मदनः (madanaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiमदनः
- -
कामदेव
मदनः
- -
"प्रेम, प्रणयोन्माद, उत्कण्ठा, कामुकता"
मदनः
- -
वसन्त ॠतु
मदनः
- -
"मधुमक्खी, भौंरा, "
मदनः
- -
मोम
मदनः
- -
एक प्रकार का आलिंगन
मदनः
- -
धतूरे का पौधा
मदनः
- -
"बकुल का वृक्ष, खैर"
मदनः
- मद्+ल्युट्
जन्मकुण्डली में सातवाँ घर
मदनः
- मद्+ल्युट्
एक प्रकार की संगीतमाप
Wordnet
Sanskrit बकूलः, अगस्त्यः, वकवृक्षः, केसरः, केशरः, सिंहकेसरः, वरलब्धः, सीधुगन्धः, मुकूलः, मुकुलः, स्त्रीमुखमधुः, दोहलः, मधुपुष्पः, सुरभिः, भ्रमरानन्दः, स्थिरकुसुमः, शारदिकः, करकः, सीसंज्ञः, विशारदः, गूढपुष्यकः, धन्वी, मदनः, मद्यामोदः, चिरपुष्पः, करहाटकः, करहाटः, स्त्रीमुखमधुदोहदः, स्त्रीमुखमधुदोहलः, स्त्रीमुखपः, शीतगन्धा, धन्वः, सीधुगन्धः, करकः, केसरः, चिरपुष्पः, मुकुरः, दन्तधावनः
वृक्षविशेषः, पुष्पष्पवृक्षविशेषः आयुर्वेदे अस्य गुणाः शीतलत्वहृद्यत्वविषदोषनाशित्वम्।
"बकूलस्य फलम् दन्तस्थैर्यकरम् अस्ति।"
पिण्डीतकः, मरुबकः, श्वसनः, करहाटकः, शल्यः, मदनः
कण्टकयुक्तः वृक्षः।
"पिण्डीतकस्य फलम् औषधाय उपयुज्यते।"
अङ्कोलः, अङ्कोटः, निकोचकः, अङ्कोठः, निकोठकः, लिकोचकः, अङ्कोलकः, बोधः, नेदिष्ठः, दीर्घकीलकः, रामठः, कोठरः, रेची, गूढपत्रः, गुप्तस्नेहः, पीतसारः, मदनः, गूढवल्लिका, पीतः, ताम्रफलः, दीर्घकीलः, गुणाढ्यकः, कोलकः, लम्बकर्णः, गन्धपुष्पः, रोचनः, विशानतैलगर्भः
वृक्षविशेषः।
"अङ्कोलस्य बीजैः निर्मितस्य तैलस्य शरीरे आलेपनं क्रियते चेत् सः पुरुषः अदृश्यः भविष्यति इति लोकोक्तिः वर्तते।"
कामदेवः, कामः, मदनः, मन्मथः, मारः, प्रद्युम्नः, मीनकेतनः, कन्दर्पः, दर्पकः, अनङ्गः, पञ्चशरः, स्मरः, शम्बरारिः, मनसिजः, कुसुमेषुः, अनन्यजः, रतिनाथः, पुष्पधन्वा, रतिपतिः, मकरध्वजः, आत्मभूः, ब्रह्मसूः, विश्वकेतुः, कामदः, कान्तः, कान्तिमान्, कामगः, कामाचारः, कामी, कामुकः, कामवर्जनः, रामः, रमः, रमणः, रतिनाथः, रतिप्रियः, रात्रिनाथः, रमाकान्तः, रममाणः, निशाचरः, नन्दकः, नन्दनः, नन्दी, नन्दयिता, रतिसखः, महाधनुः, भ्रामणः, भ्रमणः, भ्रममाणः, भ्रान्तः, भ्रामकः, भृङ्गः, भ्रान्तचारः, भ्रमावहः, मोहनः, मोहकः, मोहः, मातङ्गः, भृङ्गनायकः, गायनः, गीतिजः, नर्तकः, खेलकः, उन्मत्तोन्मत्तकः, विलासः, लोभवर्धनः, सुन्दरः, विलासकोदण्डः
कामस्य देवता।
"कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।"
बीजपुष्पः, मदनः, मरुवकः
विविधाः वनस्पति-विशेषाः ।
"कोशकारैः बीजपुष्पः समुल्लिखितः विद्यते"
बीजपुष्पः, मदनः, मरुवकः
विविधाः वनस्पति-विशेषाः ।
