| YouTube Channel

मदात्ययः (madAtyayaH)

 
Apte Hindi
Hindi
मदात्ययः
पुं*
मद-अत्ययः -
सुरापान के परिणामस्वरुप होनेवाला विकार (सिरदर्द आदि)
शब्दकल्पद्रुमः
Sanskrit
मदात्ययः,
पुं,
(मदेन अत्ययो नाशोन्मुखतात्र ।)मद्यपानादिजन्यरोगविशेषः तत्पर्य्यायः ।मदातङ्कः पानात्ययः मदव्याधिः मदः ।इति राजनिर्घण्टः
अथ मदात्ययादीनांनिदानान्याह ।“विषस्य ये गुणा दृष्टाः सन्निपातप्रकोपनाः ।त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः
तस्मादविधिपीतेन तथा मात्राधिकेन ।युक्तेन चाहितैरन्नैरकाले सेवितेन
मद्येन खलु जायन्ते मदात्ययमुखा गदाः
”अविधिप्रयुक्तं मद्यं विकारान्तरमप्युत्पादयती-त्याह ।“निभक्तमेकान्तत एव मद्यंनिषेव्यमाणं मनुजेन नित्यम् ।उत्पादयेत् कष्टतमान् विकारा-नुत्पादयेच्चापि शरीरभेदम्
”एकान्ततो नैरन्तर्य्येण विकारान् मदात्ययादीन् ।शरीरस्य भेदं नाशम्
*
मदात्ययादीनांहेत्वन्तरमप्याह ।“क्रुद्धेन भीतेन पिपासितेनशोकाभितप्तेन बुभुक्षितेन ।व्यायामभाराध्वपरिक्षतेनवेगावरोधाभिहतेन चापि
अत्यम्लरूक्षावततोदरेणसाजीर्णभुक्तेन तथाबलेन ।उष्णाभितप्तेन सेव्यमानंकरोति मद्यं विविधान् विकारान्
”तानेव विकारान् विवृणोति ।“पानात्ययं परमदं पानाजीर्णमथापि वा
”पानविकारान् विवृणोति ।“पानविभ्रममुग्रञ्च तेषां वक्ष्यामि लक्षणम् ।”तत्र मदात्ययस्य सामान्यं लक्षणमाह ।“शरीरदुःखं बलवत् प्रमोहो हृदयव्यथा ।अरुचिः प्रततं तृष्णा ज्वरः शीतोष्णलक्षणः
शिरःपार्श्वास्थिसन्धीनां वेदना विक्षते यथा ।जायतेऽतिबलात् जृम्भा स्फुरणं वेपनं श्रमः
उरोविबन्धः कासश्च श्वासो हिक्वा प्रजागरः ।शरीरकम्पः कर्णाक्षिमुखरोगास्त्रिकग्रहः
छर्दिविड्भेदावुत्क्लेशो वातपित्तकफात्मकः ।भ्रमः प्रलापो रूपाणामसताञ्चैव दर्शनम्
तृणभस्मलतापर्णपांशुभिश्चावपूरितम् ।प्रधर्षणं विहङ्गैश्च भ्रान्तचेताः मन्यते
व्याकुलानामशस्तानां स्वप्नानां दर्शनानि ।मदात्ययस्य रूपाणि सर्व्वाण्येतानि लक्ष-येत्
”अथ मदात्ययस्य वातिकस्य निदानमाह ।“स्त्रीशोकभयभाराध्वकर्म्मभिर्योऽतिकर्षितः ।रूक्षाल्पप्रमिताशी यः पिबत्यतिमात्रया
रूक्षं परिणतं मद्यं निशि निद्रां निहन्ति ।करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम्
”तत् मद्यम्
*
अथ तस्य लक्षणमाह ।“हिक्वाश्वासशिरःकम्पपार्श्वशूलप्रजागरैः ।विद्याद्वहुप्रलापस्य वातप्रायं मदात्ययम्
”अथ पैत्तिकस्य निदानमाह ।“तीक्ष्णीष्णं मद्यमम्लञ्च योऽतिमात्रं निषेवते ।अम्लोष्णतीक्ष्णभोजी क्रोधनोऽग्न्यातपप्रियः ।तस्योपजायते तीव्रः पित्तप्रायो मदात्ययः
”अथ तस्य लक्षणमाह ।“तृष्णादाहज्वरस्वेदमोहातीसारविभ्रमैः ।विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम्
”अथ श्लैष्मिकस्य मद त्ययस्य निदानमाह ।“मधुरस्निग्धगुर्व्वाशी यः पिबत्यतिमात्रथा ।अव्यायामदिवास्वप्नशय्याशनसुखे रतः ।मदात्ययं कफप्रायं नरो लभते ध्रुवम्
