मण्डलं (maNDalaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritमण्डलं, (मण्डयति भूषयतीति । मडि +“कलस्तृपश्च ।” उणा० । १ । १०६ । इति कलः ।)चन्द्रसूर्य्ययोर्बहिर्व्वेष्टनम् । चन्द्रसूर्य्ययोरुत्पातज-रश्मिमण्डलम् । यथा, --“वातेन मण्डलीभूताः सूर्य्याचन्द्रमसोः कराः ।मालाभा व्योम्नि तन्वन्ते परिवेशः प्रकीर्त्तितः ॥
”इति साहसाङ्कः ॥
तत्पर्य्यायः । परिवेशः २ परिधिः ३ उप-सूर्य्यकम् ४ । इत्यमरः । १ । ३ । ३२ ॥
परिवेषःमूर्द्वन्यान्तोऽपि । यथा, --“पुंलिङ्गः परिवेषः स्यात् परिधौ परिवेषणे ।”इति मूर्द्धन्यान्ते रुद्रः ॥
सूर्य्यमुपगतं उपसूर्य्यं स्वार्थे कः उपसूर्य्यकम् ।चन्द्रपक्षे उपसूर्य्यमिव उपसूर्य्यकं इवार्थे कः ।इति भरतः ॥
* ॥
चक्रबालम् । इत्यमरः ।१ । ३ । ६ ॥
तत्तु मण्डलाकारेण परिणतंसमूहमात्रम् । मण्डलाकारदिक्समूहः । इतिमाधवी ॥
चक्रस्येव वालो वलनमस्य चक्र-बालं वलेर्घञि वालः मनीषादित्वात् लस्यडत्वे चक्रवाडञ्च । किंवा चक्रेण चक्रा-कारेण वाडते चक्रवाडं वाडृङ आप्लावेअल् । इति भरतः ॥
* ॥
कोठरोगः । द्बादश-राजकम् । इति मेदिनी । १ ले, २१ ॥
(उक्तञ्च तद्विवरणं कामन्दकीये नीतिसारे ।८ । १ -- २२ ।“उपेतः कोषदण्डाभ्यां सामात्यः सह मन्त्रिभिः ।दुर्गस्थश्चिन्तयेत्साधु मण्डलं मण्डलाधिपः ।रथी विराजते राजा विशुद्धे मण्डले चरन् ।अशुद्धे मण्डले सर्पन् शीर्य्यते रथचक्रवत् ॥
रोचते सर्व्वभूतेभ्यः शशीवाखण्डमण्डलः ।सम्पूर्णमण्डलस्तस्माद्बिजिगीषुः सदा भवेत् ॥
अमात्यराष्ट्रदुर्गाणि कोषो दण्डश्च पञ्चमः ।एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः ॥
एताः पञ्च तथा मित्रं सप्तमः पृथिवीपतिः ।सप्तप्रकृतिकं राज्यमित्युवाच बृहस्पतिः ॥
सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः ।जेतुमेषणशीलश्च विजिगीषुरिति स्मृतः ॥
कौलीनं वृद्धसेवित्वसुत्साहः स्थूललक्षिता ।चित्रज्ञता बुद्धिमत्त्वं प्रागल्भ्यं सत्यवादिता ॥
अदीर्घसूत्रताऽक्षौद्रं प्रश्रयः स्वप्रधानता ।देशकालज्ञता दार्ढ्यं सर्व्वक्लेशसहिष्णुता ॥
सर्व्वविज्ञानिता दाक्ष्यं सदा संवृतमन्त्रता ।अविसंवादिता शौर्य्यं भक्तिज्ञत्वं कृतज्ञता ॥
शरणागतवात्सल्यममर्षित्वमचापलम् ।स्वकर्म्मदृष्टशास्त्रत्वं कृतित्वं दीर्घदर्शिता ॥
जितश्रमित्वं धर्म्मित्वमक्रूरपरिवारता ।प्रकृतिस्फीतता चेति विजिगीषुगुणाः स्मृताः ॥
सर्व्वैर्गुणैर्विहीनोऽपि स राजा यः प्रतापवान् ।प्रतापयुक्ता ह्यस्यन्ति परान् सिंहा मृगानिव ॥
एतापसिद्धौ नृपतिः प्राप्नोति महतीं श्रियम् ।तस्मादुत्थानयोगेन प्रतापं जनयेत्परम् ॥
