| YouTube Channel

मथितं (mathitaM)

 
शब्दकल्पद्रुमः
Sanskrit
मथितं,
क्ली,
(मथ + क्तः ।) निर्जलघोलम् इत्य-मरः ५३
यथा, वृहत्संहितायाम् ५० २६ ।“क्षारे कदल्यामथितेन युक्तेदिनोषिते पायितमायसं यत्
”)अस्य गुणाः कफपित्तनाशकत्वम् रोचनत्वम् ।धातुपुष्टिदत्वञ्च इति राजवल्लभः
विलो-डिते, त्रि
(तथा पर्य्यायान्तरं प्रकारा-न्तरञ्च यथा, --“घोलन्तु मथितं तक्रमुदस्विच्छच्छिकापि ।ससरं निर्ज्जलं घोल मथितन्त्वसरोदकम्
तक्रं पादजलं प्रोक्तमुदास्वित्त्वर्द्धवारिकम् ।छच्छिका सारहीना स्यात् स्वच्छा प्रचुर-वारिका
”इति भावप्रकाशस्य पूर्व्वखण्डे द्बितीये भागे
“ससरं निर्जलं घोलं मथितं सरवर्ज्जितम् ।”इति हारीते प्रथमस्थाने अष्टमेऽध्याये
)