”अथ तस्य लक्षणमाह ।“छर्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवैः ।विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम्
”अथ सान्निपातिकस्य मदातयस्य निदानंलक्षणञ्चाह ।“त्रिदोषहेतुभिः सर्व्वैः सर्व्वैर्लिङ्गैर्मदात्ययः
”अथ परमदमाह ।“श्लेष्मोच्छ्रयोऽङ्गगुरुता विरसास्यता चविण्मूत्रसक्तिरथ तन्द्रिररोचकश्च ।लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः
”तन्द्रिस्तन्द्रा
*
पानाजीर्णमाह ।“आध्मानमुग्रमथवोद्गिरणं विदाहःपाने त्वजीर्णमुपगच्छति लक्षणानि ।”उद्गिरणं वान्तिः उद्गारो वा पीयत इतिपानं मद्यम्
*
पानविभ्रममाह ।“हृद्गात्रतोदकफसंस्रवकण्ठधूम-मूर्च्छावमीज्वरशिरोरुजनप्रदेहाः ।द्वेषः मुरान्नविकृतेषु तेषु तेषुतं पानविभ्रममुषन्त्यखिलेषु धीराः
”कण्ठधूमः कण्ठाद्धूमनिर्गम इव प्रदेहः कफेनलिप्तास्यता द्वेषः सुरान्नविकृतेषु सुरावि-कारेषु अन्नविकारेषु द्वेषः ।अखिलेषु मद्यविकारेषु
*
असाध्यानांमदात्ययादीनां लक्षणमाह ।“दीनोत्तरोष्ठमतिशीतममन्ददाहंतैलप्रभास्यमतिपानहतं त्यजेच्च ।जिह्वोष्ठदन्तमसितन्त्वथवापि नीलंपीते यस्य नयने रुधिरप्रभे
हिक्वा ज्वरो वमथुवेपथुपार्श्वशूलाःकासभ्रमावपि पानहतं त्यजेत्तम्
”अथ मदात्ययादीनां चिकित्सा ।“मदोत्थानान्तु रोगाणां मद्यमेव हि भेषजम् ।यथा दहनदग्धानां दहनस्वेदनं हितं ।मिथ्यातिहीनमद्येन यो व्याधिरुपजायते ।समेनैव निपीतेन मद्येन हि शाम्यति
बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम् ।यवानीहवुषाजाजीशृङ्गवेरावचूर्णितम्
सस्नेहैः शक्तूभिर्युक्तमवदंशैश्चिरोत्थितम् ।दद्यात् सलवणं मद्यं पैष्टिकं वातशान्तये
मद्यं सौवर्च्चलव्योषयुक्तं किञ्चिज्जलान्वितम् ।जीर्णमद्याय दातव्यं वातपानात्ययापहम्
चव्यं सौवर्च्चलं हिङ्गु पूरकं विश्वदीप्यकम् ।चूर्णं मद्येन पातव्यं पानात्ययरुजापहम्
लावतित्तिरिदक्षाणां रसैश्च शिखिनामपि ।पक्षिणां मृगमत्स्यानामानूपनां तथोदनैः
स्निग्धोष्णलवणाम्लैश्च वेसवारैर्मुखप्रियैः ।स्निग्धैर्गोधूमिकैरन्नैर्व्वातमद्यात्ययं जयेत्
नारीणां यौवनोष्णानां निर्द्दयैरुपगूहनैः ।श्रोण्यूरुकुचभारैश्च संरोधोष्मसुखप्रदैः
शयनाच्छादनैरुष्णैरुष्णैश्चान्तर्गृहैः सुग्वैः ।उत्पन्नो मारुतात् शीघ्रं प्रशाम्यति मदा-त्ययः
पित्तपानात्यये योज्याः सर्व्वतश्च क्रिया हिमाः ।सितामाक्षिकसंयुक्तं मद्यमर्द्धोदकं पिबेत्
मद्यं खर्ज्जूरमृद्वीकापरूषकरसैर्युतम् ।सदाडिमरसं शीतं शक्तुभिश्चावचूर्णितम्
सशर्करं वा माध्वीकं संयुक्तमथवापरम् ।दद्यात् बहूदकं काले पातुं पित्तमदात्यये
शशान् कपिञ्जलानेणान् लावानसितपुच्छकान् ।मधुराम्लान् प्रयुञ्जीत भोजने शालिषष्टिकान्
पटोलयूषमिश्रं वा छागलं कल्पयेद्रसम् ।सतीलं मुद्गमिश्रं वा दाडिमामलकान्वितम्
द्राक्षामलकखर्ज्जू रपरूषकरसेन ।कल्पयेत् तर्पणान् यूषान् रसांश्च विविधात्म-कान्