"कोशकारैः बीजपुष्पः समुल्लिखितः विद्यते"
वैजयन्तीकोषः
SanskritWord: मदनः
Root: मदन
Gender: पुं
Number: all
अर्थः ⇒
Meaning(s):
⇒ Mayan
Vangueria spinosa
a kind of basil
Tamil Marukkārai
Shloka(s):
3|3|49|1 ► कृतमालः सुपर्णश्च मदने तु फणी रसः। (भूमिकाण्डः/वनाध्यायः)
3|3|49|2 ► पिण्डीतके मरुवक इक्ष्वाकुर्गालवामनौ॥ (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
➠ 3|3|49|1 ⇢ मदनः (मदन) (पुं) ⇒ Mayan
Vangueria spinosa
a kind of basil
Tamil Marukkārai ⇒
➠ 3|3|49|1 ⇢ फणी (फणिन्) (पुं) ⇒ Mayan
Vangueria spinosa
a kind of basil
Tamil Marukkārai ⇒
➠ 3|3|49|1 ⇢ रसः (रस) (पुं) ⇒ Mayan
Vangueria spinosa
a kind of basil
Tamil Marukkārai ⇒
➠ 3|3|49|2 ⇢ पिण्डीतकः (पिण्डीतक) (पुं) ⇒ Mayan
Vangueria spinosa
a kind of basil
Tamil Marukkārai ⇒
➠ 3|3|49|2 ⇢ मरुवकः (मरुवक) (पुं) ⇒ Mayan
Vangueria spinosa
a kind of basil
Tamil Marukkārai ⇒
➠ 3|3|49|2 ⇢ इक्ष्वाकुः (इक्ष्वाकु) (पुं) ⇒ Mayan
Vangueria spinosa
a kind of basil
Tamil Marukkārai ⇒
➠ 3|3|49|2 ⇢ गालवः (गालव) (पुं) ⇒ Mayan
Vangueria spinosa
a kind of basil
Tamil Marukkārai ⇒
➠ 3|3|49|2 ⇢ अमनः (अमन) (पुं) ⇒ Mayan
Vangueria spinosa
a kind of basil
Tamil Marukkārai ⇒
Related word(s):
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Tamil
Tamilமத3ன: : மன்மதன், காதல், தேன் வண்டு, மகிழ மரம், காம விகாரம், இளவேனில் காலம்.
शब्दकल्पद्रुमः
Sanskritमदनः, (मदयतीति । मद् + णिच् ल्युः ।)कामदेवः । इत्यमरः । १ । १ । २६ ॥
तस्य नाम्नां व्युत्पत्तिर्यथा । ऋषय ऊचुः ।“यस्मात् प्रमथ्य चेतस्त्वं जातोऽस्माकं तथा विधेः ।तस्मान्मन्मथनाम्ना त्वं लोके गेयो भविष्यसि ॥
जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते ।अतस्त्वं कामनाम्नापि ख्यातो भव मनोभव ! ॥
मदनान्मदनाख्यस्त्वं शम्भोर्दर्पात् सदर्पकः ।तथा कन्दर्पनाम्नापि लोके ख्यातो भविष्यसि ॥
”इति कालिकापुराणे २ अध्यायः ॥
ब्रह्मणस्तस्योत्पत्तिर्यथा, --“प्रहृष्टमानसः पुत्त्रं कन्यैकाञ्च ससर्ज्ज ह ।हृष्टस्य कामिनः पुत्त्रः कामदेवो बभूव ह ॥
कन्या षोडशवर्षीया रत्नभूषणभूषिता ॥
उवाच पुत्त्रं स विधिः सुदीप्तं पुरतः स्थितम् ।दुर्न्निवार्य्यं मत्कलांशं स्वात्मारामं मनोहरम् ॥
ब्रह्मोवाच ।स्त्रीपुंसोः क्रीडनार्थाय मुदा त्वञ्च विनिर्म्मितः ।हृदि योगेन सर्व्वेषामधिष्ठानं करिष्यसि ॥
सम्मोहनं समुद्वेगबीजं स्तम्भितकारणम् ।उन्मत्तबीजं ज्वलनं शश्वच्चेतनहारकम् ॥
प्रगृह्यैतान्मया दत्तान् सर्व्वान् सम्मोहनं कुरु ।दुर्निवार्य्यो मम वराद्भव वत्स ! भवेषु च ॥