एकार्थाभिनिवेशित्वमविलक्षणमुच्यते ।दारूणस्तु स्मृतः शत्रुर्विजिगीषुगुणान्वितः ॥
लुब्धः क्रूरोऽलसोऽसत्यः प्रमादी भीरूरस्थिरः ।मूढो योधावमन्ता च सुखच्छेद्यो रिपुः स्मृतः ॥
अरिर्मित्रमरेर्मित्रं मित्रमित्रमतःपरम् ।तथारिमित्रमित्त्रञ्च विजिगीषोः पुरः स्थिताः ॥
पार्ष्णिग्राहः स्मृतः पश्चादाक्रन्दस्तदनन्तरम् ।आसारावनयोश्चव विजिगीषोस्तु मण्डलम् ॥
अरेस्तु विजिगीषोस्तु मध्यमो भूम्यनन्तरः ।अनुग्रहे संहतयोः समर्थो व्यस्तयोर्वधे ॥
मण्डलत्वे हि चैतेषामुदासीनो बलाधिकः ।अनुग्रहे संहतानां व्यस्तानाञ्च वधे प्रभुः ॥
मूलप्रकृतयस्त्वेताश्चतस्रः परिकीर्त्तिताः ।आहैव मन्त्रकुशलश्चतुष्कं मण्डलं मयः ॥
विजिगीषुररिर्मित्रं पार्ष्णिग्राहोऽथ मध्यमः ।उदासीनः पुलोमेन्द्रौ षट्कं मण्डलमूचतुः ॥
उदासीनो मध्यमश्च विजिगीषोस्तु मण्डलम् ।उशना मण्डलमिदं प्राह द्वादशराजकम् ॥
”)देशः । स च देशः समन्ताद्विंशतियोजनं चत्वा-रिंशद्योजनं वा । इति केचित् ॥
गोलम् । इत्य-नेकार्थकोषः ॥
चक्रम् । इति त्रिकाण्डशेषः ॥
संधातः । इति हेमचन्द्रः ॥
नखाघातः । इतिशब्दमाला ॥
धन्विनां स्थानपञ्चकान्तर्गत-स्थितिविशेषः । यथा, --“मण्डलाकारपादाभ्यां मण्डलं स्थानमीरितम् ।”इति शब्दरत्नावली ॥
व्याघ्रनखाख्यगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥
व्यूहविशेषः । यथा, --“तिर्य्यग्वृत्तिश्च दण्डः स्याद्भोगोऽन्वावृत्तिरेवच ।मण्डलं सर्व्वतोवृत्तिः पृथग्वृत्तिरसंहतः ॥
”इति भरतधृतकामन्दकिः ॥
(अस्य पुंस्त्वमपि । यथा, महाभारते । ६ ।७८ । २० ।“भीष्मेण धार्त्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो ययौ ।मण्डलः सुमहाव्यूहो दूर्भेद्योऽमित्रघातिनाम् ॥
”यथा च, कामन्दकीये । १९ । ४१ ।“मण्डलोऽसंहतो भोगो दण्डश्चेति मणीषिभिः ॥
”)ग्रहादीनां मण्डलसंस्थानं तत्परिमाणञ्च यथा, “सर्व्वेषान्तु ग्रहाणां वै अधस्ताच्चरते रविः ।रवेरूर्द्ध्वं स्थितः सोमः सोमान्नक्षत्रमण्डलम् ॥
नक्षत्रेभ्यो बुधस्तूर्द्ध्वं बुधादूर्द्ध्वन्तु भार्गवः ।तस्मादङ्गारकश्चोर्द्ध्वं तस्य चोर्द्धं बृहस्पतिः ॥
तस्मात् शनैश्चरश्चोर्द्ध्वं तस्योर्द्ध्वमृषिमण्डलम् ।ऋषिभ्यश्च ध्रुवश्चोर्द्ध्वमायान्तं त्रिदिवं ध्रुवे ।आदित्यनिलयो राहुः कदाचित् सोममार्गतः ॥
सूर्य्यमण्डलसंस्थस्तु नित्यं केतुः प्रसर्पति ।नवयोजनसहस्राणि विस्तारो भास्करस्य तु ॥
विस्तारात्त्रिगुणञ्चास्य परिणाहे तु मण्डलम् ।द्विगुणः सूर्य्यविस्ताराद्विस्तारः शशिनः स्मृतः ॥
द्विगुणं मण्डलञ्चास्य यथैव सवितुस्तथा ।चन्द्रतः षोडशो भागो भार्गवस्य विधीयते ॥
भार्गवात् पादहीनस्तु विज्ञेयो वै बृहस्पतिः ।बृहस्पतेः पादहीनौ वक्रसौरावुदाहृतौ ॥
