| YouTube Channel

मत्वा (matvA)

 
Monier Williams 1872
English
मत्वा, ind. having thought
having believed
having considered
having known or understood
having remembered.
Hindi
Hindi
होने के सोचा था, यह सोच कर कि
Kridanta Forms
Sanskrit
मन् (म॒नँ॒ ज्ञाने - दिवादिः - अनिट्)
ल्युट् = मननम्
अनीयर् = मननीयः - मननीया
ण्वुल् = मानकः - मानिका
तुमुँन् = मन्तुम्
तव्य = मन्तव्यः - मन्तव्या
तृच् = मन्ता - मन्त्री
क्त्वा = मत्वा
ल्यप् = प्रमत्य
क्तवतुँ = मतवान् - मतवती
क्त = मतः - मता
शानच् = मन्यमानः - मन्यमाना
मन् (म꣡नुँ॒ अवबोधने - तनादिः - सेट्)
ल्युट् = मननम्
अनीयर् = मननीयः - मननीया
ण्वुल् = मानकः - मानिका
तुमुँन् = मनितुम्
तव्य = मनितव्यः - मनितव्या
तृच् = मनिता - मनित्री
क्त्वा = मनित्वा / मत्वा
ल्यप् = प्रमत्य
क्तवतुँ = मनितवान् / मतवान् - मनितवती / मतवती
क्त = मनितः / मतः - मनिता / मता
शानच् = मन्वानः - मन्वाना
कृदन्तरूपमाला
Sanskrit
1 {@“मन ज्ञाने”@} 2 ‘स्तम्भे मानयते, ज्ञाने मन्यते मनुते पदम्।।
पूजायाम् मानयेन्मानेत्, यौ मीमांसेत तङ्सनोः।’ 3 इति देवः।
मानकः-निका, मानकः-निका, 4 मिमंसकः-सिका, 5 मम्मनकः-मंमनकः-निका
मन्ता-त्री, मानयिता-त्री, मिमंसिता-त्री, मम्मनिता-मंमनिता-त्री
-- मानयन्-न्ती, मानयिष्यन्-न्ती-ती
-- -- 6 मन्यमानः, मानयमानः, मिमंसमानः, मंमन्यमानः
मंस्यमानः, मानयिष्यमाणः, मिमंसिष्यमाणः, मंमनिष्यमाणः
7 सुमत्-सुमतौ-सुमतः, हरिमत्
-- -- मतम्- 8 राज्ञां मतः-मतवान्, मानितः, मिमंसितः, मंमनितः-तवान्
मनः, 9 दर्शनीयमानी 10, 11 पण्डितम्मन्यः 12 -पण्डितमानी, 13 14 शूरमानी, 15 कालिम्मन्या, 16 दिवामन्या-दोषामन्यम्, 17 गाम्मन्यः, 18 स्त्रियम्मन्यः-स्त्रींम्मन्यः, 19 नरम्मन्यः, 20 भुवम्मन्यः, 21 इत्येव न्याय्यम् इति ‘इच एकाचः--’ 22 इति सूत्रभाष्यवाक्यम् ‘तस्मात् श्रिमन्य- मित्येव भवितव्यम्।’ इत्याकारकमवलम्ब्य सिद्धान्तकौमुद्यामुक्तम्।
प्रकृतसूत्रे उद्द्योते नागेशभट्टैस्तु उपात्तभाष्यवाक्यस्य एकदेश्युक्तित्वं प्रसाध्य, श्रियम्मन्यम् इत्येव प्रामाणिकं रूपमिति स्थापितम्।
भट्टिकाव्येऽपि 23 श्रियम्मन्यपदस्य प्रयुक्तत्वात् नागेशपक्ष एव ज्यायानिति भाति।]] श्रिमन्यं 24, 25 उपकुम्भम्मन्यः, 26 श्रियम्मन्या, श्रीमन्मन्यः, रजनिम्मन्यः, 27 साधुम्मन्यः, 28 पटुमानिनी, 29 मेनका, मानः, मिमंसुः, मम्मनः
मन्तव्यम्, मानयितव्यम्, मिमंसितव्यम्, मम्मनितव्यम्
मननीयम्, माननीयम्, मिमंसनीयम्, मम्मननीयम्
मान्यम्, मान्यम्, मिमंस्यम्, मम्मन्यम्
ईषन्मनः-दुर्मनः-सुमनः
