मदी (madI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaमदी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಉತ್ತಮಭೂಮಿಯ ಮಣ್ಣಿನ ಹೆಂಟೆಗಳನ್ನು ಪುಡಿಮಾಡುವ ಕುಂಟೆ
धातुपाठः (Krishnacharya)
Sanskrit मद्
मदी
हर्षे
दिवादिः
अकर्मकः
सेट्
परस्मैपदी
माद्यति
ईदित् शमादिः, पुषादिः
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुप्रदीपः
Sanskritमदीँ मदी हर्षे
- माद्यति ममाद मदिता मदिष्यति अमदत् मत्तः मदनः मदित्वा मदः प्रमदः प्रमादः उन्मादी उन्मदिष्णुः 102
शब्दकल्पद्रुमः
Sanskritक्षीरतरङ्गिणी
Sanskritमदीँ मदी हर्षे
- माद्यति अमदत् मदिता मत्तः हर्षग्लेपनयोर्मित् (द्र0 1552)-मदयति, अन्यत्र-उन्मादयति मदोऽनुपसर्गे (3367) ऽप्-मदः प्रमदसंमदौ हर्षे (3368) गदमद (31100) इति यत्-मद्यम् उग्रंपश्य (3237) इतीरंमदो मेघज्योतिः अलङ्कृञ् (32136) इतीष्णुच्-उन्मदिष्णुः इषितिमिमदि (द0 उ0 826 कपाठः) इति किरच्-मदिरा कृधूमदिभ्यः कित् (उ0 373)-मत्सरः ऋतन्यञ्जि (उ0 42) इति मत्स्यः मत्सी गौदादिः (द्र0 गण0 4141) जनिदाच्यु (उ0 4104) इति मत्सः, मच्छ इत्येके चुरादौ मद तृप्तिशोधने (10151)-मादयते 96
धातुवृत्तिः
Sanskritमदीँ मदी (अर्थः) हर्षे
( माद्यति ) इत्यादि ( धर्मात्प्रमाद्यति ) [ जुगुप्साविरामप्रमाद्यर्थानामुपसङ्ख्यानम् ] इति धर्मोयादानम् ( मदयति ) "मदी हर्षग्लेपनयोः'' इति घटादिपाठान्मित्त्वम् अन्यत्र ( मादयति ) माद्यत्यनेन ( मनः ) इति ( मद्यम् ) "गदमद'' इत्यनुपसर्गे यत् "कृत्यल्युटो बहुलम्'' इति करणेऽपि भवति मदयतीति ( मदनः ) नन्द्यादित्वाण्ण्यन्ताल्ल्युस्संज्ञायाम् इरा जलम्, तेन माद्यमीति ( इरम्मदः ) "उग्रम्पश्येरम्मद'' इति खशि श्यनभावो निपात्यते ( उन्मदिष्णुः ) "अलङ्कृञ्'' इत्यादिना इष्णुच् ( उन्मादी ) शमादित्वाद्घिनुण् (मदः) "मदोऽनुपसर्गे'' इत्यप् "व्यधजपोरनुपसर्गे'' इत्यत्रैव मदिग्रहणेऽपि कर्तव्ये पृथक्सूत्रारम्भाद् (उन्मादः) इति घञपीति न्यासः ( प्रमदः, सम्मदः ) "प्रमदसम्मदौ हर्षे'' इत्यम्निपात्यते ( मदित्वा, मत्तः, मत्तवान् ) ईदित्त्वादनिट्त्वम् "न ध्याख्या'' इत्यादिना नत्वनिषेधः ( मदिरा ) "इषिमदि'' इत्यादिना किरच् शमादयोऽष्टौ वृत्ताः मन्दते मदति इति स्तुत्यादौ शपि मद तृप्तियोगइति चुरादावधृषीयः 100
कृदन्तरूपमाला
Sanskrit1 {@“मदी हर्षग्लेपनयोः”@} 2 शमादिः, घटादिश्च।
‘ग्लेपनम् = दैन्यम्’ इति मा।
धा।
वृत्तिः।
‘ग्लपने’ इति क्षीरतरङ्गिण्यां पाठः।
