मत्स्यः (matsyaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishमत्स्यः [matsyḥ], [मद्-स्यन्
4.2]
A fish
शूले मत्स्यानिवा- पक्ष्यन् दुर्बलान् बलवत्तराः 7.2.
A particular variety of fish.
A king of the Matsyas. -त्स्यौ (dual) The sign Pisces of the zodiac. -त्स्याः (pl. ) of a country and its inhabitants, the country of Virāṭa q. v.
2.19. -अक्षका, -अक्षी of a kind of Soma plant. -अद्, -अदन, -आद feeding on fish, a fisheater. -अवतारः the first of the ten incarnations of Viṣṇu
(during the reign of the seventh Manu, the whole earth, which, had become corrupt was swept away by a flood, and all living beings perished except the pious Manu and the seven sages who were saved by Viṣṇu in the form of a fish)
Jayadeva's description of this avatāra.
प्रलयपयोधिजले धृतवानसि वेदं विहित- वहित्रचरित्रमखेदम् । केशव धृतमीनशरीर जय जगदीश हरे 1.
अशनः a king-fisher.
one who eats fish. -अशिकa. fish-eater
मत्स्याशिका लासिका 1.23. -असुरः of a demon. -आधानी, -धानी a fish-basket (used by fishermen). -उदरिन् an epithet of Virāṭa. -उदरी an epithet of Satyavatī. -उदरीयः an epithet of Vyāsa. -उद्वर्तनम् a kind of dance
2.8. -उप- जीविन् , -आजीवः a fisherman. -करण्डिका a fishbasket. -कीशः an elephant
Gīrvāṇa. -गन्ध having the smell of fish. (-न्धा) of Satyavatī. -घण्टः a kind of fish-sauce.
घातः the killing or catching of fishes, the occupation of a fisherman
मत्स्यघातो निषादानाम् 1.48.
a fisherman. -घातिन्, -जीवत्, -जीविन्m. a fisherman. -जालम् a fishing-net. -देशः the country of the Matsyas. -द्वादशी of the twelfth day in the month of मार्गशीर्ष. -नारी 'half-fish, half-woman', an epithet of Satyavatī. -नाशकः, -नाशनः an osprey. -पुराणम् of one of the eighteen Purāṇas. -पित्ता Helleborus Niger (Mar. केदारकुटकी). -बन्धः, -बन्धिन्m. a fisherman
कदाचित्तं जलस्थायं मत्स्यबन्धाः समन्ततः * 12.137.5. -बन्धनम् a fish-hook, an angle. -बन्ध (न्धि)नी a fish-basket. -मांसम् fish-flesh
द्वौ मासौ मत्स्यमांसेन 3.268. -रङ्कः, -रङ्गः, -रङ्गकः a halcyon, king-fisher.
राजः the Rohita fish.
of Virāṭa. -वेधनम्, -वेधनी an angle. -वेधनी a cormorant.-व्रतिन् one who lives in water. -संघातः a shoal of fish. -सन्तानिकः fish cooked with sauce
दग्धोङ्गारे सलवणो वेशवारैरुपस्कृतः । सार्द्रकः कटुतैलेन मत्स्यसन्तानिको भवेत् Śabdachandrikā.
Apte 1890
Englishमत्स्यः [मद्-स्यनः Uṇ. 4. 2.] 1 A fish
शूले मत्स्यानिवापक्ष्यन् दबलोन्व लवत्तराः Ms. 7. 20.
2 A particular variety of fish.
3 A king of the Matsyas.
त्म्यौ (dual) The sign Pisces of the zodiac.
त्स्याः (pl.) N. of a country and its inhabitants. the country of Virāṭa q. v.
Ms. 2. 19.
Comp.
अक्षका,
अक्षी N. of a kind of Soma plant.
अद्,
अदन,
आद a. feeding on fish, a fish-eater.
अवतारः the first of the ten incarnations of Viṣṇu
(during the reign of the seventh Manu. the whole earth, which had become corrupt was swept away by a flood. and all living beings perished except the pious Manu and the seven sages who were saved by Viṣṇu in the form of a fish)
cf. Jayadeva's description of this avatāra: प्रलयपयोधिजले धृतवानसि वेदं विहितवहित्रचरित्रमखेदं । कशव धृतमीनशरीर जय जगदीश हरे Gīt. 1.
अशनः {1} a king-fisher. {2} one who eats fish.
असुरः N of a demon.
आधानी,
धानी a fish-basket (used by fishermen).
उदरिन् m. an epithet of Virāṭa.
उदरी an epithet of Satyavatī.
