् ।“जिघ्रन्नहि सुरां कश्चित् पिबतीत्यभिधीयते ।यावन्न क्रियते वक्त्रे गण्डूषस्य प्रवेशनम् ॥
अत्र गण्डूषप्रमाणं अविवक्षितम् । गण्डूषा-र्द्धपानेऽपि लोके पानशब्दप्रयोगात् । अतएवमुखप्रवेशनं अत्राविवक्षितं किन्तु मुखप्रवेशेकण्ठादधोनयनं भवति अतस्तदेवोपलक्षयति ।अतएव ओष्ठमात्रलेपे न पाननिष्पत्तिः । अत-स्तत्रोत्तमाङ्गस्पर्शप्रायश्चित्तम् ॥
* ॥
अथ सरापानप्रायश्चित्तम् । तत्र मनुः ।“सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् ।तया सकाये निर्दग्धे मुच्यते किल्विषात्ततः ॥
गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा ।पयो घृतं वामरणात् गोसकृद्रसमेव वा ॥
”अग्निवर्णां अग्निसमस्पर्शाम् । पयो घृतं गोरेवआदावन्ते च गोः कीर्त्तनात् । मोहशब्दोऽत्रबुद्धिपरः । देवलः । सुरापाने ब्राह्मणो रूप्य-ताम्रसीसकानामन्यतममग्निकल्पं पीत्वा शरीर-त्यागात् पूयते । रूप्यादयोऽत्र द्रवीभूताःपीत्वेति निर्द्देशात् । स्वयमशक्तावन्यैरपि मुखेसेचनीया । यथा गोतमः । सुरापस्य ब्राह्मणस्यउष्णामासिञ्चेयुः सुरामास्ये मृतः शुध्येत ।अतएव न सेचकानां वधो विहितत्वात् स्वयंपान इव । एतच्च मरणप्रायश्चित्तं कामकृते ।यथा, बृहस्पतिः ।“सुरापाने कामकृते ज्वलन्तीं तां विनिःक्षिपेत् ।मुखे स हि विनिर्द्दग्धो मृतः शुद्धिमवाप्नुयात् ॥
”कथञ्चिदिति सकृदित्यर्थः । अङ्गिराः ।सुरापानं सकृत् कृत्वा योऽग्निवर्णां सुरां पिबेत् ।स पावयेदथात्मानमिह लोके परत्र च ॥
”भविष्ये ।“मतिपूर्व्वं सुरापाने प्राणान्तिकमुदाहृतम् ।पैष्टीपाने तु ऋषिभिर्नेतरासां कथञ्चन ॥
शङ्खेनापि महाबाहो ! प्रायश्चित्तमुदाहृतम् ।सुरायाः कामतः पाने मुख्यायाः प्राणनाशनम् ॥
”पुनःपुनःपैष्टीविषयत्वाभिधानम् । त्रिविधा सुराभुख्या इति भ्रमनिरासार्थम् । कथञ्चन सकृ-दित्यर्थः । * । इतरासां असुराणां गौडी-माध्वीप्रभृतीनां ज्ञानतः सकृत्पाने मरणान्तिकंन भवति गौडीमाध्व्योस्तु ज्ञानतोऽभ्यस्तपानेगौडीमाध्वीव्यतिरिक्तायास्त्वसुराया अत्यन्ता-भ्यस्तपाने मरणमुक्तं भविष्ये ।“गौडीमाध्व्योस्तथाभ्यासे प्राणान्तिकमुदा-हृतम् ।अभ्यासे त्वसुरायास्तु तामेवाग्निनिभां पिबेत् ॥
”तथेति ज्ञानत इत्यर्थः । अतएव ।“असकृत् ज्ञानतः पीत्वा वारुणीं पतति द्विजः ।मरणं तस्य निर्द्दिंष्टं प्रायश्चित्तं विधीयते ॥
”इति यमवचनमपि एतद्विषयमेव अत्राभ्यासेमरणविधानात् द्वितीयवार एव मरणं कार्य्यम् ।गौडीमाध्व्योः कामतः सकृत्पाने भविष्ये ।“असुरामद्यपाने तु कृते विप्रस्तु कामतः ।चान्द्रायणं समभ्यस्येत् शुद्धिकामः स्वशुद्धये ॥
यद्वास्मिन्नेव विषये मानवीयं प्रकल्पयेत् ।कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ॥