बाणान्दत्त्वैवमुक्त्वा च प्रहृष्टश्च जगद्बिधिः ।दृष्ट्वा वाचं दुहितरं वरं दातुं समुद्यतः ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३५ अध्यायः ॥
(योगाचार्य्यरूपः शिवस्यावतारविशेषः ।यथा, शिवपुराणे वायुसंहितायाम् । २ । १० ।१ -- २ ।श्रीकृष्ण उवाच ।“युगावर्त्तेषु सर्वेषु योगाचार्य्यछलेन तु ।अवताराणि सर्वस्य शिष्यांश्च भगवन् ! वद ॥
”उपमन्युरुवाच ।“श्वेतः सुतारो मदनः सुहोत्रः कंक एव च ॥
”महादेवः । मदयति भक्तानां मनः इतिमद + ल्युः । मनसि आनन्दजनकत्वादस्य तथा-त्वम् । यथा, महाभारते । १३ । १७ । ६९ ।“उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरोयशः ॥
”मत्तता । वरारोहाणां कामिनीनां भावविशेषःइति यावत् । यथा, महाभारते । ३ ।४६ । १३ ।“सीधुपानेन चाल्पेन तुष्टाथ मदनेन च ।विलासनैश्च विविधैः प्रेक्षणीयतराभवत् ॥
”)वसन्तः । धुस्तूरः । सिक्थकम् । इति मेदिनी ।मे । १०३ ॥
वृक्षभेदः । मयना इति भाषा ।तत्पर्य्यायः । पिचुकः २ मुचुकुन्दः ३ कण्टकी ४ ।इति रत्नमाला ॥
पिण्डीतकः ५ । (तथाचास्यपर्य्यायान्तरं गुणाश्च ।“मदनः छर्द्दनः पिण्डो नटः पिण्डीतकस्तथा ।करहाटी मरुवकः शल्यको विषपुष्पकः ॥
मदनो मधुरस्तिक्तो वीर्य्योष्णो लेखनो लघुः ।वान्तिकृद्विद्रधिहरः प्रतिश्यायव्रणान्तकः ॥
रूक्षः कुष्ठकफानाहशोथगुल्मव्रणापहः ॥
”धुस्तूरार्थे पर्य्यायो यथा, --“धत्तूरधूर्त्तधुत्तूरा उन्मत्तः कनकाह्वयः ।देवता कितवस्तूरी महामोहः शिवप्रियः ॥
मातुलो मदनश्चास्य फले मातुलपुत्त्रकः ॥
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥
)मरुवकः ६ श्वसनः ७ करहाटकः ८ शल्यः ९ ।इत्यमरः । २ । ४ । ५२ -- ५३ ॥
भ्रमरः ।इति जटाधरः ॥
माषः । इति हेमचन्द्रः ॥
खदिरवृक्षः । इति शब्दचन्द्रिका ॥
मङ्कोठ-वृक्षः । वकुलवृक्षः । वृक्षविशेषः । मयना-फल इति भाषा । तत्पर्य्यायः । शल्यः २कैटर्य्यः ३ पिण्डः ४ धाराफलः ५ तगरः ६करहाटः ७ पिण्डीतकः ८ श्वसनः ९ मरु-वकः १० । अस्य गुणाः । वमिकारकत्वम् ।तिक्तत्वम् । उष्णवीर्य्यत्वम् । लेखनत्वम् । लघुत्वम् ।रूक्षत्वम् । कुष्ठकफानाहशोफगुल्मब्रणापहत्वञ्च ।इति राजनिर्घण्टः ॥
आलिङ्गनविशेषः । तल्ल-क्षणम् । नायको नायिकायाः कण्ठे हस्तं दत्त्वाद्वितीयहस्तं तस्या मध्यदेशे दत्त्वा यदाश्लिषति ।इति कामशास्त्रम् ॥
(“अथ मयनम् ।” मम्इति भाषा ।“मयनन्तु मधूच्छिष्टं मधुशेषञ्च सिक्थकम् ।मध्वाधारो मदनकं मधूषितमपि स्मृतम् ॥
मदनं मृदुसुस्निग्धं भूतघ्नं ब्रणरोपणम् ।भग्नतन्धानकृद्वातकुष्ठवीसर्परक्तजित् ॥
”इति च भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ॥