उदरीयः an epithet of Vyāsa.
उपजीविन् m., आजीवः a fisherman.
करंडिका a fish-basket.
गंध a. having the smell of fish. (
धा) N. of Satyavatī.
घंटः a kind of fishsauce.
घातः {1} the occupation of a fisherman. {2} a fisherman.
घातिन्,
जीवत्,
जीविन् m. a fisherman.
जालं a fishing-net.
देशः the country of the Matsyas.
द्वादशी N. of the twelfth day in the month of मार्गशीर्ष.
नारी ‘half-fish, half-woman’, an epithet of Satyavatī.
नाशकः
नाशनः an osprey.
पुराणं N. of one of the eighteen Purāṇas.
बंधः,
बंधिन् m. a fisherman.
बंधनं a fish-hook, an angle.
बंध (धि) नी a fish-basket.
रंकः,
रंगः,
रंगकः a halcyon, king-fisher.
राजः {1} the Rohita fish. {2} N. of Virāṭa
वेधनं,
वेधनी an angle.
वेधनी a cormorant.
संघातः a shoal of fish.
Apte Hindi
Hindiमत्स्यः
- मद् + स्यन्
मछली
मत्स्यः
- -
मछलियों की विशेष जाति
मत्स्यः
- -
मत्स्य देश का राजा
मत्स्यः
- मद्+स्यन्
मछली
मत्स्यः
- मद्+स्यन्
मत्स्य देश का राजा
मत्स्यः
- -
धौलपुर के पश्चिम में स्थित देश। कहा जाता है कि पांडव लोग दशार्ण के उतर में शौरसेन तथा रोहितक के भूभाग से होते हुए यमुना के तट इस प्रदेश में आये थे। विराट देश की राजधानी संभवतः वैराट ही थी जो आजकल जयपुर से ४० मील उतर में बैरात के नाम से विख्यात है।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit मत्स्यावतारः, मत्स्यः
विष्णोः प्रथमावतारः।
"मत्स्यावतारः दशावतारान्तर्गतप्रथमावतारः अस्ति।"
मत्स्यः, पृथुरोमा, मीनः, वैसारिणः, विसारः, शकली, शन्धली, झषः, आत्माशी, संवरः, मूकः, जलेशयः, कण्टकी, शक्ली, मच्छः, अनिमिषः, शुङ्गी, झसः
जलजन्तुविशेषः, यः शकलकण्टकादियुक्तः।
"मत्स्याः अण्डजाः सन्ति।"
अमरकोशः
SanskritWord: मत्स्यः
Root: मत्स्य
Gender: पुं
Number: all
Meaning(s):
⇒ fish
⇒ king of the
⇒ figure of a figure
⇒ 12th sign of the zodiac
⇒ particular species of fish
Shloka(s):
1|10|17|1 ► पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः। (वारिवर्गः)
1|10|17|2 ► विसारः शकुली चाथ गडकः शकुलार्भकः॥ (वारिवर्गः)
3|3|219|5 ► सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥ (नानार्थवर्गः)
Synonym(s):
➠ 1|10|17|1 ⇢ पृथुरोमा (पृथुरोमन्) (पुं)
➠ 1|10|17|1 ⇢ झषः (झष) (पुं) ⇒ fish, forest, sun-heat, large fish, sign Pisces, forest overgrown with grass
➠ 1|10|17|1 ⇢ मत्स्यः (मत्स्य) (पुं) ⇒ fish, king of the, figure of a figure, 12th sign of the zodiac, particular species of fish