-- -- मन्यमानः, मान्यमानः, मिमंस्यमानः, मम्मन्यमानः
मानः, मानः, मिमंसः, मम्मनः
मन्तुम्, मानयितुम्, मिमंसितुम्, मम्मनितुम्
30 मन्या, 31 सुमत्, मतिः, 32 मन्तिः, अनुमतिः, मानना, मिमंसा, मम्मना
मननम्, माननम्, मिमंसनम्, मम्मननम्
मत्वा
मानयित्वा, मिमंसित्वा, मम्मनित्वा
अनुमत्य, अनुमान्य, अनुमिमंस्य, अनुमम्मन्य
33 मानम् २, मत्वा २, मानम् २, मानयित्वा २, मिमंसम् २, मिमंसित्वा २, मम्मनम्
मम्मनित्वा
34 मुनिः, 35 मनुः-मनुष्यः-मनुषी, 36 मन्तुः, 37 मन्युः, 38 मन्त्रः, 39 मठरः, 40 मांसम्, 41 मधु, 42 मनः।
प्रासङ्गिक्यः
01
=>
(१२१७)
02
=>
(४-दिवादिः-११७६। सक। अनि। आत्म।)
03
=>
(श्लो। १२५-१२६)
04
=>
[[१। सन्नन्तात् ण्वुलि, द्विर्वचनादिकेषु कृतेषु ‘नश्चापदान्तस्य झलि’ (८-३-२४) इत्यनेन धातुनकारस्यानुस्वारे रूपमेवम्। एवमेव सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
05
=>
[[२। यङन्ते सर्वत्र द्विर्वंचनादिकेषु कृतेषु, अभ्यासे, ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति नुगागमः, तस्य पदान्तवद्भाववचनात् परसवर्णविकल्पः। तेन रूपद्वयम्।]]
06
=>
[[३। शतरि, दिवादित्वात् शपोऽपवादः श्यन्प्रत्ययोऽत्रेति ज्ञेयम्।]]
07
=>
[[४। क्विपि, ‘अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति’ (६-४-३७) इत्यनुनासिकलोपः। ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्।]]
08
=>
[[५। अनुदात्तोपदेशत्वादस्य धातोर्निष्ठायामनुनासिकलोपे, रूपाण्यूह्यानि। राज्ञां मतः इत्यत्र ‘मतिबुद्धिपूजार्थेभ्यः--’ (३-२-१८८) इति बुद्ध्यर्थकत्वादस्य वर्तमाने कर्तरि क्तः। ‘क्तस्य वर्तमाने’ (२-३-६७) इति कर्तरि षष्ठी।]]
09
=>
[[६। दर्शनीयां मन्यते इत्यर्थे कर्मण्युपपदे ‘मनः’ (३-२-८२) इत्यनेनात्र णिनिः। ‘भार्यायाः’ इत्यत्र कर्मणि षष्ठी। भार्याशब्दसापेक्षस्यापि दर्शनीयशब्दस्य गमकत्वात् समासः। ‘क्यङ्मानिनोश्च’ (६-३-३६) इत्यनेन मानिन्शब्द उत्तरपदे दर्शनीयाशब्दस्य पुंवद्भावः।]]
10
=>
[भार्यायाः]
11
=>
[[७। पण्डितमात्मानं मन्यते इत्यर्थे, ‘आत्ममाने खश् च’ (३-२-८३) इति पाक्षिकः खश्। पक्षे णिनिः। खशः शित्त्वात् विकरणप्रत्ययः श्यन्प्रवृत्तः। ‘अरुर्द्विषद- जन्तस्य--’ (६-३-६७) इति पूर्वपदस्य मुम्।]]
12
=>
[[आ। ‘अखण्ड्यमानं परिखण्ड्य शक्रं त्वं पण्डितंमन्यमुदीर्णदण्डः।’ भ। का। १२। १७।]]
13
=>
[पृष्ठम्०९९९+ ३५]
14
=>
[[आ। ‘राममुच्चैरुपालब्ध शूरमानी कपिप्रभुः। व्रणवेदनया ग्लायन् साधुम्मन्यमसाधुवत्।।’ भ। का। ६। १२८।]]
15
=>
