| YouTube Channel

मण्डूरं (maNDUraM)

 
शब्दकल्पद्रुमः
Sanskrit
मण्डूरं,
क्ली,
पुं,
लौहमलम् ततपर्य्यायः ।शिङ्घाणम् इत्यमरः ९८
सिंहानं सिंहाणं मण्डते लोहं वेष्टतेअग्निदाहे लोहाद्विभजते वा मण्डयति भूष-यति औषधत्वाद्रोगिणमिति वा मण्डूरं किमडि भूषे मडि विभागे वेष्टे नाम्नीतिऊरः इति तट्टीकायां भरतः
अस्य गुणः ।लौहगुणतुल्यः शतवर्षोर्द्ध्वं मण्डूरमुत्तमम् ।अशीतिवर्षीयं मध्यमम् षष्टिवर्षीयमधमम् ।अतो न्यूनं विषतुल्यम् यथा, --“यल्लोहं यद्गुणं प्रोक्तं तत्किट्टञ्चापि तद्गुणम् ।शतोर्द्धमुत्तमं किट्टं मध्यञ्चाशीतिवार्षिकम्
अधभं षष्टिवर्षीयं ततो हीनं विषोपमम्
”इति रसेन्द्रचिन्तामणिः
(तथा चास्य पर्य्यायान्तरम् मण्डूरं लोहजंकिट्टम् इति वैद्यकरत्नमालायाम्
अस्यउत्पतिर्गणाश्च यथा, --“ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते ।लोहसिंहानिका किट्टी सिंहाणञ्च निगद्यते
यल्लोहं यद्गुणं प्रोक्तं तत्किट्टमपि तद्गुणम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
“ये गुणा मारिते मुण्डे ते गुणा मुण्डकिट्टके ।तस्मात् सर्व्वत्र मण्डूरं रोगशान्त्यै प्रयोजयेत्
”अथास्य मारणविधिर्यथा, --“दग्ध्राक्षकाष्ठैर्मलमायसन्तुगोमूत्रनिर्व्वापितमष्टवारान् ।विचूर्ण्य लीढं मधुनाचिरेणकुम्भाह्वयं पाण्डुगदं निहन्ति
”इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा-धिकारे
)