शीतानि चान्नपानानि शीतशय्यासनानि ।शीतवातजलस्पर्शाः शीतान्युपवनानि
क्षौमपद्मोत्पलानाञ्च मणीनां मौक्तिकस्य ।चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतलाः ।रूक्षतर्पणसंयुक्तं यवानीव्योषसंयुतम् ।यवगोधूमकं चान्नं रूक्षयूषेण भोजयेत्
कुलत्थानाञ्च शुष्काणां मूलकानां रसेन वा ।प्रभूतकटुसंयुक्तं यावान्नं वा प्रदापयेत्
छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम् ।व्योषयूषं मनागम्लं पिबेत् कफमदात्यये
स्थाल्यामथ कपाले वा भृष्टं कृत्वा तु नीरसम् ।कट्वम्ललवणं मांसं खादेत् कफमदात्यये
पाचकद्रव्ययुक्तेन मद्येनोल्लेखनं मतम् ।मदात्यये कफोद्भूते लङ्घनञ्च यथाबलम्
यदिदं कर्म्म निर्द्दिष्टं वातपित्तकफान् प्रति ।सर्व्वजे सर्व्वमेवेदं प्रयोक्तव्यं चिकित्सकैः
”इति भावप्रकाशः
गरुडपुराणोक्तमदात्ययनिदानादिकं तत्रैव१६० श्रध्याये द्रष्टव्यम्
(तथाचास्य सकारण-लक्षणचिकित्सादिकं यथा, --“हालाहलाहलसमं भजते वियोगात्सेव्यं शिष्यमनुजैः कथितं मुनीन्द्रैः ।तृष्णा वमिः श्वसनमोहनदाहतृष्णासंजायतेऽतिसरणं विकलेन्द्रियत्वम्
ये नित्यसेवनाद्दुष्टा मद्यस्य मनुजा भृशम् ।बिषमाहारसदृशी मुरा मोहनकारिणी
यथा विषं प्राणहरं वियोगाद्योगेन तच्चाप्यमृतं वदन्ति ।तथा सुरा योगयुता हिता स्या-दयोगतश्चारभतेऽतिकष्टम्
क्षुधातुरे तृषाक्रान्ते सुरा वा भोजनं विना ।न क्षीणैर्विना भक्ता विनाहारातिपानकम्
अत्यशनेऽप्यजीर्णेऽपि सुरा पीता रुजाकरी ।यस्य प्रलपनञ्चापि वातमदात्ययः ।दाहमूर्च्छातिसारश्च ज्वरः पित्तमदात्यये
छर्द्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवम् ।शीतता प्रतिश्यायः कफजे मदात्यये ।त्रिषु दोषेषु समता लिङ्गैर्येषामुपक्रमः ।स त्रिदोषसमुद्भूतो मदमूर्च्छा भिषग्वर !
वमनञ्च प्रशस्तञ्च निद्रासंसेवनं पुनः ।स्नानं हितं पयःपानं भोजने सगुडं दधि
मस्तुखण्डं सखर्ज्जूरं मृद्वीका दाडिमाम्लिका ।आमला परूषञ्च लेहो हन्ति मदात्ययम्
द्राक्षामलकखर्ज्जूरपरूषकरसेन वा ।कल्कयेत् पयसा तत्तु पानं सर्व्वमदात्यये
पथ्या क्वाथेन संयुक्तं पयःपानं मदात्यये ।”इति मदात्ययचिकित्सा
अथ पूगीपलमदात्ययचिकित्सारभ्यते ।“पूगीफलमदे कम्पो मोहो मूर्च्छा क्लमस्तमः ।प्रस्वेदो विधुरत्वञ्च लालास्रावश्च जायते
भ्रमक्लमपरीतत्वं विज्ञेयं पूगमूर्च्छिते ।मानवो लक्षणैरेभिर्ज्ञेयः पूगविमूर्च्छितः
तस्य शीतं जलं पीतं वस्तिवातहितं भवेत् ।शर्कराभक्षणे देया मुस्ता वा शर्करान्विता
कोद्रवाणां भवेन्मूर्च्छा देयं क्षीरं सुशीतलम् ।धुस्तूरकमदे देयं शर्करासहितं दधि
फलिनी करवीरञ्च मोहिनी मदयन्तिका ।अन्येषामपि कन्दानां वमनञ्चाशु कारयेत्
पाययेत् शर्करायुक्तं क्षीरं वा दधि शर्कराम् ।”इति श्रीमहर्ष्यात्रेयभाषिते हारीतोत्तरे तृतीय-स्थाने मदात्ययचिकित्सानाम सप्तदशोऽध्यायः
)