सुरापानापनुत्यर्थं बालवासा जटी ध्वजी ।”पिण्याकं खलिम् ॥
* ॥
उत्तप्तसुरापानं आय-सेन पात्रेण इत्याह यमः ।“आयसे भाजने तप्तां ब्राह्मणीं वारुणीं पिबेत् ॥
”गोवालचीरवाससा तत् कर्त्तव्यं आह उशनाः ।गोवालचीरवासाः सुरापः सुरामग्निवर्णांपीत्वा पूतो भवति ॥
* ॥
अज्ञानतः सकृत्-पैष्टीपाने ब्राह्मणस्य द्वादशवार्षिकम् । यथाब्रह्महत्याव्रतानुवृत्तौ यमः ।“चरेतामेतदेवोभौ सुरापगुरुतल्पगौ ।सगोत्रादूषकश्चैव सुवर्णस्तेयकृन्नरः ॥
” * ॥
भविष्ये ।“अकामतः सुरां पीत्वा पैष्टीं मत्कुलनन्दन ! ।कृच्छ्रातिकृच्छ्रौ कृत्वा वै पुनःसंस्कारतः शुचिः ॥
कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ।सुरापानापनुत्यर्थं बालवासा जटी ध्वजी ॥
”सुरापानमात्रापनेयरोगस्य रोगिणोऽज्ञानतःपानविषयमिदं इत्युक्तं भविष्ये । यथा, --“तथास्मिन्नेव विषये वाशिष्ठं परिकीर्त्तितम् ।यदि रोगैर्भवेद्दःस्थो नेतरस्य कदाचन ॥
कृच्छ्रश्चात्र सुरश्रेष्ठ ! तप्तकृच्छ्र उदाहृतः ।”कृच्छ्रातिकृच्छ्रावित्यत्र कृच्छ्रपदं न प्राजापत्य-परं किन्तु तप्तकृच्छ्रपरम् । * । अज्ञानतोगौडीमाध्व्योः सकृत्पाने उक्तं भविष्यपुराणे ।“सकृत् पीत्वा तथा गौडीमज्ञानात् सुरसत्तम ! ।कृच्छ्रातिकृच्छ्रौ विहितौ घृतप्राशनमेव च ॥
”अज्ञानाभ्यासे तत्रैवोक्तम् ।“गौडीमज्ञानतः पीत्वा ब्राह्मणो ब्राह्मणप्रिय ! ।तप्तकृच्छ्रन्तु वै कृत्वा पुनःसंस्कारतः शुचिः ॥
माध्वीं पीत्वा महाबाहो ! अज्ञानाद् द्बिज-सत्तमः ।शुद्ध्येत तप्तकृच्छेण विकर्म्माभ्यासनात्तथा ॥
रेतोमूत्रपुरीषाणां गौडीमाध्व्योश्च प्राशने ।क्रव्यादपशुविष्ठानां संस्काराच्छुद्धिरिष्यते ॥
”प्राणान्तिके च पादहानेरसम्भवात् क्षत्त्रिय-वैश्ययोरपि यथोक्तं मरणान्तिकं प्रायश्चित्तमेव ।द्वादशवार्षिकादौ पादपादहानिरभक्ष्यभक्षणेक्षत्त्रियादीनां ह्रासदर्शनात् ।“विप्रे तु सकलं देयं पादोनं क्षत्त्रिये मतम् ।वैशेऽर्द्धं पादशेषन्तु शूद्रजातिषु शस्यते ॥
”पानसादिमद्यपाने तु कामनाकृतानेकसमया-भ्यस्ते प्राणान्तिकं युक्तं ब्राह्मणस्य कामनयासकृत्कृते तु पराशरः ।“अगम्यागमने चैव मद्यगोमांसभक्षणे ।शुद्ध्यै चान्द्रायणं कुर्य्यात् नदीं गत्वा समुद्रगाम् ॥
चान्द्रायणे ततश्चीर्णे कुर्य्याद्ब्राह्मणभोजनम् ।अनडुत्सहितां गाञ्च दद्याद्विप्राय दक्षिणाम् ॥
”अकामतः सकृत्पाने विष्णुः ।“पीत्वा प्रमादतो मद्यमतिकृच्छ्रं चरेद्द्विजः ।कारयेत् पुनःसंस्कारं भक्त्या विप्रांश्च भोजयेत् ॥
”कामतोऽकामतश्चाभ्यासे व्रतावृत्तिमाह यमः ।“गोघ्नवद्बिहितः कल्पश्चान्द्रायणमथापि वा ।अभ्यासे तु तयोर्भूयस्ततः शुद्धिमवाप्नुयात् ॥
