| YouTube Channel

मदनत्रयोदशी (madanatrayodazI)

 
Monier Williams Cologne
English
मदन—त्रयोदशी
f.
N.
of a festival in honour of Kāma-deva on the 13th day in the light half of the month Caitra,
L.
Apte Hindi
Hindi
मदनत्रयोदशी
स्त्री*
मदन-त्रयोदशी -
चैत्रशुक्ला त्रयोदशी या काम के सम्माना में उस दिन मनाया जाने वाला उत्सव
Shabdartha Kaustubha
Kannada
मदनत्रयोदशी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಚೈತ್ರ ಶುದ್ಧ ತ್ರಯೋದಶಿ
L R Vaidya
English
madana-trayodaSI {% f. %} the thirteenth day in the first half of Chaitra sacred to the god of love.
Wordnet
Sanskrit
Synonyms:
मदनत्रयोदशी
noun
चैत्रमासस्य शुक्लपक्षे वर्तमाना त्रयोदशी।
"सोहनः मदनत्रयोदश्यां जातः।"
शब्दकल्पद्रुमः
Sanskrit
मदनत्रयोदशी,
स्त्री,
(मदनपूजार्था त्रयोदशी ।)चैत्रशुक्लत्रयोदशी तत्र मदनस्य व्रतं कर्त्तव्यम् ।यथा भविष्ये ।“चैत्रशुक्लत्रयोदश्यां मदनं दमनात्मकम् ।कृत्वा संपूज्य विधिवद्बीजयेद्ब्यजनेन तु
तत्र सन्धुक्षितः कामः पुत्त्रपौत्त्रविवर्द्धनः ।कामदेवस्त्रयोदश्यां पूजनीयो यथाविधि ।रतिप्रीतिसमायुक्तो ह्यशोकमणिभूषितः
”दमनो दमनकवृक्षः सन्धुक्षितः प्रीणितः ।कामदेवध्यानन्तु ।“चापेषुधृक् कामदेवो रूपवान् विश्वमोहनः ।”तत्र स्तुतिमन्त्रः ।“पुष्पधन्वन् ! नमस्तेऽस्तु नमस्ते मीनकेतन ! ।मुनीनां लोकपालानां धैर्य्यच्युतिकृते नमः
माधवात्मज ! कन्दर्प ! सम्बरारे ! रति-प्रिय ! ।नमस्तुभ्यं जिताशेषभुवनाय मनोभुवे
आधयो मम नश्यन्तु व्याधयश्च शरीरजाः ।सम्पद्यतामभीष्टं मे सम्पदः सन्तु मे स्थिराः
नमो माराय कामाय देवदेवस्य मूर्त्तये ।ब्रह्मविष्णुशिवेन्द्राणां मनःक्षोभकराय
एवं यः कुरुते पूजामनङ्गस्य महात्मनः ।भवन्ति नापदस्तस्य तस्मिन्नब्दे कदाचन
”इति तिथितत्त्वम्
वाचस्पत्यम्
Sanskrit
मदनत्रयोदशी स्त्री मदनपूजार्था त्रयोदशी चैत्रशुक्ल-त्रयोदश्याम् ति० त० दृश्यम्