➠ 1|10|17|1 ⇢ मीनः (मीन) (पुं)
➠ 1|10|17|1 ⇢ वैसारिणः (वैसारिण) (पुं)
➠ 1|10|17|1 ⇢ अण्डजः (अण्डज) (पुं) ⇒ fish, bird, snake, lizard, egg-born, God Brahman
➠ 1|10|17|2 ⇢ विसारः (विसार) (पुं)
➠ 1|10|17|2 ⇢ शकुलीः (शकुली) (पुं)
➠ 3|3|219|5 ⇢ अनिमिषः (अनिमिष) (पुं) ⇒ god, fish, open, vigilant, not winking, looking steadily
Related word(s):
जातिः ➡ जलीयः
परा_अपरासंबन्धः ➡ शिशुमार-आकारमत्स्यः
उपजीव्य_उपजीवक_भावः ➡ धीवरः
अन्यसंबन्धाः ➡ मत्स्यस्थापनपात्रम्
शब्दकल्पद्रुमः
Sanskritमत्स्यः, पुं (माद्यन्ति लोका अनेनेति ।मद् + “ऋतन्यञ्जीति ।” उणा० । ४ । २ इतिस्यन् ।) स्वनामख्यातजलजन्तुः । माछ इतिभाषा ॥
तत्पर्य्यायः । पृथुरोमा २ झसः ३ मीनः ४वैसारिणः ५ अण्डजः ६ विसारः ७ शकली ८ ।इत्यमरः । १ । १० । १७ ॥
शन्धली ९ झषः १०आत्माशी ११ संवरः १२ मूकः १३ जले-शयः १४ कण्टकी १५ शल्की १६ मच्छः १७अनिमिषः १८ । इति शब्दरत्नावली ॥
शुङ्गी १९ ।इति जटाधरः ॥
तस्य गुणाः । बृंहणत्वम् ।गुरुत्वम् । शुक्रबर्द्धनत्वम् । बल्यत्वम् । स्निग्ध-त्वम् । उष्णत्वम् । मधुरत्वम् । कफपित्तकर-त्वम् । व्यायामाध्वरतदीप्ताग्नीनां पूजितत्वम् ।वातरोगहरत्वञ्च ॥
* ॥
बृहन्मत्स्यगुणाः । गुरु-त्वम् । शुक्रलत्वम् । मलबद्धकारित्वञ्च ॥
* ॥
क्षुद्रमत्स्यगुणाः । लघुत्वम् । ग्राहित्वम् ।ग्रहणीरोगे हितत्वञ्च ॥
* ॥
कृष्णमत्स्यगुणाः ।लघुत्वम् । स्निग्धत्वम् । वातघ्नत्वम् । वह्निवर्द्धन-त्वञ्च ॥
* ॥
पाण्डरमत्स्यगुणाः । दोषलत्वम् ।स्निग्धत्वम् । गुरुत्वम् । मलभेदित्वञ्च ॥
* ॥
क्वथितमत्स्यस्य अर्थात् पूतिमत्स्यस्य गुणः ।दोषलत्वम् ॥
* ॥
शुष्कमत्स्यगुणौ । विष्ट-म्भित्वम् । दुर्ज्जरत्वञ्च ॥
* ॥
लवणभावित-मत्स्यगुणाः । कफपित्तकरत्वम् । सारकत्वम् ॥
सामुद्रमत्स्यगुणाः । लघुत्वम् । वृष्यत्वम् । मधु-रत्वम् । स्वल्पमलकारित्वञ्च ।“सामुद्रा गुरवो वृष्याः स्निग्धोष्णा वात-नाशनाः ।”इति पाठान्तरम् ॥
* ॥
(तथास्य पर्य्यायाः गुणाश्च ।“मत्स्यो मीनो विकारश्च उषो वैसारिणोऽण्डजः ।शकुलः पृथुरोमा च स सुदर्शन इत्यपि ॥
रोहिताद्यास्तु ये जीवास्ते मत्स्याः परिकी-र्त्तिताः ।मत्स्याः स्निग्धोष्णमधुरा गुरवः कफपित्तलाः ॥
वातघ्ना बृंहणा वृष्या रोचका बलवर्द्ध्वनाः ।मद्यव्यवायसक्तानां दीप्ताग्नीनाञ्च पूजिताः ॥
”इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ॥
“मत्स्या रोहितपाठीनकूर्म्मकुम्भीरकर्कटाः ।शुक्तिशङ्खोड्रशम्बूकशफरीवर्म्मिचन्द्रिका ॥
चुलूकीनक्रमकरशिशुमारतिमिङ्गिलाः ।राजीवाः चिलिचिमाद्याश्च ॥
”इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥
