| YouTube Channel

मण्डोदकं (maNDodakaM)

 
शब्दकल्पद्रुमः
Sanskrit
मण्डोदकं,
क्ली,
(मण्ड इव उदकमस्य मण्डमिश्रित-मुदकमत्रेति वा ।) चित्ररागः विचित्रवर्णः ।आतर्पणम् आलिम्पना इति मेदिनी के, २०७
(यथा, सुश्रुते सूत्रस्थाने ४४ अध्याये ।“तस्य पिष्टस्य भागांस्त्रीन् किण्वभागविमि-श्रितान् ।मण्डोदकार्थे क्वाथञ्च दद्यात् तत्सर्व्वमेकतः
”)