| YouTube Channel

मणिपूरं (maNipUraM)

 
शब्दकल्पद्रुमः
Sanskrit
मणिपूरं,
क्ली,
षट्चक्रान्तर्गतनाभिमध्यस्थतृतीय-चक्रम् यथा, --“तदूर्द्ध्वे नाभिदेशे तु मणिपूरं महाप्रभम् ।मेघाभं विद्युदाभञ्च बहुतेजोमयं ततः ।मणिवद्भिन्नं तत् पद्मं मणिपूरं तथोच्यते
दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ।शिवेनाधिष्ठितं पद्मं विश्वालोकनकारणम्
”इति तन्त्रम्
तत्तु स्वाधिष्ठानपद्मस्योर्द्ध्वदेशे तिष्ठति यथा, --“एतत्पद्मस्योर्द्ध्वदेशे महापद्मं सुदुर्लभम् ।दशपत्रं नीलवर्णं सजलं घोररूपकम् ।डादिफान्तैः सचन्द्रैश्च पङ्कजञ्चातिशोभनम्
तन्मध्ये बीजकोषे निवसति सततं वह्निवीजंसुसिद्धंवाह्ये तत्त्रेपुराख्यं नवतपननिभं स्वस्तिकंतत्त्रिभागे
स्वर्णकाख्यमिदं देवि ! सर्व्वदेवप्रपूजितम् ।साकारं वह्निबीजञ्च सदैव मेघवाहनम्
रुद्रालयं हि तत्रैव महामोहस्य नाशनम् ।भद्रकाली महाविद्या वामभागे सुशोभिता
”इति निर्व्वाणतन्त्रे पटलः
तत्र देवतीर्थं यथा, रुद्रयामले ।मणिपूरे देवतीर्थं पञ्चकुण्डं सरोवरम् ।तत्र श्रीकामनातीर्थं स्नाति यो मुक्तिमिच्छति
”(मणीनां पूरोऽत्र ।) स्वनामख्यातदेशश्च
(यथा, महाभारते २१८ २३ ।“चित्राङ्गदां पुनर्द्रष्टुं मणिपूरपुरं ययौ
”)