”अपर्य्युषितपानसाद्येकादशविधमद्यपाने त्रिरा-त्रम् । पानसं द्राक्षमाधूकमित्याद्यभिधायपुलस्त्यः ।“द्राक्षेक्षुटङ्कखर्ज्जूरपनसादेश्च यो रसः ।सद्योजातन्तु तं पीत्वा त्र्यहात् शुद्ध्येत् द्विजो-त्तमः ॥
”प्रयोजकादीनां पादपादहानिर्द्रष्टव्या । बाल-वृद्धस्त्रीणामर्द्धादिकं प्रायश्चित्तम् । इति प्राय-श्चित्तविवेकः ॥
* ॥
अथ पुराणे ब्राह्मणस्यमद्यपानादिनिषेधो यथा, --“अध्रेयञ्चाप्यपेयञ्च तथैवास्पृश्यमेव च ।द्विजातीनामनालोच्यं नित्यं मद्यमिति स्थितम् ॥
तस्मात् सर्व्वं प्रयत्नेन मद्यं नित्यं विवर्ज्जयेत् ।पीत्वा पतति कर्म्मभ्यस्त्वसम्भाष्यो द्विजोत्तमः ॥
भक्षयित्वाप्यभक्षाणि पीत्वापेयान्यपि द्विजः ।नाधिकारी भवेत्तावद्यावत्तन्न जहात्यधः ॥
तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः ।अपेयानि च विप्रो वै पीत्वा तद्याति रौरवम् ॥
”इति श्रीकूर्म्मपुराणे उपविभागे १६ अध्यायः ॥
मद्यपस्य विष्णोरुपसर्पणे दोषादि यथा, --वराह उवाच ।“मद्यं पीत्वा वरारोहे ! यस्तु मामुपसर्पति ।तत्र दोषं प्रवक्ष्यामि शृणु सुन्दरि ! तत्त्वतः ॥
दत्त्वा वर्षसहस्राणि दरिद्रो जायते पुनः ।ततो भवेत् स पूतात्मा मद्भक्तश्च न संशयः ॥
यस्तु भागवतो भूत्वा कामरागेण मोहितः ।दीक्षितो पिबते मद्यं प्रायश्चित्तं न विद्यते ॥
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ! ।अग्निवणां सुरां पीत्वा तेन मुच्येत किल्विषात् ॥
एवञ्चैवापराधानि येन मुच्यन्ति किल्विषात् ।य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।न स लिप्यति पापेन संसारञ्च न गच्छति ॥
इति वराहपुराणे मद्यपानापराधप्रायश्चित्तम् ॥
अपि च ।“अगम्यागमनं कृत्वा मद्यगोमांसभक्षणम् ।शुद्ध्येच्चान्द्रायणाद्बिप्रः प्राजापत्येन भूमिपः ।वैश्यः सान्तपनाच्छूद्रः पञ्चाहोभिर्व्विशुद्ध्यति ॥
”इति गारुडे २२ अध्यायः ॥
एतद्गौडीमाध्व्योः कामतः सकृत्पानविषयमितिप्रायश्चित्तविवेकदर्शनात् ॥
* ॥
द्बिजस्य पूजादौमद्यदानविध्यनुकल्पनिषेधा यथा, --“मदिरां पृष्ठतो दद्यात् अन्यत् पानन्तु वामतः ।अवश्यं विहितं यत्र मद्यं तत्र द्विजः पुनः ॥
नारिकेलजलं कांस्ये ताम्रे च विसृजेन्मधु ।नापद्यपि द्विजो मद्यं कदाचित् विसृजेदपि ॥
ऋते पुष्पासवादुक्ताद्व्यञ्जनाद्वा विशेषतः ।राजपुत्त्रस्तथा मर्त्यः सचिवः सौप्तिकादयः ॥
दद्युर्नरवलिं भूपसम्मत्या विभवाय च ।भूपालानुमते मद्यं ददत् पापमवाप्नुयात् ॥
”इति कालिकापुराणे ६६ अध्यायः ॥
अथ ब्राह्मणस्य मद्यपाननिषेधकशुक्रशापो यथा, वैशम्यायन उवाच ।“सुरापानाद्वञ्चनां प्राप्य विद्वान्संज्ञानाशं प्राप्य चैवातिघोरम् ।दृष्ट्वा कचञ्चापि तथाभिरूपंपीतं तथा सुरया मोहितेन ॥
समन्युरुत्थाय महानुभाव-स्तदोशना विप्रहितं चिकीर्षुः ।काव्यः खयं वाक्यमिदं जगादसुरापानं प्रति वै जातशङ्कः ॥
