| YouTube Channel

मणिपर्व्वतः (maNiparvvataH)

 
शब्दकल्पद्रुमः
Sanskrit
मणिपर्व्वतः,
पुं,
(मणीनां पर्व्वतः ।) गिरि-विशेषः यथा, --“ततोऽभ्ययाद्गिरिश्रेष्ठमभितो मणिपर्व्वतम् ।तत्र पुण्या ववुर्वाता ह्यभवंश्चामलाः प्रभाः
मणीनां हेमवर्णानामभिभूय दिवाकरम् ।तत्र वैदूर्य्यवर्णानि ददर्श मधुसूदनः
सतोरणपताकानि द्वाराणि शिखराणि ।विद्युद्ग्रथितमेघाभः प्रबभौ मणिपर्व्वतः
हेमचित्रवितानैश्च प्रासादैरुपशोभितः ।तत्र ता हेमवर्णाभा ददर्श मधुसूदनः
गन्धर्व्वासुरमुख्यानां प्रिया दुहितरस्तथा ।ददर्श पृथुलश्रोणीः संरुद्धा गिरिकन्दरे
नरकेण समानीता रक्ष्यमाणाः समन्ततः
”इति महाभारते हरिवंशे नरकवधाध्यायः