| YouTube Channel

मणिकूट (maNikUTa)

 
Monier Williams Cologne
English
मणि—कूट
m.
N.
of two mountains,
Pur.
शब्दकल्पद्रुमः
Sanskrit
मणिकूटः,
पुं,
(मणयः मणिमयानि कूटानिशिखराणि यस्य सः ।) कामरूपस्थपर्व्वतभेदः ।यथा, --“भस्मकूटस्य चैशान्यां मणिकूटो महागिरिः ।मणिकर्णो नाम हरस्तत्र तिष्ठति लिङ्गकः
”इति कालिकापुराणे ८१ अध्यायः
“मणिकूटस्याथ गिरेर्गन्धमादनकस्य ।मध्ये स्रवति लोहित्यो ब्रह्मपुत्त्रः समास्थितः
हत्वा ज्वरं तथा विष्णुस्तत्र वासमथाकरोत् ।नरदेवासुरादीनां यथा भवति वै हितम्
ज्यरेणापीडिततनुर्ज्वरं हत्वा महासुरम् ।सर्व्वलोकहितार्थाय सोऽगदस्नानमाचरत्
अगदस्नानसंभूतं संजातञ्च महासरः ।तस्य स्वयं नाम चक्रे हयग्रीवोऽपनर्भवम्
पुनर्जायते यस्मात् ततः स्नात्वा नरीत्तमः ।अपुनर्भवसंज्ञं तत् सरस्तु परिकीर्त्तितम्
मणिकूटाचले विष्णुर्हयग्रीवस्वरूपधृक् ।स व्यामप्रमाणेन विस्तारेणैव संस्थितः
”इति कालिकापुराणे ८० अध्यायः
वाचस्पत्यम्
Sanskrit
मणिकूट
पु०
मणिमयः कूटोऽस्य कामरूपस्थे पर्वतभेदे यथोक्तम्“भस्मकूटस्य चैशान्यां मणिकूटो महागिरिः मणि-कर्णो नाम हरस्तत्र तिष्ठति लिङ्गकः” कालिकापु० ८१ अ०