यो ब्राह्मणोऽद्यप्रभृतीह कश्चित्मोहात् सुरां पास्यति मन्दबुद्धिः ।अपेतधर्म्मो ब्रह्महा चैव स स्या-दस्मिँल्लोके गर्हितः स्यात् परे च ।मया चेमां विप्रधर्म्मोक्तसीमांमर्य्यादां वै स्थापितां सर्व्वलोके ।सन्तो विप्राः शुश्रुवांसो गुरूणांदेवा लोकाश्चोपशृण्वन्तु सर्व्वे ॥
”इति महाभारते आदिपर्व्वणि ७९ अध्यायः ॥
अथ तन्त्रे मद्यपाननिषेधो यथा, --“नारिकेलञ्च खार्ज्जूरं पानसञ्च तथैव च ।ऐक्षवं मधुकं टाङ्कं तालञ्चैव च माक्षिकम् ॥
द्राक्षन्तु दशमं ज्ञेयं गौडं चैकादशं स्मृतम् ।पैष्टन्तु द्वादशं प्रोक्तं सर्व्वेषामधमं स्मृतम् ॥
मध्यमं मधुजं गौडं शेषञ्चोत्तममिष्यते ।एतत् द्वादशकं मद्यं न पातव्यं द्विजैः क्वचित् ।क्षत्त्रियादिः पिबेत् सर्व्वं पैष्टीमेकान्तु वर्ज्जयेत् ॥
सुरां पीत्वा द्विजो मोहात् कामात् तक्रादि-मिश्रिताम् ।त्रैवाषिकं व्रतं कुर्य्यादीषन्मिश्रे तु वार्षिकम् ॥
तक्रादिमिश्रितां किञ्चित्सुरां पीत्वा ह्यकामतः ।कृच्छ्राब्दपादमुच्चर्य्य पुनः संस्कारमर्हति ॥
मुखप्रवेशमात्रन्तु प्रायश्चित्तार्द्ध्वमाचरेत् ।अनुपनीतो देवेशि ! व्रतं त्रैवार्षिकं चरेत् ॥
चतुर्थकालाहारी स्याद्ब्रह्मचर्य्यमथापि वा ।आ पञ्च वर्षं वृद्धं वा ज्ञानादर्द्धं विनिर्द्दिशेत् ॥
शूद्रस्य च विशेषेण अतिकृच्छ्रद्वयं चरेत् ।स्वजातिसाधिते तस्मिन् तदर्द्धं व्रतमाचरेत् ॥
पैष्टीपाने ब्राह्मणस्य मरणान्तिकमुच्यते ।माध्वीगौडीसुरापाने द्वादशाब्दं विधीयते ॥
इतरेषान्तु पानेन शुद्धिश्चान्द्रायणेन तु ।राजन्यवैश्ययोश्चापि गौडी माध्वी न शस्यते ।मोहात् क्षत्त्रश्च वैश्यश्च पीत्वा कृच्छ्रद्बयं चरेत् ॥
शूद्रोऽपि गौडीं पैष्टीञ्च न पिबेद्धीनसंस्कृताम् ।कामात् पीत्वा सुरां विप्रो मरणान्तिकमाचरेत् ॥
चरेच्चान्द्रायणं ज्ञानात् क्षत्त्रियो वैश्य एव च ।पैष्टीपाने तु शूद्रस्य प्राजापत्यं विनिर्द्दिशेत् ॥
ज्ञानादभ्यासयोगे तु चान्द्रायणत्रयं स्मृतम् ।नारिकेलं तथा ज्ञानाद्विप्रश्चान्द्रायणेन तु ।क्षत्त्रियश्चैव वैश्यश्च प्राणायामेन शुध्यति ॥
अपक्वं पनसञ्चैव आम्रञ्च वदरं तथा ।स्थापयित्वा घटे नित्यं दद्यादामपयःपलम् ॥
त्रैलोक्यविजयाञ्चैव मातुलङ्गं तथैव च ।समेऽहनि ततो दद्यात् सन्धानात् सत्वमीरितम् ॥
दधि मधु घृतञ्चापि माञ्जिष्ठं तिक्तकं तथा ।अनुपाने तु देवेशि ! द्राक्षमद्यं सुनिश्चितम् ॥
विडङ्गं शालवो मूलं -- ।मधुना स्रह संस्थाप्य शेषपाकं समाचरेत् ॥
पिप्पलीलवणं दत्त्वा मधुना मद्यमीरितम् ।पानसं पक्वखर्ज्जूरं आर्द्रं सोमलतारसम् ।एकीकृत्याग्निसन्धानात् खार्ज्जूरं मद्यमीरितम् ॥
पक्वतालं दन्तिशाकं ककुभञ्च तथैव च ।एतैरेव सुसन्धानात् तालमद्यं प्रकीर्त्तितम् ॥