मण्डलिसर्पान्तर्गतसर्पविशेषः ॥
“शिशुको मदनःपालिंहिरः इत्यादि ।” इति मुश्रुते कल्पस्थानेचतुर्थेऽध्याये ॥
)
कृदन्तरूपमाला
Sanskrit1 {@“मदी हर्षग्लेपनयोः”@} 2 शमादिः, घटादिश्च।
‘ग्लेपनम् = दैन्यम्’ इति मा।
धा।
वृत्तिः।
‘ग्लपने’ इति क्षीरतरङ्गिण्यां पाठः।
‘स्तुत्यादौ मन्दते, हर्षे माद्येत्, मादयते णिचि।।’ 3 इति देवः।
4 मादकः-दिका, 5, मादकः 6 इत्यादिषु मित्त्वं नेति ज्ञेयम्।]] मदकः-निमादकः-मादकः-दिका, मिमदिषकः-षिका, मामदकः-दिका
मदिता-त्री, मदयिता-त्री, मिमदिषिता-त्री, मामदिता-त्री
7 माद्यन्-न्ती, मदयन्-न्ती, मिमदिषन्-न्ती
-- मदिष्यन्-न्ती-ती, मदयिष्यन्-न्ती-ती, मिमदिषिष्यन्-न्ती-ती
-- -- मदयमानः, मदयिष्यमाणः, --मामद्यमानः, मामदिष्यमाणः
सुमत्-सुमद्-सुमदौ-सुमदः
-- -- -- 8 मत्तम्-मत्तः-मत्तवान्, मदितः, मिमदिषितः, मामदितः-तवान्
मदः, 9 प्रमद्वरः, 10 प्रमादी, 11 इरम्मदः 12, 13 उन्मदिष्णुः 14, मदः, 15 मदनः, मिमदिषुः, मामदः
मदितव्यम्, मदयितव्यम्, मिमदिषितव्यम्, मामदितव्यम्
16 मदनीयम्, मदनीयम्, मिमदिषणीयम्, मामदनीयम्
माद्यम्- 17 मद्यम्, मद्यम्, मिमदिष्यम्, मामद्यम्
ईषन्मदः-दुर्मदः-सुमदः
-- -- -- मद्यमानः, मद्यमानः, मिमदिष्यमाणः, मामद्यमानः
मादः, 18 विद्यामदः-धनमदः, कुलमदः, 19 20 प्रमदः, 21 सम्मदः, प्रमादः-सम्मादः-उन्मादः-विमादः, मदः, मिमदिषः, मामदः
मदितुम्, मदयितुम्, मिमदिषितुम्, मामदितुम्
मत्तिः, मदना, मिमदिषा, मामदा
मदनम्, मदनम्, मिमदिषणम्, मामदनम्
मदित्वा, 22 मदयित्वा, मिमदिषित्वा, मामदित्वा
प्रमद्य, प्रमदय्य, प्रमिमदिष्य, प्रमामद्य
मादम् २, मदित्वा २, 23 मादम् २ -मदम् २, 24 मदयित्वा २, मिमदिषम् २, मिमदिषित्वा २, मामदम् २
मामदित्वा २
25 इति ण्यन्तात् इत्नुच्प्रत्यये रूपमेवम्।
मदयित्नुः = मदिरा।]] मदयित्नुः, 26 इत्यादिना किरच्प्रत्यये रूपमेवम्।
माद्यन्तेऽ- नयेति मदिरा = सुरा।]] मदिरा, 27 मत्सरः, 28 मत्स्यः-मत्सी।
29
01 (१२१६)
02 (४-दिवादिः-[८१५] १२०८। अक। सेट्। पर।)
03 (श्लो। ११२)
04 [पृष्ठम्०९९६+ २८]
05 [[१। ‘घटादयो मितः’ (ग। सू। भ्वादौ) इति मित्त्वात् ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाया ह्रस्वो भवति। एवं ण्यन्ते सर्वत्र ज्ञेयम्। ‘मदी हर्षे’ इति दिवादिषु पठितस्यैव धातोर्मित्त्वार्थं घटादिषु (भ्वादौ) अनुवादः। तेन हर्षग्लेपन- रूपार्थविशेष एव घटादिपाठात् मित्त्वेन मदकः इत्यादीनि ण्यन्ते रूपाणीति ज्ञेयम्। अन्यत्रार्थेषु निमादकः [= अक्षरव्यञ्जनानां स्पष्टमुच्चारयिता]
06 [= चित्तविकारोत्पादयिता]
07 [[२। श्यनि, ‘शमामष्टानाम्--’ (७-३-७४) इति दीर्घे रूपमेवम्।]]