मत्स्यास्तु द्विविधा नादेयाः सामुद्राश्च । तत्रनादेयाः । रोहित-पाठीन-पाटला-राजीव-वर्म्मिगोमत्स्य-कृष्णमत्स्य-वागुञ्जार-मुरल-सहस्र-दंष्ट्रप्रभृतयो नादेयाः ॥
“नादेया मधुरा मत्स्या गुरवो मारुतापहाःरक्तपित्तकराश्चोष्णा वृष्याः स्निग्धाल्पवर्च्चसः ॥
कषायानुरसस्तेषां शष्पशैबालभोजनाः ।सरस्तडागसम्भताः स्निग्धाः स्वादुरसाः स्मृताः ।महाह्रदेषु बलिनः स्वल्पेऽम्भस्यबलाः स्मृताः ।”तिमितिमिङ्गिलकुलिशपाकमत्स्यनिरालक-नन्दिवारलकमकरगर्गरकचन्द्रकमहामीन-राजीवप्रभृतयः सामुद्राः ॥
“सामुद्रा गुरवः स्निग्धा मधुरा नातिपित्तलाः ।उष्णावातहरा वृष्या वर्च्चस्याः श्लेष्मवर्द्धनाः ॥
बलावहा विशेषेण मांसाशित्वात् समुद्रजाः ।तेषामप्यनिलघ्नत्वाच्चौण्ट्यकौप्यौ गुणोत्तरौ ॥
स्निग्धत्वात् स्वादुपाकत्वात् तयोर्वाप्या गुणो-त्तराः ।नादेया गुरवो मध्ये यस्मात् पुच्छास्यचारिणः ।सरस्तडागजानान्तु विशेषेण शिरो लघु ॥
अदूरगोचरा यस्मात्तस्मादुत्सोदपानजाः ।किञ्चिन्मुक्त्वा शिरोदेशमत्यर्थं गुरवस्तु ते ॥
अधस्तद्गुरवो ज्ञेया मत्स्याः सरसिजाः स्मृताः ।उरो विचरणात्तेषां पूर्व्वमङ्गं लघु स्मृतम् ॥
”इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥
)नादेयमत्स्यगुणाः । श्लेष्मलत्वम् । वृष्यत्वम् ।मधुरत्वम् । अल्पमलभेदकत्वञ्च ॥
* ॥
सर-स्तडागभवमत्स्यगुणौ । स्निग्धत्वम् । स्वादुरस-त्वम् ॥
* ॥
महाह्रदभवमस्याः वलिनः । अल्प-जलभवाः अबलाः ॥
* ॥
दग्धमत्स्यगुणाः ।गुरुत्वम् । वृष्यत्वम् । बृंहणत्वम् । बलवर्द्धनत्वञ्च ॥
तैललवणयुक्तदग्धमत्स्यगुणः । क्षीणशुक्रभग्न-जर्ज्जरितनित्यस्त्रीसेविक्षीणतेजसां हितकारि-त्वञ्च ॥
* ॥
पलालवेष्टितकर्द्दमलेपिताङ्गार-दग्धसलवणवेशवारपुरस्कृतसार्द्रककटुतैलसन्तो-लितमत्स्यगुणाः । स्वादुत्वम् । कफवातहरत्वम् ।शुक्रलत्वम् । बलवर्द्धनत्वञ्च ॥
* ॥
शाकमत्स्याख्य-व्यञ्जनगुणाः । हृद्यत्वम् । वृष्यत्वम् । पुष्टिदत्वञ्च ॥
मत्स्यघण्टगुणाः । बलकरत्वम् । वातहरत्वम् ।अतिशयरोचनत्वञ्च ॥
शिरसि खड्गकेशधारि-मस्यगुणाः । मुखप्रियत्वम् । हृद्यत्वम् । पुंस्त्व-घातकत्वञ्च । इति राजवल्लभः ॥
* ॥
अपि च ।“निःशल्का निन्दिता मत्स्याः सर्व्वे शल्कयुताहिताः ।वपुःस्थैर्य्यकरा वीर्य्यबलपुष्टिविवर्द्धनाः ॥
ह्रदकुल्याजलनिर्झरतडागवापीजलेषु येमत्स्याः ।तेऽतिजडा नादेया यथोत्तरं लघुतरास्तुनादेयाः ॥
क्षाराम्बुमत्स्या गुरवो विदाहिनोविष्टम्भदास्ते लवणार्णवादिजाः ।नानाश्रिताः स्वादुजलस्थिता अपिज्ञेया जडास्तेऽपि तथाश्रिता इमे ॥
”इति राजनिर्घण्टः ॥