इक्षुदण्डं मरीचञ्च वदरञ्च तथा दधि ।शेषे तु लवणं दत्त्वा इक्षु मद्यं प्रकीर्त्तितम् ॥
नवं मधु तथा विल्वं पक्वं शर्करया सह ।सन्धानाज्जायते मद्यं माध्वीकं शरतो रसम् ॥
शतावरी टङ्कमूलं लक्ष्मणं पद्ममेव च ।मधुना सह सन्धानात् टङ्कमाध्वीकमीरितम् ॥
मालूरमूलं वदरी शर्करा च तथैव च ।एषामेकत्र सन्धानात् मैरेयं मद्यमीरितम् ॥
इन्द्रजिह्वा पक्वधात्री नारिकेलजलन्तथा ।कदलीफलसन्धानान्मद्यं तन्नारिकेलजम् ॥
दधि त्रैलोक्यविजया तथैव च करीकणा ।गुडेन सह सन्धानात् गौडीमद्यं प्रकीर्त्तितम् ॥
शस्कुलीमर्द्धसिद्ध्वान्नपुष्णोदकसमन्वितम् ।वह्नौ सन्तापयेत् किञ्चित् स्थापयित्वा दिनद्वयम् ॥
शेषेऽहनि तु संप्राप्ते जीवनं तत्र निःक्षिपेत् ।शृङ्गवेरं मरीचञ्च मातुलङ्गं तथैव च ।एतेषामेव सन्धानान् पैष्टीमद्यं प्रकीर्त्तितम् ॥
”इति श्रीमत्स्यसूक्ते महातन्त्रे चतुर्व्विंशति-साहस्रे ३६ पटलः ॥
* ॥
अपि च ।“सिद्धमन्त्री भवेद्वीरो न वीरो मद्यपानतः ।कलौ तु भारते वर्षे लोका भारतवासिनः ॥
गृहे गृहे सुरां पीत्वा वर्णभ्रष्टा भवन्ति हि ॥
”इति उत्पत्तितन्त्रे ६४ पटलः ॥
* ॥
“दिव्यवीरमयो भावः कलौ नास्ति कदाचन ।केवलं पशुभावेन मन्त्रसिद्धिर्भवेन्नृणाम् ॥
”इति महानिर्व्वाणतन्त्रम् ॥
* ॥
श्रीक्रमे ।“न दद्याद् ब्राह्मणो मद्यं महादेव्यै कथञ्चन ।वामकामो ब्राह्मणो हि मद्यं मांसं न भक्षयेत् ॥
भैरवतन्त्रे ।“नारिकेलोदकं कांस्ये ताम्रे गव्यं तथा मधु ।राजन्यवैश्ययोर्देयं न द्विजस्य कदाचन ॥
एवं प्रदानमात्रेण हीनायुर्ब्राह्मणो भवेत् ।इति आगमतत्त्वविलासः ॥
* ॥
स्मृतौ कलौ मद्यपानादिनिषेधो यथा, याज्ञ-वल्क्यदीपकलिकायां ब्रह्मपुराणम् ।“नराश्वमेधौ मद्यञ्च कलौ वर्ज्ज्या द्विजातिभिः ॥
”निषेधविषयं स्पष्टयति उशनाः । “मद्यमदेयम-पेयमनिर्ग्राह्यम् ।” अनिर्ग्राह्यमस्वीकार्य्यमितिकल्पतरुः ॥
कालिकापुराणेऽपि ।“स्वगात्ररुधिरं दत्त्वा आत्महत्यामवाप्नुयात् ।मद्यं दत्त्वा ब्राह्मणस्तु ब्राह्मण्यादेव हीयते ॥
”स्मृतिः ।“ताम्रे चेक्षुरसो मद्यं पयसा यवचूर्णकम् ।गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना ॥
अतो मद्यप्रतिनिधिदानमपि न युक्तम् । इतितिथ्यादितत्त्वम् ॥
* ॥
मद्यतुल्यं यथा, --“नारिलेकोदकं कांस्ये ताम्रपात्रे स्थितंमधु ।गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना ॥
”इति कर्म्मलोचनः ॥
* ॥
अथ मद्यपानां तुष्ट्यर्थं कौलानां मद्यपानविधि-र्लिख्यते ।“कुलाचाररतो वीरः कुलसङ्गी सदा भवेत् ।सम्बिदासेवनं कुर्य्यात् सोमपानं महेश्वरि ! ॥
सर्व्वथा कुरुते देवि ! वीरश्चोद्धतमानसः ।दिव्यस्तु देवताप्रायश्चन्दनागुरुलेपनैः ॥