‘स्तुत्यादौ मन्दते, हर्षे माद्येत्, मादयते णिचि।।’ 3 इति देवः।
4 मादकः-दिका, 5, मादकः 6 इत्यादिषु मित्त्वं नेति ज्ञेयम्।]] मदकः-निमादकः-मादकः-दिका, मिमदिषकः-षिका, मामदकः-दिका
मदिता-त्री, मदयिता-त्री, मिमदिषिता-त्री, मामदिता-त्री
7 माद्यन्-न्ती, मदयन्-न्ती, मिमदिषन्-न्ती
-- मदिष्यन्-न्ती-ती, मदयिष्यन्-न्ती-ती, मिमदिषिष्यन्-न्ती-ती
-- -- मदयमानः, मदयिष्यमाणः, --मामद्यमानः, मामदिष्यमाणः
सुमत्-सुमद्-सुमदौ-सुमदः
-- -- -- 8 मत्तम्-मत्तः-मत्तवान्, मदितः, मिमदिषितः, मामदितः-तवान्
मदः, 9 प्रमद्वरः, 10 प्रमादी, 11 इरम्मदः 12, 13 उन्मदिष्णुः 14, मदः, 15 मदनः, मिमदिषुः, मामदः
मदितव्यम्, मदयितव्यम्, मिमदिषितव्यम्, मामदितव्यम्
16 मदनीयम्, मदनीयम्, मिमदिषणीयम्, मामदनीयम्
माद्यम्- 17 मद्यम्, मद्यम्, मिमदिष्यम्, मामद्यम्
ईषन्मदः-दुर्मदः-सुमदः
-- -- -- मद्यमानः, मद्यमानः, मिमदिष्यमाणः, मामद्यमानः
मादः, 18 विद्यामदः-धनमदः, कुलमदः, 19 20 प्रमदः, 21 सम्मदः, प्रमादः-सम्मादः-उन्मादः-विमादः, मदः, मिमदिषः, मामदः
मदितुम्, मदयितुम्, मिमदिषितुम्, मामदितुम्
मत्तिः, मदना, मिमदिषा, मामदा
मदनम्, मदनम्, मिमदिषणम्, मामदनम्
मदित्वा, 22 मदयित्वा, मिमदिषित्वा, मामदित्वा
प्रमद्य, प्रमदय्य, प्रमिमदिष्य, प्रमामद्य
मादम् २, मदित्वा २, 23 मादम् २ -मदम् २, 24 मदयित्वा २, मिमदिषम् २, मिमदिषित्वा २, मामदम् २
मामदित्वा २
25 इति ण्यन्तात् इत्नुच्प्रत्यये रूपमेवम्।
मदयित्नुः = मदिरा।]] मदयित्नुः, 26 इत्यादिना किरच्प्रत्यये रूपमेवम्।
माद्यन्तेऽ- नयेति मदिरा = सुरा।]] मदिरा, 27 मत्सरः, 28 मत्स्यः-मत्सी।
29
01 (१२१६)
02 (४-दिवादिः-[८१५] १२०८। अक। सेट्। पर।)
03 (श्लो। ११२)
04 [पृष्ठम्०९९६+ २८]
05 [[१। ‘घटादयो मितः’ (ग। सू। भ्वादौ) इति मित्त्वात् ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाया ह्रस्वो भवति। एवं ण्यन्ते सर्वत्र ज्ञेयम्। ‘मदी हर्षे’ इति दिवादिषु पठितस्यैव धातोर्मित्त्वार्थं घटादिषु (भ्वादौ) अनुवादः। तेन हर्षग्लेपन- रूपार्थविशेष एव घटादिपाठात् मित्त्वेन मदकः इत्यादीनि ण्यन्ते रूपाणीति ज्ञेयम्। अन्यत्रार्थेषु निमादकः [= अक्षरव्यञ्जनानां स्पष्टमुच्चारयिता]
06 [= चित्तविकारोत्पादयिता]
07 [[२। श्यनि, ‘शमामष्टानाम्--’ (७-३-७४) इति दीर्घे रूपमेवम्।]]
08 [[३। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति निष्ठायामिण्निषेधे ‘न ध्याख्यापॄमूर्च्छि- मदाम्’ (८-२-५७) इति निष्ठानत्वनिषेधे च रूपमेवम्।]]