अथ क्षुद्रमत्स्यगुणाः ।“क्षुद्रमत्स्याः स्वादुरसा दोषत्रयविनाशनाः ।लघुपाका रुचिकराः सर्व्वदा ते हिता मताः ।अथातिक्षुद्रमत्स्यगुणाः ।अतिसूक्ष्माः पुंस्त्वहरा रुच्याः कासानिलापहाः ।अथ मत्स्याण्डगुणाः ।मत्स्यगर्भो भृशं वृष्यः स्निग्धः पुष्टिकरो गुरुः ।कफमेदप्रदो बल्यो ग्लानिकृन्मेहनाशनः ॥
अथ शुष्कमत्स्यगुणाः ।शुष्कमत्स्या न बल्याः स्युर्दुर्जरा विड्विबन्धिनः ॥
अथ दग्धमत्स्यगुणाः ।दग्धमत्स्यो गुणैः श्रेष्ठः पुष्टिकृद्वलवर्द्धनः ॥
अथ कूपजादिमत्स्यगुणाः ।कूपमत्स्याः शुक्रमूत्रकुष्ठश्लेष्मविवर्द्धनाः ।सरोजा मधुराः स्निग्धा बल्या वातविनाशनाः ॥
नादेया बृंहणा मत्स्या गुरवोऽनिलनाशनाः ।रक्तपित्तकरा वृष्याः स्निग्धोष्णाः स्वल्पवर्च्चसः ॥
चौङ्याः पित्तहराः स्निग्धा मधुरा लघवोहिमाः ।ताडागा गुरवो वृष्याः शीतला बलमूत्रदाः ।ताडागवन्निर्झरजा बलायुर्मतिदृक्कराः ॥
अथ ऋतुविशेषे मत्स्यविशेषगुणः ।हेमन्ते कूपजा मत्स्याः शिशिरे सारसा हिताः ।वसन्ते ते तु नादेया ग्रीष्मे चौङ्यसमुद्भवाः ॥
तडागजाता वर्षासु तास्वपथ्या नदीभवाः ।निर्झराः शरदि श्रेष्ठा विशेषोऽयमुदाहृतः ॥
”इति भावप्रकाशः ॥
मत्स्योत्पत्तिकारणं यथा, --“ततस्तु मित्रावरुणौ भ्रातरौ ब्रह्मचारिणौ ।तन्तु देशं गतौ देवौ विचरन्तौ यदृच्छया ॥
ताभ्यां तत्र तदा दृष्टा उर्व्वशी तु वराप्सराः ।स्नायन्ती सहितान्याभिः सखीभिः सा वरानना ॥
गायन्ती च हसन्ती च विश्वस्ता निर्जने वने ॥
गौरी कमलगर्भाभा स्निग्धकृष्णशिरोरुहा ।पद्मपत्रविशालाक्षी रक्तोष्ठी मृदुभाषिणी ॥
शङ्खकुन्देन्दुधवलैर्दन्तैरविरलैः समैः ।सुभ्रूः सुनासा सुमुखी सुललाटा मनस्विनी ॥
सिंहवत् सूक्ष्ममध्याङ्गी पीनोरुजघनस्तनी ।मधुरालापचतुरा सुमध्या चारुहासिनी ॥
रक्तोत्पलकरा तन्वी सुपदी विनयान्विता ।पूर्णचन्द्रनिभा बाला मत्तद्विरदगामिनी ॥
दृष्ट्वा तस्यास्तु तद्रूपं तौ देवौ बिस्मयं गतौ ।यस्या हास्येन लास्येन स्मितेन ललितेन च ॥
मृदुना वायुना चैव शीतानिलसुगन्धिना ।मत्तभ्रमरगीतेन पुंस्कोकिलरुतेन च ॥
सुखरेण हि गीतेन उर्व्वश्या मधुरेण च ।ईक्षितौ च कटाक्षेण स्कन्दतुस्ताषुभावपि ॥
तत्त्रिधा पतितं रेतः कमलेऽथ स्थले जले ।कमलेऽथ वशिष्ठस्तु जातो हि मुनिसत्तमः ॥
स्थले त्वगस्त्यः सम्भूती जले मत्स्यो महामते ! ॥
”इति नारसिंहपुराणे ६ अध्यायः ॥
मत्स्यभक्षणनिषेधो यथा, --“यो यस्य मांसमश्नाति स तन्मांसाद उच्यते ।मत्स्यादः सर्व्वमांसादस्तस्मान्मत्स्यान् विवर्ज्जयेत् ॥
इति मानवे ५ अध्यायः ॥
जलस्थलचरा ये च प्राणिनस्तान् मृतानपि ।न भक्षेन्मानवो ज्ञानी हन्ता तेषां भवेन्न हि ॥
हत्वा हत्वा तु मत्स्याशी सर्व्वेषां यो विशेषतः ।मांसादः प्राणिनां सोऽपि तस्मान्मत्स्यं परित्यजेत् ॥
”इति पाद्मोत्तरखण्डे १०५ अध्यायः ॥