रक्तचन्दनगन्धैश्च सुदिग्धो नात्र संशयः ।भस्माङ्गधूसरो वीर उन्मत्तवद्विचेष्टितः ॥
सुरापानरतो नित्यं बलिपूजापरायणः ।नरश्छागश्च महिषो मेषः शूकर एव च ॥
शशकः शल्लकी गोधा खड्गी कूर्म्मो दशस्मृताः ।वानरश्च खरश्चैव गजाश्वादिविहङ्गमाः ॥
इत्यादेस्तु बलेर्द्दानैः पूजयेत् स्वेष्टदेवताम् ।नित्यं नैमित्तिकं काम्यं प्रकुर्य्याच्च दिने दिने ॥
कुलवारे कुलर्क्षे च तिथौ च कुलके तथा ।भैरव्याः कल्पितं चक्रं संस्थाप्य पूर्व्ववत् प्रिये ! ।सुराणां शोधनं कुर्य्याद्यथावत् परमेश्वरि ! ॥
प्रवृत्ते भैरवीचक्रे सर्व्वे वर्णा द्विजोत्तमाः ।निवृत्ते भैरवीचक्रे सर्व्वे वर्णाः पृथक् पृथक् ॥
विजयाञ्चानुकल्पञ्च द्विजो दद्याद्युगे युगे ॥
”इति उत्पत्तितन्त्रे ६३ पटलः ॥
“द्रव्याभावे चानुकल्प्यौः पूजयेत् परदेबताम् ।सुराभावे च गोक्षीरं द्विजो दद्याद्युगे युगे ॥
”इति निरुत्तरतन्त्रे ५ पटलः ॥
* ॥
“असंस्कृतां सुरां पीत्वा ब्राह्मणो ब्रह्महाभवेत् ।संस्कृतान्तु सुरां पीत्वा ब्राह्मणो ज्वलदग्निवत् ॥
सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिबेत् सुराम् ।अन्यत्र कामतः पीत्वा ब्राह्मण्यादेव हीयते ॥
”इति उत्पत्तितन्त्रम् ॥
* ॥
“ब्राह्मणस्य महामोक्षं मद्यपाने प्रियंवदे ! ।ब्राह्मणः परमेशानि ! यदि पानादिकं चरेत् ।तत्क्षणात् शिवरूपोऽसौ सत्यं सत्यं हि शैलजे ! ॥
तोये तोयं यथा लीनं तैजसं तैजसे यथा ।घटे भग्ने यथाकाशं बायौ वायुर्यथा प्रिये ! ॥
तथैव मद्यपानेन ब्राह्मणो ब्रह्मणि प्रिये ।लीयते नात्र सन्देहः परमात्मनि शैलजे ! ॥
सायुज्यादिमहामोक्षं नियुक्तं क्षत्त्रियादिषु ।मद्यपानं विना देवि ! तत्त्वज्ञानं ब लभ्यते ॥
अतएव हि विप्रस्तु मद्यपानं समाचरेत् ॥
वेदमाताजपेनैव ब्राह्मणो नहि शैलजे ! ।ब्रह्मज्ञानं यदा देवि ! तदा ब्राह्मण उच्यते ॥
देवानाममृतं ब्रह्म तदेव लौकिकी सुरा ।सुरत्वं भोगमात्रेण सुरा तेन प्रकीर्त्तिता ॥
मन्त्रत्रयं सदा पाठ्यं ब्रह्मशापादिमोचनम् ।प्रकुर्य्यात्तु हि येनैव तदा ब्रह्ममयी मुरा ॥
हविरारोपमात्रेण वह्निर्दीप्तो यथा भवेत् ।शापमोचनमात्रेण सुरा मुक्तिप्रदायिनी ।अतएव हि देवेशि ! व्राह्मणः पानमाचरेत् ॥
स ब्राह्मणः स वेदज्ञः सोऽग्निहोत्री स दीक्षितः ।बहु किं कथ्यते देवि ! स एव निर्गुणात्मकः ॥
मुक्तिमार्गमिदं देवि ! गोप्तव्यं पशुसङ्कटे ।प्रकाशात् सिद्धिहानिः स्यात् निन्दनीयो नचान्यथा ॥
”इति मातृकाभेदतन्त्रे ३ पटलः ॥
* ॥
“कुलस्त्रीसेवनं कुर्य्यात् सर्व्वथा परमेश्वरि ! ।रमते युवतीं रम्यां कामोन्मत्तविलासिनीम् ॥
नटीं कापालिकां वेश्यां हड्डिपानां वराङ्गनाम् ।शूद्राणीं म्लेच्छरमणीं जवनीं परमेश्वरि ! ॥
मातृयोनिविचारोऽस्ति मातृयोनिं विनाप्रिये ! ।कुलाचारपरो वीरः कुलपूजापरायणः ॥
