मथुरा (mathurA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte 1890
Englishमथु(थू)रा [मथ्-उ-ऊ-रच्] N. of an ancient town situated on the right bank of the Yamunā, the birth-place of Kṛṣṇa and the scene of his amours and exploits
it is one of the seven sacred cities in India (see अवंति), and is, to this day, the favourite resort of thousands of devotees. It is said to have been founded by Śatrughna
निर्ममे निर्ममोर्थेषु मथुरां मधुराकृतिः R. 15. 28
कलिंदकन्या मथुरां गताऽपि गंगोर्मिसंसक्तजलेव भाति 6. 48.
Comp.
ईशः,
नाथः epithets of Kṛṣṇa.
Monier Williams Cologne
Englishमथुरा b of various towns (esp. of an ancient town now called Muttra and held in great honour as the birthplace of Kṛṣṇa
situated in the province of Agra on the right bank of the Yamunā or Jumna
described in xii, 1 as having been founded by Śatru-ghna
to on ii, 19 it forms part of a district called Brahmarṣi, belonging to Śūra-sena), Pariś.
Apte Hindi
Hindiमथुरा
- मथ् + उ रच् + टाप्
"यमुना नदी के दक्षिणी किनारे पर बसा हुआ एक प्राचीन नगर, कृष्ण की जन्मभूमि तथा उसके कारनामों का स्थल, यह भारत की सात पुण्यनगरियों में से एक है, (दे* अवन्ति ) और आज भी हजारों की संख्या में भक्त लोग दर्शनार्थ यहाँ जाते हैं। कहा जाता है कि इस नगर को शत्रुघ्न ने बसाया था"
Shabdartha Kaustubha
Kannadaमथुरा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮಧುರಾ ನಗರ /ಶೂರಸೇನ ದೇಶದ ದೊರೆ ಸುಷೇಣನ ನಗರ
प्रयोगाः - > "कलिन्दकन्या मथुरां गतापि गङ्गोर्मिसंसक्तजलेन भाति"
उल्लेखाः - > रघु० ६-४६
L R Vaidya
EnglishmaTu(TU)rA {% f. %} Name of an ancient city situated on the right bank of the Yamunā
it is one of the seven sacred cities and is celebrated as being the birth-place of Kṛishṇa
it is said to have been founded by Śatrughna, निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः R.xv.28, कलिंदकन्या मथुरां गतापि गंगोर्मिसंसक्तजलेव भाति R.vi.48.
Wordnet
Sanskrit मथुरा
यमुनातटे वर्तमानम् एकं प्राचीनं नगरम्।
"कंसः मथुरायाः राजा आसीत्।"
Sanskrit Tibetan
Tibetanbcom rlag
मथुरा
bcom rlags
मथुरा
bcom brlag
मथुरा
bcom brlag pa
मथुरा
अभिधानचिन्तामणिः
Sanskritमथुरा तु मधूपघ्नं मधुराथ गजाह्वयम् ।
स्याद्धास्तिनपुरं हस्तिनीपुरं हस्तिनापुरम् ॥ ९७८ ॥
मथुरा (स्त्री), मधूपघ्न (क्ली), मधुरा (स्त्री), गजाह्वय (क्ली), हास्तिनपुर (क्ली), हस्तिनीपुर (क्ली), हस्तिनापुर (क्ली)
Mahabharata
EnglishMathurā, a city, the present Muthra. § 273 (Rājasūyārambhap.): II, 14, 609 (the city of the Yādavas, from which they fled from fear of Jarāsandha), 632 (ºṃ samparityajya, sc. the Yādavas).--§ 275 (do.): II, 19, 763, 764 (Jarāsandha hurled a mace toward M.
the place near M. where it fell down is named Gadāvasāna).--§ 641 (Rājadh.): XII, 101, 3737 (ºm abhitaś ca ye, are skilful in fighting with the bare arms).--§ 717b (Nārāyaṇīya): XII, 340, 12954 (Nārāyaṇa will take birth as Kṛshṇa in M.).
पुराणम्
Englishमथुरा / MATHURĀ. The birth place of śrī kṛṣṇa.
