| YouTube Channel

मदनद्वादशी (madanadvAdazI)

 
Spoken Sanskrit
English
मदनद्वादशी madanadvAdazI
f.
12th day of the light half of the month caitra
Monier Williams Cologne
English
मदन—द्वादशी
f.
the 12th day of the light half of the month Caitra (sacred to, K°),
MW.
Wordnet
Sanskrit
Synonyms:
मदनद्वादशी
noun
चैत्रमासस्य कृष्णपक्षे वर्तमाना द्वादशी।
"केचन जनाः मदनद्वादश्यां व्रतं कुर्वन्ति।"
शब्दकल्पद्रुमः
Sanskrit
मदनद्वादशी,
स्त्री,
(मदनपूजाविषयिणी द्वादशी ।)चैत्रशुक्लद्वादशी अत्र मदनव्रतं कार्य्यम् यथा, ऋषय ऊचुः ।“श्रोतुमिच्छामहे सूत ! मदनद्बादशीव्रतम् ।सुतानेकोनपञ्चाशत् येन लेभे दितिः पुनः
सूत उवाच ।यद्बशिष्ठादिभिः पूर्व्वं दितेः कथितमुत्तमम् ।विस्तरेणैतदेवेदं मत्सकाशान्निबोधत
चैत्रे मासि सिते पक्षे द्वादश्यां नियतव्रतः ।स्थापयेदव्रणं कुम्भं सिततण्डुलपूरितम्
नानाफलयुतं तद्बदिक्षुदण्डसमन्वितम् ।सितवस्त्रयुगच्छन्नं सितचन्दनचर्च्चितम्
नानाभक्ष्यफलोपेतं सहिरण्यञ्च शक्तितः ।ताम्रपात्रं शुभोपेतं तस्योपरि निवेदयेत्
तस्मादुपरि कामन्तु कदलीदलसंस्थितम् ।कुर्य्याच्छर्करयोपेतां रतिं तस्य वामतः
गन्धधूपं ततो दद्यात् गीतवाद्यञ्च कारयेत् ।तदभावे कथां कुर्य्यात् कामकेशवयोर्नरः
कामनाम्ना हरेरर्च्चां स्नापयेद् गुडवारिणा ।शुक्लपुष्पाक्षततिलैरर्च्चयेन्मधुसूदनम्
कामाय पादौ संपूज्य जंघे सौभाग्यदाय ।ऊरू स्मरायेति पुनर्मंन्मथायेति वै कटिम्
स्वच्छोदरायेत्युदरं अनङ्गायेत्युरो हरेः ।मुखं पद्ममुखायेति बाहू पञ्चशराय वै
नमः सर्व्वात्मने मौलिमर्च्चयेदिति केशवम् ।ततः प्रभाते तं कुम्भं ब्राह्मणाय निवेदयेत्
ब्राह्मणान् भोजयेद्भक्त्या स्वयञ्च लवणादृते ।भुक्त्वाथ दक्षिणां दद्यादिमं मन्त्रमुदीरयेत्
प्रीयतामत्र भगवान् कामरूपी जनार्द्दनः ।हृदये सर्व्वभूतानामानन्दो यो विधीयते
अनेन विधिना सर्व्वं मासि मासि समाचरेत् ।उपवासी त्रयोदश्यामर्च्चयेद् विष्णुमव्ययम्
फलमेकञ्च संप्राश्य द्वादश्यां भूतले स्वपेत् ।ततस्त्रयोदशे मासि घृतं धेनुसमन्वितम्
शय्यां दद्यादनङ्गाय सर्व्वोपस्करसंयुताम् ।काञ्चनं कामदेवञ्च शुक्लां गाञ्च पयस्विनीम्
वासोभिर्द्विजदाम्पत्यं पूज्य शक्त्या विभूषणैः ।शय्यां गवादिकं दद्यात् प्रीयतामित्युदीरयेत्
होमं शुक्लैस्तिलैः कुर्य्यात् कामनामानि कीर्त्तयन् ।गव्येन सर्पिषा चैव पायसेन धर्म्मवित्
विप्रेभ्यो भोजनं दद्याद्वित्तशाठ्यविवर्ज्जितः ।इक्षुदण्डानथो दद्यात् पुष्पमालाश्च शक्तितः
यः कुर्य्याद्विधिनानेन मदनद्वादशीमिमाम् ।सर्व्वपापविनिर्मुक्तः प्राप्नोति हरिसाम्यताम् ।इह लोके वरान् पुत्त्रान् सौभाग्यञ्च समश्नुते
”इति मत्स्यपुराणे अध्यायः
वाचस्पत्यम्
Sanskrit
मदनद्वादशी स्त्री मदनपूजार्था द्वादशी चैत्रशुक्लद्वादश्याम् मत्स्यपु० अ०