08 [[३। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति निष्ठायामिण्निषेधे ‘न ध्याख्यापॄमूर्च्छि- मदाम्’ (८-२-५७) इति निष्ठानत्वनिषेधे च रूपमेवम्।]]
09 [[४। ‘स्थेशभास-’ (३-२-१७५) इत्यत्र “प्रमद्वरोऽपि इति केचित्।” इति प्रक्रियाकौमुदी।]]
10 [[५। ‘शमित्यष्टाभ्यः--’ (३-२-१४१) इति ताच्छील्ये घिनुण्प्रत्यये रूपमेवम्।]]
11 [[६। इरया माद्यतीति इरम्मदः = मेघज्योतिः। इरा = उदकम्। ‘उग्रम्पश्येरम्मद- पाणिन्धमाश्च’ (३-२-३७) इति कर्तरि तृजाद्यपवादतया खश् निपात्यते। निपातना- देव श्यन् न। ‘इरया = वारिणा माद्यन् वैद्युताग्निरिरम्मदः।’ इति प्र। सर्वस्वे।]]
12 [[आ। ‘इरम्मदं ज्योतिरमुञ्चदब्भ्रं शनैश्शनैः प्रावृषिकं ररास।।’ वा। वि। ३। ६।]]
13 [[७। ‘अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मद--’ (३-२-१३६) इत्यादिना तच्छीलादिषु कर्तृषु इष्णुच्प्रत्ययः।]]
14 [[B। ‘व्यालद्विपा यन्तृभिरुन्मदिष्णवः कथंचिदारादपथेन निन्यिरे।।’ शि। व। १२। २८।]]
15 [[८। ण्यन्तात् ‘नन्दिग्रहि--’ (३-१-१३४) इति नन्द्यादित्वात् कर्तरि ल्युप्रत्यये रूपमेवम्। मदयतीति मदनः।]]
16 [पृष्ठम्०९९७+ ३२]
17 [[१। “मदसाधनम्--मद्यम्। बाहुलकात् करणे यत्।” इति प्र। सर्वस्वे।]]
18 [[२। ‘मदोऽनुपसर्गे’ (३-३-६७) इति अनुपसर्गेऽप्प्रत्ययः। घञोऽपवादः। कुलमदः, धनमदः, इत्यादिषु चैवं ज्ञेयम्।]]
19 [कन्यानाम्]
20 [[३। ‘प्रमदसम्मदौ हर्षे’ (३-३-६८) इति हर्षेऽभिधेये एतौ शब्दौ निपात्येते। हर्षादन्यत्र, उपसर्गे च प्रमादः, संमादः इत्यादिषु घञ् इति ज्ञेयम्। ‘सध माद- स्थयोश्छन्दसि’ (६-३-९६) इत्यत्र माद इति निर्देशबलात् केवलादप्यस्माद्- धातोर्घञ् भवतीति ज्ञेयम्।]]
21 [कोकिलानाम्]
22 [[आ। ‘कपितोयनिधीन् प्लवङ्गमेन्दुर्मदयित्वा मधुरेण दर्शनेन।’ भ। का। १०। २८।]]
23 [[४। घटादिषु पाठसामर्थ्यात् ‘चिण्णमुलोः--’ (६-४-९३) इति णौ परतः दीर्घो विकल्पेन भवति। तेन रूपद्वयं ज्ञेयम्।]]
24 [[आ। ‘कपितोयनिधीन् प्लवङ्गमेन्दुर्मदयित्वा मधुरेण दर्शनेन।’ भ। का। १०। २८।]]
25 [[५। ‘स्तनिहृषिपुषिगदिमदि--’ [द। उ। १-१४०]
26 [[६। ‘इषिमदि--’ [द। उ। ८-२६]
27 [[७। ‘कृधूमदिभ्यः कित्’ (द। उ। ८-५३) इति सरन्प्रत्ययः, तस्य च कित्त्वम्। माद्यत्यसौ परव्यसनैरिति मत्सरः = ईर्ष्या।]]
28 [[८। ‘ऋतन्यञ्चि--’ (द। उ। १०-१२) इत्यादिना स्यन्प्रत्यये रूपमेवम्। माद्यत्युदकं प्राप्य इति मत्स्यः। स्त्रियाम् गौरादिपाठात् (४-१-४१) ङीष्। ‘मत्स्यस्य ङ्याम्--’ (वा। ६-४-१४९) इति यकारलोपः।]]
29 [पृष्ठम्०९९८+ २७]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