शब्दकल्पद्रुमः
Sanskritमथुरा, (मथ्यते पापराशिर्यया इति । मथ +“मन्दिवाशीत्यादि ।” उणा० । १ । ३९ ।इति उरच् ।) स्वनामख्यातपुरी । अधुनाआगरा इति ख्यातस्याग्रवणस्य नगरम् ।(यथा, रघौ । ६ । ४८ ।“यस्यावरोधस्तनचन्दनानांप्रक्षालनाद्वारिविहारकाले ।कलिन्दकन्या मथुरां गतापिगङ्गोर्म्मिसंसक्तजलेव भाति ॥
”)तत्पर्य्यायः । मधुपघ्नम् २ । इति त्रिकाण्डशेषः ॥
मधुपुरी ३ मधुरा ४ । इति शब्दरत्नावली ॥
सा च मोक्षदायकतीर्थम् । यथा, --“अयोध्या मथुरा माया काशी काञ्ची अव-न्तिका ।पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः ॥
अयोध्या रामनगरी मथुरा कृष्णपालिता ।एतास्तु पृथिवीमध्ये न गण्यन्ते कदाचन ॥
श्रीरामधनुरग्रस्था अयोध्या सा महापुरी ।मथुरा केशवोत्सृष्टसुदर्शनविधारिता ॥
”इत्यादिभूतशुद्धितन्त्रम् ॥
* ॥
तत्र विष्णुदर्शनमाहात्म्यं यथा, “यज्ज्यैष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले ।मथुरायां हरिं दृष्ट्वा प्राप्नोति परमां गतिम् ॥
यमुनासलिले स्नातः पुरुषो मुनिसत्तम ! ।ज्येष्ठामूलामले पक्षे द्वादश्यामुपवासकृत् ॥
समभ्यर्च्च्याच्युतं सम्यक् मथुरायां समाहितः ।अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ॥
कश्चिदस्मत्कुले जातः कालिन्दीसलिलाप्लुतः ।अर्च्चयिष्यति गोविन्दं मथुरायामुपोषितः ॥
ज्येष्ठामूलसिते पक्षे येनैवं वयमप्युत ।परामृद्धिमवाप्स्यामस्तारिताः सकुलोद्भवैः ॥
”इति विष्णुपुराणे ६ अंशे ८ अध्यायः ॥
* ॥
तस्या माहात्म्यं यथा, --वराह उवाच ।“न विद्यते च पाताले नान्तरीक्षे न मानुषे ।समत्वं मथुराया हि प्रियं मम वसुन्धरे ! ॥
”सूत उवाच ।“तच्छ्रुत्वा वचनं तस्य प्रणम्य शिरसा तदा ।पुण्यानां परमं पुण्यं पृथ्वी वचनमब्रवीत् ॥
पृथिव्युवाच ।पुष्करं नैमिषं चैव पुरी वाराणसी तथा ।एता हित्वा महाभाग ! मथुरां किं प्रशंससि ॥
वराह उवाच ।शृणु कार्त्स्नेन वसुधे ! कथ्यमानं मयानधे ! ।मथुरति च विख्यातं नास्ति क्षेत्रं परं मम ।सा रम्या च सुशस्ता च जन्मभूमिः प्रिया मम ॥
शृणु देवि ! यथा स्तौमि मथुरां पापहारि-णीम् ।तन्निवासी नरो याति मोक्षं नास्त्यत्र संशयः ॥
महामाध्यां प्रयागे तु यत् फलं लभते नरः ।तत् फलं लभते देवि ! मथुरायां दिने दिने ॥
कार्त्तिक्याञ्चैव यत् पुण्यं पुष्करे तु वसुन्धरे ! ।तत् फलं लभते देवि ! मथुरायां दिने दिने ॥
पूर्णे वर्षसहस्रे तु वाराणस्यान्तु यत् फलम् ।तत् फलं लभते देवि ! मथुरायां क्षणेन हि ॥
मथुराञ्च परित्यज्य योऽन्यत्र कुरुते रतिम् ।मूढो भ्रमति संसारे मोहितो मायया मम ॥
यः शृणोति वरारोहे ! माथुरं मम मण्डलम् ।अन्येनोच्चारितं शंसन् सोऽपि पापैः प्रमुच्यते ॥
पृथिव्यां यानि तीर्थानि आसमुद्रसरांसि च ।मथुरायां गमिष्यन्ति सुप्ते चैव जनार्द्दने ॥
मथुरां समनुप्राप्य श्राद्धं कृत्वा यथाविधि ।तृप्तिं यान्तीह पितरो यावत् स्थित्यग्रजन्मनः ॥