वर्जनीयमत्स्या यथा, --“शृणु देवि ! प्रवक्ष्यामि मांसभेदान्निबोध मे ।नादेयं तिक्तकमठं पशुशृङ्गिणमेव च ॥
गोमीनं चक्रशकुलं वडालं राघवं तथा ।वामीनं चलकर्णञ्च सचक्रं चेङ्गमेव च ॥
भूविलञ्चानिरुद्धञ्च गाङ्गेयानि विवर्ज्जयेत् ॥
”इति मत्स्यसूक्तमहातन्त्रम् ॥
रविवारे मत्स्यभक्षणनिषेधो यथा, --“आमिषं रक्तशाकञ्च यो भुङ्क्ते च रवेर्द्दिने ।सप्तजन्म भवेत् कुष्ठी दरिद्रश्चोपजायते ॥
”इति भविष्यपुराणम् ॥
“माषमामिषमांसञ्च मसूरं निम्बपत्रकम् ।भक्षयेद् यो रवेर्वारे सप्तजन्मान्यपुत्त्रकः ॥
”इति तिथ्यादितत्त्वम् ॥
कार्त्तिके मत्स्यभक्षणनिषेधो यथा, --“न मात्स्यं भक्षयेन्मांसं न कौर्म्मं नान्यदेव हि ।चण्डालो जायते राजन् ! कार्त्तिके मांसभक्ष-णात् ॥
”इति नारदीयपुराणम् ॥
माघवैशाखयोर्हविष्यब्रह्मचर्य्यविधानात् मत्स्य-भक्षणं नितरां निषिद्धमिति कृत्यतत्त्वदर्शनात् ॥
जन्मतिथौ मत्स्यभक्षणनिषेधो यथा, --“आमिषं कलहं हिंसां वर्षवृद्धौ विवर्जयेत् ॥
”अपि च ।“भुङ्क्ते यस्तु निरामिषं स हि भवेज्जन्मान्तरेपण्डितः ॥
”इति तिथ्यादितत्त्वम् ॥
शैवस्य मत्स्यभक्षणनिषेधो यथा, --“क्व मद्यं क्व शिवे भक्तिः क्व मांसं क्वशिवार्च्चनम् ।मत्स्यमांसरतानां वै दूरे तिष्ठति शङ्करः ॥
”इति काशीस्वण्डम् ॥
मा भक्ष्यं नैवेद्यार्थे भक्षेष्वजामहिषीक्षीरं वर्ज-येत् । पञ्चनखमत्स्यवराहमांसानि च । इत्या-ह्निकतत्त्वधृतविष्णुसूत्रम् ॥
* ॥
बिन्ध्यपर्व्वतस्यपश्चिमे मत्स्यभक्षणनिषेधो यथा, --“बिन्ध्यस्य पश्चिमे मागे मत्स्यभुक् पतितो नरः ।”इति पुराणम् ॥
कामतो मत्स्यभक्षणप्रायश्चित्तं यथा, --“मत्स्यांस्तु कामतो जग्ध्वा सोपवासस्त्र्यहंवसेत् ॥
”अज्ञानतस्तदर्द्धम् । इति प्रायश्चित्तविवेकः ॥
मत्स्यभक्षणप्रतिप्रसवो यथा, --“मत्स्यान् सशल्कान् भुञ्जीत मांसं रौरवमेवच ।निवेद्य देवताभ्यश्च ब्राह्मणेंभ्यश्च नान्यथा ॥
सफरं सिंहतुण्डञ्च तथा पाठीन-रोहितौ ।मत्स्यास्त्वेते समुद्दिष्टा भक्षणाय तपोधनैः ॥
प्रोक्षितं भक्षयेदेषां मांसञ्च द्बिजकाम्यया ।यथाविधिनियुक्तश्च प्राणानामपि चात्यये ॥
”इति कौर्म्मे उपविभागे १६ अध्यायः ॥
अपि च ।“पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ।राजीवान् सिंहतुण्डांश्च सशल्कांश्चैव सर्व्वशः ॥
”इति मानवे ५ अध्यायः ॥
“अनिवेद्य न भोक्तव्यं मत्स्यं मांसञ्च यद्भवेत् ।अन्नं विष्ठा पयो मूत्रं यद्विष्णोरनिवेदितम् ॥
”इत्याह्निकतत्त्वम् ॥
प्रेतश्राद्धे मत्स्यदानविधिर्यथा, --“सपिण्डीकरणं यावत् प्रेतश्राद्धन्तु षोडशम् ।पक्वान्नेनैव कर्त्तव्यं सामिषेण द्विजातिभिः ॥
”इति श्राद्धतत्त्वधृतकामधेनुवचनम् ॥
