| YouTube Channel

मणिकर्णीश्वरः (maNikarNIzvaraH)

 
शब्दकल्पद्रुमः
Sanskrit
मणिकर्णीश्वरः,
पुं,
(मणिकर्ण्या मणिकर्ण्यां वाईश्वरः ।) काशीस्थशिवलिङ्गविशेषः यथा, --“ओङ्कारं प्रथमं पश्येत् मत्स्योदर्य्यां कृतो-दकः ।त्रिपिष्टपसहादेवं ततो वै कृत्तिवाससम्
रत्नेशञ्चाथ चन्द्रेशं केदारञ्च ततो व्रजेत् ।धर्म्मेश्वरञ्च वीरेशं गच्छेत् कामेश्वरं ततः
विश्वकर्म्मेश्वरञ्चाथ मणिकर्णीश्वरं ततः ।अविमुक्तेश्वरं दृष्ट्वा ततो विश्वेशमर्च्चयेत्
एषा यात्रा प्रयत्नेन कर्त्तव्या क्षेत्रवासिभिः ।”इति काशीखण्डे १०० अध्यायः
मणिकर्णेश्वरः,
पुं,
(मणिकर्णस्तदाख्य ईश्वरः ।)कामरूपस्थशिवलिङ्गविशेषः यथा, --“सर्व्वतीर्थजले स्नात्वा स्पृष्ट्वा चन्द्रं सवासवम् ।मणिकर्णेश्वरं दृष्ट्वा मुक्तिर्भस्माचलं गते
”इति कालिकापुराणे ८१ अध्यायः