| YouTube Channel

मत्तवारणं (mattavAraNaM)

 
शब्दकल्पद्रुमः
Sanskrit
मत्तवारणं,
क्ली,
(मत्तं वारयतीति वृ + णिच्ल्युः ।) प्रासादवीथीनां वरण्डः कोठारवाराण्डा इति भाषा
(यथा, कुट्टनीमते ।“दिव्यधराधरभूरिव राजति मत्तवारणोपेता
”“प्रासादवीथीनां वरण्डकः ।” इति तट्टीका
)अपाश्रयः प्राङ्गणावरणम् इति हेमचन्द्रः ।४ ७८ विश्वश्च
प्रासादवीथीनां कुण्डवृक्ष-वृतिः कुन्दवृक्षवृति इति पाठः इतिमेदिनी णे, ११४
पूगचूर्णः इति शब्दमाला