मत्स्यः, (जलं प्राप्य माद्यतीति मद् +“ॠत्यन्यञ्जीति ।” उणा० । ४ । २ । इति स्यन् ।)मीनविशेषः । विराटदेशः । नारायणः । इतिहेमचन्द्रः । ४ । ४०९ ॥
देशविशेषे बहुवचनान्तः ।इति मेदिनी । ये, ४५ ॥
द्वादशराशिः । यथा, “मत्स्यौ घटी नृमिथुनं सगदं सवीणम् ॥
”इत्यादि ज्योतिस्तत्त्वम् ॥
अष्टादशपुराणान्तर्गतपुराणविशेषः ॥
(मत्स्य-रूपेणावतीर्णेन भगवता उक्तत्वात् अस्यतदाख्या ।) यथा, --“पुण्यं पवित्रमायुष्यमिदानीं शृणुत द्विजाः ।मात्स्यं पुराणमखिलं यज्जगाद गदाधरः ॥
”इति मत्स्यपुराणे १ अध्यायः ॥
दशावतारान्तर्गतप्रथमावतारः । यथा, --सूत उवाच ।“पुरा राजा मनुर्नाम चीर्णवान् विपुलं तपः ।पुत्त्रे राज्यं समारोप्य क्षमावान् रविनन्दनः ॥
मलयस्यैकदेशे तु सर्व्वात्मगुणसंयुतः ।समदुःखसुखो वीरः प्राप्तवान् योगमुत्तमम् ॥
बभूव वरदश्चास्य वर्षायुतशते गते ।वरं वृणीष्व प्रोवाच प्रीतः स कमलासनः ॥
एममुक्तोऽब्रवीद्राजा प्रणम्य स पितामहम् ।एकमेबाहमिच्छामि त्वत्त्वो वरमनुत्तमम् ॥
भूतग्रामस्य सर्व्वस्य स्थावरस्य चरस्य च ।भविता रक्षणे यानं प्रलये समुपस्थिते ॥
एवमस्त्विति विश्वात्मा तत्रैवान्तरधीयत ।पुष्पवृष्टिश्च महती स्वात् पपात सुरार्पिता ॥
कदाचिदाश्रभे तस्य कुर्व्वतः पितृतर्पणम् ।पपात पाण्योरुपरि शफरी जलसंयुतः ॥
दृष्ट्वा तच्छफरीरूपं स दयाजुर्महीपतिः ।रक्षणायाकरोद्यत्नं स तस्मिन् करकोदरे ॥
अहोरात्रेण चैकेन षोडशाङ्गुलविस्तृतः ।सोऽभवन्मत्स्यरूपेण पाहि पाहीति चाब्रवीत् ॥
स तमादाय मलिके प्राक्षिपज्जलचारिणम् ॥
तत्रापि चैकरात्रेण हस्तत्रयमवर्द्धत ॥
पुनः प्राहार्त्तनादेन सहस्रकिरणात्मजम् ।स मत्स्यः पाहि पाहीति त्वामहं शरणं गतः ॥
ततः स कूपे तं मत्स्यं प्राहिणोद्रविनन्दनः ।यदा न माति तत्रापि कूपे मत्स्यः सरोवरे ॥
क्षिप्तोऽसौ पृथुतामागात् पुनर्योजनसम्मितः ।तत्राप्याह पुनर्द्दीनः पाहि पाहि नृपोत्तमम् ॥
ततः स मनुना क्षिप्तो गङ्गायामप्यवर्द्धत ।यदा तदा समुद्रे तं प्राक्षिपन्मेदिनीपतिः ॥
यदा समुद्रमखिलं व्याप्यासौ समुपस्थितः ।तदा प्राह मनुर्भीतः कोऽपि त्वमसुरेश्वरः ॥
अथवा वासुदेवस्त्वमन्य ईदृक् कथं भवेत् ।योजनायुतविंशत्या कस्य तुल्यं भवेद्वपुः ॥
ज्ञातस्त्वं मत्स्यरूपेण मां खेदयसि केशव ! ।हृषीकेश ! जगन्नाथ ! जगद्धाम ! नमोऽस्तु ते ॥
एवमुक्तः स भगवान् मत्स्यरूपी जनार्द्दनः ।साधु साध्विति चोवाच सम्यक् ज्ञातस्त्वयानघ ! ॥
अचिरेणैव कालेन मेदिनी मेदिनीपते ! ।भविष्यति जले मग्ना सशैलवनकानना ॥
नौरियं सर्व्वदेवानां निकायेन विनिर्म्मिता ।महाजीवनिकायस्य रक्षणार्थं महीपते ! ॥
स्वेदाण्डजोद्भिजो ये वै ये च जीवा जरायुजाः ।अस्यां निधाय सर्व्वांस्ताननाथान् पाहिसुव्रत ! ॥