[[१। कालीमात्मानं मन्यते इत्यर्थे खश्प्रत्यये, श्यनि कृते, ‘स्त्रियाः पुंवत्--’ (६-३-३४) इति प्राप्तं पुंवद्भावं परत्वाद् बाधित्वा, ‘खित्यनव्ययस्य’ (६-३-६६) इति ह्रस्वः। तेन कालिम्मन्या इति सिद्ध्यति।]]
16
=>
[[२। ‘दिवा’ इत्यधिकरणशक्तिप्रधानमव्ययम्। एवम्भूतस्याप्यस्य वृत्तिविषये कर्मत्वं बोध्यम्। तेन दिवा मन्यते इत्यर्थेऽत्र खशि, अव्ययत्वादुपपदस्य मुम्, ह्रस्वश्च नेति ज्ञेयम्। एवमेव दोषामत्त्यम् इत्यत्रापि ज्ञेयम्।]]
17
=>
[[३। अत्रापि पूर्ववत् गाम् आत्मानं मन्यते इत्यर्थे खशि, ‘इच एकाचोऽम्प्रत्ययवच्च’ (६-३-६८) इत्यनेन खिदन्ते परे एकाचः पूर्वपदस्य ‘गो’ इत्यस्य अम् इत्यागमो भवति, ‘--प्रत्ययवच्च’ (६-३-६८) इति वचनात् स्वादिप्रत्ययवद् भवति। तेन ‘औतोऽम्शसोः’ (६-१-९३) इत्यनेन प्रत्ययाश्रित आकारोऽत्र भवति। तेन गाम्मन्यः इति रूपं सिद्ध्यति।]]
18
=>
[[४। स्त्रियमात्मानं मन्यते इत्यर्थे खशि, पूर्ववत् ‘इच एकाचः--’ (६-३-६८) इति अमागमे, ‘वाऽम्शसोः’ (६-४-८०) इति विकल्पेन इयङ्। इयङ्पक्षे स्त्रियम्मन्यः, इति रूपम्। इयङभावपक्षे ‘अमि पूर्वः’ (६-१-१०७) इति पूर्वरूपे स्त्रीम्मन्यः इति रूपम्।]]
19
=>
[[५। नरं आत्मानं मन्यते इत्यर्थे खशि, अमागमे, ‘ऋतो ङिसर्वनामस्थानयोः’ (७-३-११०) इति गुणे नरम्मन्यः इति रूपम्। अत्र ‘--प्रत्ययवच्च’ (६-३-६८) इति वचनात् मुमपवादतया प्रवृत्तस्यामः प्रत्ययत्वम्। प्रत्ययत्वादेव सर्वनामस्थान- संज्ञा, तदाश्रितो गुणश्चात्रेति ज्ञेयम्।]]
20
=>
[[६। भुवमात्मानं मन्यते इत्यर्थे खशि, अमि, ‘अचि श्नुधातु--’ (६-४-७७) इत्यादिना उवङत्रेति ज्ञेयम्।]]
21
=>
[[७। श्रियमात्मानं मन्यते इत्यत्र श्रिमन्यं [ब्राह्मणकुलम्]
22
=>
(६-३-६८)
23
=>
(५-७१)
24
=>
[कुलम्]
25
=>
[[८। कुम्भस्य समीपे उपकुम्भम्। ‘अव्ययं विभक्ति--’ (२-१-६) इत्यादिना सामीप्ये अव्ययीभावसमासे, ‘अव्ययीभावश्च’ (१-१-४१) इत्यनेन अव्ययी- भावसमासस्याव्ययत्वम्। ‘अव्ययीभावस्याव्ययत्वे प्रयोजनं लुङ्मुखस्वरोपचाराः’ (वा। १-१-४१) इति वचनात् उपकुम्भमात्मानं मन्यते इत्यर्थेऽव्ययत्वाभावात् मुमागमोऽत्रेति ज्ञेयम्। स्पष्टमिदं प्रकृतसूत्रे (१-१-४१) भाष्यादौ।]]
26
=>
[[B। ‘मिथ्यैव श्रीः श्रियम्मन्या क्षीमन्मन्यो मृषा हरिः।’ भ। का। ५। ७१।]]
27
=>
[पृष्ठम्१०००+ ३०]
28
=>
[[१। पट्वीमात्मानं मन्यते इत्यर्थे, पाक्षिके णिनिप्रत्यये ‘स्त्रियाः पुंवत्--’ (६-३-३४) इति पुंवद्भावे रूपमेवम्। पक्षे पटुम्मन्या इत्यपि भवति।]]
29
=>
[[२। ‘आशिषि च’ (३-१-१५०) इति वुन्प्रत्यये, ‘प्रत्ययस्थात्--’ (७-३-४४) इति प्राप्तस्येत्वस्य ‘आशिषि वुनश्च न’ (वा। ७-३-४५) इति निषेधः। ‘आशीरर्थेऽके मनेः एत्वं वाच्यम्’ इति वचनेन एकारः इति प्र। कौमुद्यामुक्तम्। मेनका = अप्सरोविशेषः।]]