विस्तारमण्डलाभ्यान्तु पादहीनस्तयोर्ब्बुधः ।बुधतुल्यानि ऋक्षाणि सर्व्वे ह्रस्वानि यानि तु ॥
योजनार्द्धप्रमाणानि तेभ्यो ह्रस्वं न विद्यते ।राहुः सूर्य्यप्रमाणस्तु कदाचित् सोमसम्मितः ।तस्मात् ग्रहप्रमाणस्तु केतुस्त्वनियतः स्मृतः ॥
”इति देवीपुराणे ग्रहगतिर्नामाध्यायः ॥
कृत्रिममण्डलविधिर्यथा, --“चतुहंस्तं समारभ्य यावद्धस्तशतं भवेत् ।मण्डलं तत्र कर्त्तव्यमत ऊर्द्ध्वं न कारयेत् ॥
विमलं विजयं भद्रं विमानं शुभदं शिवम् ।वर्द्धमानञ्च दैवञ्च लताक्षं कामदायकम् ।रुचकं स्वस्तिकाख्यञ्च द्विदशं इति मण्डलाः ॥
सितादिहरितान्ताश्च रजाः कार्य्याः सुशोभनाः ।शालिषष्टिककौसुम्भरजनीहरिपत्रजाः ॥
मणिविद्रुमरागाश्च भस्मना अभिमन्त्रिताः ।सितसर्षपधूपाढ्या रजाः कृत्वा तु पातयेत् ॥
अस्त्रराजं न्यसेन्मन्त्री सम्भवेति पदं पि वा ।समोत्थानं शुभं कृत्वा गोमयेनोपलेपितम् ॥
चन्दनागुरुकर्पूरक्षोदधूपाधिवासितम् ।भूभागं सुमितं सिद्धं पूर्व्वपश्चिमकोत्तरम् ॥
याम्यं स्वस्तिकमस्त्याङ्गैः सूत्रैर्वोर्णाण्डपत्रजैः ।पद्मपत्राष्टकं मन्ये द्विगुणं त्रिगुणं पि वा ॥
द्वाराणि समसूत्राणि कर्णिकाकेशरोज्ज्वलम् ।पद्मं तथावशेषाणि स्वस्तिकान्युत्पलानि च ॥
सव्याबलम्बहस्तस्तु रजःपातं समाचरेत् ।मध्यमानामिकाङ्गुष्ठैरुपरिष्टाद्यथेप्सया ॥
अधोमुखाङ्गुलिं कृत्वा पातयेत्तु विचक्षणः ।समा रेखा तु कर्त्तव्याविच्छिन्ना पुष्टिवर्ज्जिता ॥
अङ्गुष्ठपर्व्वनैपुण्या समा कार्य्या विजानता ।संसक्तं विषमं स्थूलं विच्छिन्नं कृषरावृतम् ॥
पर्य्यन्तसर्पितं ह्नस्वमालिखेन्न कदाचन ।संसक्ते कलहं विद्याद्वज्ररेखे तु विग्रहम् ॥
अतिस्थाने भवेद्व्याधिर्नित्यं पीडा विमिश्रिते ।बिन्दुभिर्भयमाप्नोति शत्रुपक्षान्न संशयः ॥
कृषायाञ्चार्थहानिः स्यात् विच्छिन्ने मरणंध्रुवम् ।वियोगात्तु भवेत्तस्य इष्टद्रव्यसुतस्य वा ॥
अविदित्वा लिखेद्यस्तु मण्डलन्तु यथेप्सया ।सर्व्वदोषानवाप्नोति ये दोषाः पूर्व्वभाषिताः ॥
”इति देवीपुराणे पुष्पाभिषेकचिन्तानामाध्यायः ॥
सूर्य्यमण्डले देवानां स्थितिर्यथा, --“अर्च्चयन् पूजयन् देवं जपेच्च रविमण्डले ।आदित्यमण्डले देवं ध्यात्वा विष्णुमुपैति तम् ॥
”भोजनमण्डलं यथा, --“यातुधानाः पिशाचाश्च असुरा राक्षसास्तथा ।घ्नन्ति केवलमन्नस्य मण्डलस्य विवर्ज्जनात् ॥
आदित्या वसवो रुद्रा ब्रह्मा चैव पितामहः ।मण्डलान्युपजीवन्ति तस्मात् कुर्व्वन्ति मण्डलम् ॥
चतुःकोणं द्विजाग्रस्य त्रिकोणं क्षत्त्रियस्य तु ।द्विकोणाकृति वैश्यस्य शूद्रस्य वर्त्तुलं सदा ॥
”इत्याद्ये वह्निपुराणे आह्निकतपोनामाध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