युगान्तवाताभिहता यदा भवति नौर्नृप ! ।शृङ्गेऽश्मिन् मम राजेन्द्र ! तदेमां संयमिष्यसि ॥
ततो लयान्ते सर्व्वस्य स्थावरस्य चरस्य च ।प्रजापतिस्त्वं भविता जगतः पृथिवीपते ! ॥
एवं कृतयुगस्यादौ सर्व्वज्ञो धृतिमान् नृपः ।मन्वन्तराधिपश्चैव देवपूज्यो भविष्यसि ॥
”इति मत्स्यपुराणे मनुविष्णुसंवादे प्रथमे सर्गेप्रथमोऽध्यायः ॥
विस्तारस्तु श्रीभागवते ८ स्कन्धे२४ अध्याये द्रष्टव्यः ॥
* ॥
तस्य मन्त्रध्यानपूजादियथा, --शङ्कर उवाच ।“एक एवाभवन्मत्स्यावतारः कल्प आदिमे ।तस्य मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकम् ॥
तारो नमो भगवते मं मत्स्याय रमां वदेत् ।द्वादशाक्षरमन्त्रोऽयं मुनिर्ब्रह्मा समीरितः ॥
गायत्त्री च्छन्द उदितं देवता मीनविग्रहः ।भगवान् शर्व्वरीनाथो बीजं श्रीपञ्चकीलकम् ॥
नाभ्यधो रोहितसम आकण्ठञ्च नराकृतिः ।घनश्यामश्चतुर्ब्बाहुः शङ्खचक्रगदाधरः ॥
शृङ्गीमत्स्यनिभो मूर्द्धा लक्ष्मीवक्षोविराजितः ।पद्मचिह्नितसर्व्वाङ्गः सुन्दरश्चारुलोचनः ॥
जपेद्द्वादशसाहस्रं त्रिमध्वाक्तैस्तिलैर्हुनेत् ।प्रत्यहं तद्दशांशेन वैशाखे कार्त्तिके तथा ।माधे च मार्गशीर्षे च हविष्याशी जितेन्द्रियः ॥
आरभ्य भाद्रबहुलमष्ट वा षोडशाहकम् ।लक्ष्मीमनुं जपेन्नित्यमिदञ्चापि कलाशतम् ॥
तथैव होमः कर्त्तव्यस्तथान्यदिवसेषु तु ।तर्पयेद्द्वादशशतं तिलतण्डुलचन्दनैः ॥
आज्यन्तथा शताष्टौ च तर्पयेच्च तथा श्रियम् ।रक्तोत्पलैर्वा पद्मैर्वा मालत्याद्यैः सुगन्धिभिः ।एवं कृते वर्षमेकं मन्त्रसिद्धिः प्रजायते ॥
नित्यं द्वादशविप्रांश्च श्रीरूपाञ्च सुवासिनीम् ।भोजयेत् पूजनञ्चास्य चरेत्तौ व्याशयेत् सदा ॥
षट्पत्रकर्णिकायाञ्च श्रीयुतं देवमर्च्चयेत् ।षट्पत्रेषु षडङ्गानि यजेद्वाह्यचतुर्द्दले ॥
मण्डूकं मकरं कूर्म्मं शिशुमारञ्च पूर्व्वतः ।तद्बाह्येऽष्टदले पूज्याः क्षाराद्याः सप्त सिन्धवः ॥
तद्बाह्येऽङ्कदले पूज्या वामुक्याद्याः फणीश्वराः ।तस्य वाह्ये शक्रदले रत्नानि तु चतुर्द्दश ॥
समुद्रजानि पूज्यानि लक्ष्मीकौस्तुभकानि च ।गङ्गाद्याः षोडश ततो महानद्यः प्रपूजयेत् ॥
ततश्चाष्टदले वेदानुपवेदसमन्वितान् ।दिगीशांश्च तदस्त्राणि नवावरणपूजनम् ।एवं सिद्धमनुर्मन्त्री जायते सिद्धिभाजनम् ॥
एतदुक्तशतं मन्त्रं जपेदष्टोत्तरं शतम् ।तद्देवतादिने सिद्धः पुस्तकादेव जायते ॥
अकुण्ठितप्रयोगेषु न पुनस्तस्य संस्कृतिः ।एतत्पल्लविता मन्त्रा मम सिद्ध्यन्ति पार्व्वति ! ॥
एतत्संपुठिताः सर्व्वे वैदिकाः सिद्धिदाः कलौ ।अनेन ग्रथिता जप्ताः कलेश्च द्रुतसिद्धिदाः ॥
”इति मेरुतन्त्रे २६ प्रकाशः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