09 [[४। ‘स्थेशभास-’ (३-२-१७५) इत्यत्र “प्रमद्वरोऽपि इति केचित्।” इति प्रक्रियाकौमुदी।]]
10 [[५। ‘शमित्यष्टाभ्यः--’ (३-२-१४१) इति ताच्छील्ये घिनुण्प्रत्यये रूपमेवम्।]]
11 [[६। इरया माद्यतीति इरम्मदः = मेघज्योतिः। इरा = उदकम्। ‘उग्रम्पश्येरम्मद- पाणिन्धमाश्च’ (३-२-३७) इति कर्तरि तृजाद्यपवादतया खश् निपात्यते। निपातना- देव श्यन् न। ‘इरया = वारिणा माद्यन् वैद्युताग्निरिरम्मदः।’ इति प्र। सर्वस्वे।]]
12 [[आ। ‘इरम्मदं ज्योतिरमुञ्चदब्भ्रं शनैश्शनैः प्रावृषिकं ररास।।’ वा। वि। ३। ६।]]
13 [[७। ‘अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मद--’ (३-२-१३६) इत्यादिना तच्छीलादिषु कर्तृषु इष्णुच्प्रत्ययः।]]
14 [[B। ‘व्यालद्विपा यन्तृभिरुन्मदिष्णवः कथंचिदारादपथेन निन्यिरे।।’ शि। व। १२। २८।]]
15 [[८। ण्यन्तात् ‘नन्दिग्रहि--’ (३-१-१३४) इति नन्द्यादित्वात् कर्तरि ल्युप्रत्यये रूपमेवम्। मदयतीति मदनः।]]
16 [पृष्ठम्०९९७+ ३२]
17 [[१। “मदसाधनम्--मद्यम्। बाहुलकात् करणे यत्।” इति प्र। सर्वस्वे।]]
18 [[२। ‘मदोऽनुपसर्गे’ (३-३-६७) इति अनुपसर्गेऽप्प्रत्ययः। घञोऽपवादः। कुलमदः, धनमदः, इत्यादिषु चैवं ज्ञेयम्।]]
19 [कन्यानाम्]
20 [[३। ‘प्रमदसम्मदौ हर्षे’ (३-३-६८) इति हर्षेऽभिधेये एतौ शब्दौ निपात्येते। हर्षादन्यत्र, उपसर्गे च प्रमादः, संमादः इत्यादिषु घञ् इति ज्ञेयम्। ‘सध माद- स्थयोश्छन्दसि’ (६-३-९६) इत्यत्र माद इति निर्देशबलात् केवलादप्यस्माद्- धातोर्घञ् भवतीति ज्ञेयम्।]]
21 [कोकिलानाम्]
22 [[आ। ‘कपितोयनिधीन् प्लवङ्गमेन्दुर्मदयित्वा मधुरेण दर्शनेन।’ भ। का। १०। २८।]]
23 [[४। घटादिषु पाठसामर्थ्यात् ‘चिण्णमुलोः--’ (६-४-९३) इति णौ परतः दीर्घो विकल्पेन भवति। तेन रूपद्वयं ज्ञेयम्।]]
24 [[आ। ‘कपितोयनिधीन् प्लवङ्गमेन्दुर्मदयित्वा मधुरेण दर्शनेन।’ भ। का। १०। २८।]]
25 [[५। ‘स्तनिहृषिपुषिगदिमदि--’ [द। उ। १-१४०]
26 [[६। ‘इषिमदि--’ [द। उ। ८-२६]
27 [[७। ‘कृधूमदिभ्यः कित्’ (द। उ। ८-५३) इति सरन्प्रत्ययः, तस्य च कित्त्वम्। माद्यत्यसौ परव्यसनैरिति मत्सरः = ईर्ष्या।]]
28 [[८। ‘ऋतन्यञ्चि--’ (द। उ। १०-१२) इत्यादिना स्यन्प्रत्यये रूपमेवम्। माद्यत्युदकं प्राप्य इति मत्स्यः। स्त्रियाम् गौरादिपाठात् (४-१-४१) ङीष्। ‘मत्स्यस्य ङ्याम्--’ (वा। ६-४-१४९) इति यकारलोपः।]]
29 [पृष्ठम्०९९८+ २७]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