भगलिङ्गसमायोगादाकृष्य जपमाचरेत् ।निश्चलन्तु भवेच्चित्तं कोटिसूर्य्यग्रहेण किम् ॥
चले चित्ते भवेद्व्याधिर्निश्चले निश्चलं यथा ।शवानां साधनं देवि ! लतासाधनमुत्तमम् ॥
चितायाः साधनं देवि ! सिद्बिरस्ति कलौ युगे ॥
इत्युत्पत्तितन्त्रम् ॥
कालिकातारिणीदीक्षां गृहीत्वा मद्यसेवनम् ।न करोति नरो यस्तु स कलौ पतितो भवेत् ॥
वैदिके तान्त्रिके चैव जपहोमबहिष्कृतः ।अब्राह्मणः स एवोक्तः स एव हस्तिमूर्खकः ॥
शुनीमूत्रसमं तस्य तर्पणं यत् पितृष्वपि ।कालीतारामनुं प्राप्य वीराचारं करोति न ॥
शूद्रत्वं तच्छरीरेण प्राप्नुयात् स न चान्यथा ॥
इति कामाख्यातन्त्रे ५ पटलः ॥
मद्यशोधनप्रकारो यथा । शिव उवाच ।शृणु पार्व्वति ! वक्ष्यामि तेषां वै शोधनक्रियाम् ।पद्मासनेन संविश्य करपुटं समाचरेत् ॥
वामे गुरून्नमस्कृत्य दक्षिणे गणपतिं स्मरेत् ।मध्ये देवीं नमस्कृत्य प्राणायामत्रयञ्चरेत् ॥
शरीरे मातृकां न्यस्य ऋष्यादिन्यासमाचरेत् ।स्वकल्पोक्तविधानेन षडङ्गन्यासमाचरेत् ॥
पश्चाद्भूमौ त्रिकोणं वा षट्कोणं वा महे-श्वरि ! ।विलिख्य मण्डलं शुद्धं तस्योपरि घटं न्यसेत् ॥
बहुधा प्रोक्षणं कृत्वा फट्कारेण पुनः पुनः ।ततस्तस्मिन् कारणन्तु मूलेनैव च स्थापयेत् ॥
मातृकार्णेन देवेशि ! विपरीतेन चैव हि ।पुनः फट्कारमन्त्रेण प्रोक्षणं कारयेत् सुधीः ॥
ततो वियच्छक्तिबीजं चतुर्द्दशस्वरान्वितम् ।नादबिन्दुयुतं कृत्वा तस्योपरि शतं जपेत् ॥
ततो मूलं जपेन्मन्त्रं मायाबीजं ततः परम् ।धेनुं योनिं गालिनीञ्च त्रिखण्डं मीनसंज्ञकम् ।दर्शयित्वा वरारोहे ! घटं धृत्वा पठेन्मनुम् ॥
ओँएकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् ।कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् ॥
ओँ सूर्य्यमण्डलसम्भूते वरुणालयसम्भवे ।अमाबीजमये देवि ! शुक्रशापाद्विमुच्यताम् ॥
ओँ वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि ।तेन सत्येन ते देवि ! ब्रह्महत्यां व्यपोहतु ॥
ततः षडङ्गयुक्तञ्च वकारं बिन्दुसंयुतम् ।एवं सकारकञ्चापि वर्णाक्षरसमन्वितम् ॥
जप्त्वा मन्त्री ततो ध्यायेत् स्वमन्त्रं कुलसुन्दरि ! ।आनन्दभैरवं ध्यायेद्यथा तन्त्रानुसारतः ॥
रक्तवर्णं चतुर्बाहुं त्रिनेत्रं वरदं शिवम् ।जटाजूटधरं देवं वासुकीकण्ठभूषितम् ॥
डमरुञ्च कपालञ्च मुद्गरं पाशमुत्तमम् ।धारिणं तं यजेद्देवं व्याघ्रचर्म्माम्बरं शिवम् ॥
एवं ध्यात्वा महेशानि ! तस्य मध्ये प्रपूजयेत् ।मायाबीजं ततो हुं फट्मन्त्रेणानेन संत्यजेत् ॥
ततस्तस्मिन्महेशानि ! आनन्दभैरवीं स्मरेत् ।आनन्दभैरवीं देवीं वराभयलसत्कराम् ॥
घोररूपां वरारोहां त्रिनेत्रां रक्तवाससम् ।रक्तवर्णां महारौद्रीं सहस्रभैरवान्विताम् ॥