30
=>
[[३। स्त्रियाम्, ‘संज्ञायां समजनिषदनिपतमन--’ (३-३-९९) इत्यादिना संज्ञायां क्यपि रूपमेवम्। ‘मन्या = गलपार्श्वशिरा (सिरा), मन्यन्तेऽनयेति कृत्वा। तया हि क्रुद्धो ज्ञायते।’ इति पदमञ्जरी। न्यासकारस्तु ‘संज्ञायाम्’ इत्युक्तत्वात् अझलादित्वेऽपि प्रत्ययस्थं कित्त्वमाश्रित्यानुनासिकलोपे तुकि मत्या इति रूपमनुमेने। ‘मन्या = पश्चाद्ग्रीवासिरा।’ इति मा। धा। वृत्तिः। ‘सुमत्’ इति सम्पदादित्वात् (३-३-९४) क्विपि अनुनासिकलोपे, तुकि रूपम्। सुमत् = लक्ष्मीः।]]
31
=>
[[आ। ‘पुरोहिताऽमात्यमुखाश्च योधा विवृद्धमन्युप्रतिपूर्णमन्याः।।’ भ। का। ३। २८।]]
32
=>
[[४। क्तिचि रूपमेवम्। ‘न क्तिचि दीर्घश्च’ (६-४-३९) इत्यनेन क्तिचि अनुनासि- कलोपदीर्घयोर्निषेधः। मतिः इत्यत्र तु क्तिनि अनुनासिकलोपो भवत्येव। ‘मन्त्रे वृषेषपचमन--’ (३-३-९६) इत्यनेन मन्त्रे एव मन्यतेः क्तिन्विधानात् लोके मतिरित्यस्य प्रयोग इति मन्तव्यम्। उदात्तस्वरार्थं सूत्रस्यास्य (३-३-९६) प्रवृत्तेः।]]
33
=>
[पृष्ठम्१००१+ २७]
34
=>
[[१। ‘मनेरुच्च’ (द। उ। १-५१) इति इन्प्रत्यये अकारस्य उकारादेशे रूपमेवम्। मुनिः = ऋषिः।]]
35
=>
[[२। औणादिके उप्रत्यये रूपमेवम्। मन्यते मनुते वा मनुः। मनुशब्दात् ‘मनोर्जा- तावञ्यतौ षुक् च’ (४-१-१६१) इति अञ् यत् इत्येतौ प्रत्ययौ भवतः
\n\n तत्सन्नियोगेन षुगागमश्च। मानुषः, मनुष्यः इति जातिशब्दौ एतौ। स्त्रियाम्, ‘हयगवयमुकयमत्स्यमनुष्याणामप्रतिषेधः’ (वा। ४-१-६३) इति प्रतिप्रसवेन ङीपि, ‘हलस्तद्धितस्य’ (६-४-१५०) इति यलोपे मनुषी इति रूपम्।]]
36
=>
[[३। ‘कमिमनि--’ (द। उ। १-१२५) इति तुप्रत्यये रूपमेवम्। ‘मन्तुः पुंस्यपराधे- ऽपि मनुष्येऽपि प्रजापतौ’ इति मेदिनी इति अमरकोशव्याख्याने (२। २६)।]]
37
=>
[[४। ‘यजिमनि--’ (द। उ। १-१३४) इति युच्प्रत्यये रूपमेवम्। मन्युः = दैन्यम्, यागः, अन्तर्गतः क्रोधश्च।]]
38
=>
[[५। ‘गुधृवीपचिवचियमिमनि--’ (द। उ। ८। ८९) इति त्रप्रत्यये रूपमेवम्। ‘वेदभेदे गुह्यवादे मन्त्रः--’ इति अमरः (३। १६७)।]]
39
=>
[[६। ‘वनिमनिभ्याम्--’ (द। उ। ८। ९९) इति अरप्रत्यये ठकारे चान्तादेशे रूपमेवम्। मठरः = ज्ञानी, गोत्रं च। मूढः इति क्षीरस्वामी।]]
40
=>
[[७। ‘मनेर्दीर्घश्च’ (द। उ। ९। २३) इति सप्रत्यये दीर्घे रूपमेवम्। मन्यते तदिति मांसम् = पिशितम् इत्यर्थः।]]
41
=>
[[८। ‘फलिपाटिनमिमनि--’ (द। उ। १। १०३) इति उप्रत्यये धकारादेशे रूपम्। मन्यते तदतिशयेन इति मधु = माध्वी।]]
42
=>
[[९। ‘असुन्’ (द। उ। ९। ४९) इति असुन्प्रत्यये रूपमेवम्।]]