ये वसन्ति महाभागे ! मथुरामितरे जनाः ।तेऽपि यान्ति परां सिद्धिं मत्प्रसादान्न संशयः ॥
कुब्जाम्रके शौकरवे मथुरायां विशेषतः ।विना सांख्येन योगेन मुच्यते नात्र संशयः ॥
मथुरायां महापुर्य्यां ये वसन्ति शुचिव्रताः ।बलिभिक्षाप्रदातारो ये वा ते नरविग्रहाः ॥
भविष्यामि वरारोहे ! द्बापरे युगसंस्थिते ।ययातिभूपवंशाच्च क्षत्त्रियः कुलवर्द्धनः ॥
भविष्यामि वरारोहे ! मथुरायां न संशयः ।मूर्त्तिं चतुर्व्विधां कृत्वा स्थास्यामि ऋषिभिःस्तुतः ॥
स्थास्यामि वत्सरशतं युद्धेषु कृतनिश्चयः ।एका चन्दनसङ्काशा द्वितीया कनकप्रभा ॥
अशोकसदृशा चान्या अन्या चोत्पलसन्निभा ।तत्र गुह्यानि नामानि भविष्यन्ति मम प्रिये ! ॥
पुण्यानि च पवित्राणि संसारोच्छेदनानि च ।यत्राहं घातयिष्यामि द्बात्रिंशति वसुन्धरे ! ॥
दैत्यान् घोरान् महाभागे ! कंसादीन् घोर-दर्शनान् ।यमुना यत्र सुवहा नित्यं सन्निहिता ध्रुवम् ॥
वैवस्वतस्वसा रम्या यमुना यत्र विश्रुता ।तां नदीं यमुनां गङ्गां प्रयागे सङ्गविश्रुताम् ॥
गङ्गाशतगुणा पुण्या मथुरे मम मण्डले ।यमुना विश्रुता देवि ! नात्र कार्य्या विचारणा ॥
तत्र तीर्थानि गुह्यानि भविष्यन्ति ममानघे ! ।येषु स्नानपरो देवि ! मम लोके महीयते ॥
अथात्र मुञ्चते प्राणान् मम कर्म्मपरायणः ।न जायते स मर्त्येषु जायते च चतुर्भुजः ॥
अविमुक्ते नरः स्नातो मुक्तिं प्राप्नोत्यसंशयम् ।तथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ।विश्रान्तिसंज्ञकं नाम तीर्थं त्रैलोक्यविश्रुतम् ।यस्मिन् स्नातो नरो देवि ! मम लोके महीयते ॥
सर्व्वतीर्थेषु यत् स्नानं सर्व्वतीर्थेषु यत् फलम् ।तत् फलं लभते देवि ! दृष्ट्वा देवं गतश्रमम् ॥
न च यज्ञैर्न तपसा न ध्यानैर्न च संयमैः ।तत् फलं लभते देवि ! स्नातो विश्रान्तिसंज्ञके ॥
कालत्रयन्तु वसुधे ! यः पश्यति गतश्रमम् ।कृत्वा प्रदक्षिणे द्वे तु विष्णुलोकं स गच्छति ॥
अस्ति चान्यत् परं गुह्यं सर्व्वसंसारमोक्षणम् ।यस्मिन् स्नातो नरो देवि ! मम लोके महीयते ॥
प्रयागं नाम तीर्थन्तु देवानामपि दुर्लभम् ।तस्मिन् स्नातो नरो देवि ! अग्निष्टोमफलं लभेत् ॥
इन्द्रलोकं समासाद्य नरो वै तत्र मोदते ।अथात्र मुञ्चते प्राणान् मम लोकं स गच्छति ॥
तथा कनखलं तीर्थं नाम गुह्यं परं मम ।स्नानमात्रेण तत्रापि नाकपृष्ठे स मोदते ॥
अस्ति क्षेत्रं परं गुह्यं तिन्दुकं नाम नामतः ।तस्मिन् स्नातो नरो देवि ! मम लोके महीयते ॥
अस्मिंस्तीर्थे पुरावृत्तं तच्छृणुष्व वसुन्धरे ! ।पाञ्चालविषये देवि ! काम्पिल्यञ्च पुरोत्तमम् ॥
धनधान्यसमायुक्तं ब्रह्मदत्तेन पालितम् ।तस्मिंस्तु वसते देवि ! तिन्दुको नाम नामतः ॥
तस्मिंस्तु वसतस्तस्य नापितस्य पुरोत्तमे ।कालेन महता तस्य कुटुम्बः क्षयमागतः ॥
क्षीणे कुटुम्बे तु तदा सुभृशं दुःखपीडितः ।सर्व्वसङ्गपरित्यागी यो गच्छन् मथुरापुरीम् ।ब्राह्मणावसथे सोऽपि वसमानो वसुन्धरे ! ॥