ब्रह्मविष्णुमहेशाद्यैः स्तूयमानां शिवां भजे ।इति ध्यात्वा महेशानि ! तेनैव मनुना यजेत् ॥
तयोरैक्यं विभाव्यैव गायत्त्रीं दशघा जपेत् ।भैरवं ङेऽन्तकञ्चोक्त्वा विद्महे तदनन्तरम् ॥
सुधादेव्यै ततः पश्चाद्धीमहीति ततो वदेत् ।तन्नो देवी ततः पश्चात्तदन्ते च प्रचोदयात् ॥
इति ते कथिता देवी गायत्त्री परमाक्षरी ।तस्याः स्मरणमात्रेण द्रव्यशुद्धिश्च जायते ॥
तस्य प्रसादादीशोऽहं सत्यं सत्यं न संशयः ।तस्य मध्ये मूलमन्त्रं विल्वदण्डैर्लिखेत् सकृत् ।रक्तवस्त्रेण संपूज्य सुधां वस्त्रेण गोपयेत् ॥
* ॥
धर्म्मार्थकाममोक्षाणां विषयाणाञ्च पार्व्वति ! ।सर्व्वेषां कारणं यस्मात् कारणं परिकीर्त्तितम् ॥
अस्माकञ्च महेशानि ! शरीरकारणं हि तत् ।मृत्युञ्जयोऽहं वीरेशि ! वीरकार्य्यप्रसादतः ॥
निर्व्विकारेण देवेशि ! निर्व्विकल्पेन चेतसा ।सेव्यमानं कुलं भद्रे ! भुक्तिमुक्तिप्रदायकम् ॥
निर्व्विकल्पो महेशानि ! मुक्तिभागी न संशयः ।सविकल्पो वरारोहे ! रौरवं याति निश्चितम् ॥
”इति कैवल्यतन्त्रे २ पटलः ॥
(वैद्यकोक्तदोषादि यथा, --“तीक्ष्णोष्णरूक्षसूक्ष्माम्लं व्यवायाशुकरं लघु ।विकाशि विशदं मद्यमोजसोऽस्माद्बिपर्य्ययः ॥
तीक्ष्णादयो विषेऽप्युक्ताश्चित्तोपप्लाविनो गुणाः ।जीवितान्ताय जायन्ते विषे तूत्कर्षवृत्तितः ॥
तीक्ष्णादिभिर्गुणैर्मद्यं मन्दादीनोजसो गुणान् ।दशभिर्दशसंक्षोभ्य चेतो नयति विक्रियाम् ॥
आद्ये मदे द्वितीये स प्रमादायतने स्थितः ।दुर्व्विकल्पहतो मूढः सुखमित्यधिमुच्यते ॥
मध्यमोत्तमयोः सन्धिं प्राप्य राजसतामसः ।निरङ्कुश इव व्यालो न किञ्चिन्नाचरेज्जडः ॥
इयं भूमिरवद्यानां दौःशील्यस्येदमास्पदम् ।एकोऽयं बहुमार्गाया दुर्गतेर्देशिकः परम् ॥
निश्चेष्टः शववच्छेते तृतीये तु मदे स्थिताः ।मरणादपि पापात्मा गतः पापतरां दशाम् ॥
धर्म्माधर्म्मसुखं दुःखमर्थानर्थं हिताहितम् ।यदासक्तो न जानाति कथं तच्छीलयेद्बुधः ।मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संस्थितः ॥
सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः ॥
यत्रैकः स्मृतिविभ्रंशस्तत्र सर्व्वमसाधु यत् ।अयुक्तियुक्तमन्नं हि व्याधये मरणाय वा ॥
मद्यं त्रिवर्गधीधैर्य्यलज्जादेरपि नाशनम् ।नाति माद्यन्ति बलिनः कृताहारा महाशनाः ॥
स्निग्धाः सत्त्ववयोयुक्ता मद्यनित्यास्तदन्वयाः ।मेदःकफाधिकामन्दवातपित्ता दृढाग्नयः ॥
विपर्य्ययेऽतिमाद्यन्ति विश्रध्वाः कुपिताश्च ये ।मद्येन चाम्लरूपेण साजीर्णे बहु नाति च ॥
”इति वाभटे निदानस्थाने षष्ठेऽध्याये ॥
)एतानि श्रुतिस्मृतिविरुद्धत्वान्मोहनार्थानिशिष्टैःकदाचिदपि नाचरणीयानि ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