तत्र कर्म्मशतं कृत्वा स्नात्वैव यमुनां नदीम् ।तत्र दानञ्च कुरुते नित्यकालं दृढव्रतः ॥
ततः कालेन महता पञ्चत्वं समुपागतः ।तस्य तीर्थप्रभावेण जातोऽसौ ब्राह्मणोत्तमः ॥
तस्मिन् वरगृहे देवि ! ब्राह्मणो योगिनां वरः ।जातिस्मरो महाप्राज्ञो विष्णुभक्तो वसुन्धरे ! ॥
तस्य तीर्थप्रभावेण प्राप्ता मुक्तिः सुदुर्लभा ॥
ततः परं सूर्य्यतीर्थं सर्व्वपापप्रमोचनम् ।वैरोचनेन बलिना सूर्य्यस्त्वाराधितः पुरा ॥
भ्रष्टराज्येन बलिना धनकामेन वै पुरा ।ऊर्द्ध्वबाहुर्न्निराहारस्तप्तवानुत्तमं तपः ॥
साग्रं संवत्सरं देवि ! ततः काममवाप्नुयात् ।तस्य प्रसन्नो भगवान् द्युमणिः प्रत्यभाषत ॥
किं कारणं बले ! ब्रूहि तपस्यसि महत्तपः ॥
”बलिरुवाच ।“भ्रष्टराज्योऽस्मि देवेश ! पाताले निवसाम्यहम् ।वित्तेनापि विहीनस्य कुटुम्बभरणं कुतः ॥
मुकुटात्तस्य वै सूर्य्यो ददौ चिन्तामणिं ततः ।चिन्तामणिं समासाद्य पातालमगमत्तदा ॥
तस्मिंस्तीर्थे नरः स्नात्वा सर्व्वपापैः प्रमुच्यते ।तत्रापि मुञ्चते प्राणान् मम लोकं स गच्छति ॥
आदित्येऽहनि संक्रान्तौ ग्रहणे चन्द्रसूर्य्ययोः ।तस्मिन् स्नातो नरो देवि ! राजसूयफलं लभेत् ॥
यत्र ध्रुवेण सन्तप्तं इच्छया परमं तपः ।अत्र वै स्नानमात्रेण ध्रुवलोके महीयते ॥
तत्रापि मुञ्चते प्राणान् मम लोके महीयते ॥
ध्रुवतीर्थे च वसुधे यः श्राद्धं कुरुते नरः ।पितॄं स्तारयते सर्व्वान् पितृपक्षे विशेषतः ॥
दक्षिणे ध्रुवतीर्थस्य तीर्थराजं प्रकीर्त्तितम् ।तस्मिन् स्नातो नरो देवि ! मम लोके महीयते ।तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति ॥
तद्दक्षिणे महादेवि ! ऋषितीर्थं परं मम ।तत्र स्नातो नरो देवि ! ऋषिलोकं प्रपद्यते ॥
अथात्र मुञ्चते प्राणान्मम लोके महीयते ।दक्षिणे ऋषितीर्थस्य मोक्षतीर्थं परं मम ॥
स्नानमात्रेण वसुधे ! मोक्षं प्राप्नोति मानवः ।तत्राथ मुञ्चते प्राणान् मम लोके महीयते ॥
तत्रैव कोटितीर्थं हि तीर्थानामपि दुर्लभम् ।तत्र स्नानेन दानेन मम लोके महीयते ॥
कोटितीर्थे नरः स्नातः सन्तर्प्य पितृदेवताः ।तारिताः पितरस्तेन तथैव प्रपितामहाः ॥
कोटितीर्थे नरः स्नातो ब्रह्मलोके महीयते ।तत्रैव वायुतीर्थन्तु पितॄणामपि दुर्लभम् ॥
पिण्डं दद्यात्तु वसुधे ! पितृलोकं स गच्छति ।गयापिण्डप्रदानेन यत् फलं लभते नरः ॥
तत् फलं लभते देवि ! ज्यैष्ठे दानान्न संशयः ।द्वादशैतानि तीर्थानि देवानां दुर्लभानि च ॥
स्नानं दानं जपो होमः सहस्रगुणितं भवेत् ।एषां स्मरणमात्रेण सर्व्वपापैः प्रमुच्यते ॥
श्रुत्वा तीर्थस्य माहात्म्यं सर्व्वान् कामानवा-प्नुयात् ॥
”इत्यादि वराहपुराणे मथुरातीर्थप्रभावः ॥
* ॥
इतः प्रभृति सप्तविंशाध्यायेषु मथुरामाहात्म्यंज्ञेयम् ॥
वाचस्पत्यम्
SanskritBurnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
