| YouTube Channel

मडि (maDi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मण्ड्
मूलधातुः:
मडि
धात्वर्थः:
विभाजने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
मण्डते
धातुः:
मण्ड्
मूलधातुः:
मडि
धात्वर्थः:
भूषायाम्
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
मण्डति
धातुः:
मण्ड्
मूलधातुः:
मडि
धात्वर्थः:
भूषायाम्, हर्षे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
मण्डयति-ते
धातुप्रदीपः
Sanskrit
मडिँ मडि
- मण्डते मण्डनम् मण्डः वृषादित्वात् कलच् मण्डलम् गौरादित्वान् मण्डली मण्डतीति भूषायां भवति ।। 269 ।।
मडिँ मडि भूषायाम्
- मण्डति मण्डकम् मण्डनम् मण्डनः शलिमण्डिभ्यामूकण् (उण्, 4/43) मण्डूकः कूपमण्डूकः पात्रेसमितादित्वात् ।। 321 ।।
मडिँ मडि भूषायाम्, हर्षे
- मण्डयति मण्डना मण्डनः मण्डयन्तः 55
क्षीरतरङ्गिणी
Sanskrit
मडिँ मडि
- चकाराद् विभाजने पृथक्सूत्रादर्थान्तरेऽपि मण्डते मण्डो रसाग्रम् मण्डकः मण्डलम् मण्डूरं लोहमलम् मण्डपः णेरित्नुच् (द्र0 उ0 329) मण्डयित्नुः शलिमण्डिभ्यामूकञ् (तु0 उ0 442) मण्डूकः मडि भूषायाम् (धा0 1219) परस्मैपदी- मण्डति 265
मडिँ मडि भूषायाम्
- मण्डति क्रुधमण्डार्थेभ्यश्च (32151) इति युच्-मण्डनः चुरादौ (1045) मण्डयति, मण्डना शलिमण्डिभ्यामूकञ् (तु0 उ0 442) मण्डूकः 315
मडिँ मडि भूषायाम्
- मण्डयति मण्डना, मण्डनम्, मण्डा एरण्डः भ्वादौ (1175) मण्डते एताँश्चन्द्रो नैच्छत्, तच्चासत्, कुडिकडिचडिवडिमडिभडीनां ह्यनित्यण्यन्तत्वान्न्याय्यविकरणे सिद्धे आत्मनेपदं नु कुतः स्यात् ? 50
धातुवृत्तिः
Sanskrit
मडिँ मडि (अर्थः)
अत्र स्वामी वडि विभाजने, मडि चेति पृथक् सूत्रणादर्थान्तरेपि नन्दी तु वडि विभाजने, मडि वेष्टन इति भङ्क्त्वा पठतीति ( वण्डते ववण्डे वण्डिता ममण्डे मण्डितेत्यादि मण्डूकः ) "शरिमण्डिभ्यामूकण्'' इत्यूकण् कूपमण्डूकः ( उदपानमण्डूकः कच्छमण्डूकः ) "पात्रेसमितादयश्च'' इति क्षेपे सप्तमीतत्पुरुषः क्षेपश्च कूपे मण्डूक इवेत्यदृष्टविस्तारताद्यवगमात् "क्रुधमण्डार्थेभ्यश्च'' इति युज्विधौ भूषणार्थ एव वृत्तौ उदाहृतः तस्यानुदात्तेत इति युचः सिद्धत्वान्न त्वस्य युज् नेतीति मण्डि भूषायामित्यग्रे परस्मैपदिषु, णौ हर्षे 269
मडिँ मडि (अर्थः) भूषायाम्
( मण्डति ममण्ड मण्डितेत्यादि ) मण्डते कन्या स्वयमेव अमण्डिष्ट कन्या स्वयमेव भूषाकर्मत्वाद्यक्चिणोर्निषेधः ( मिमण्डिषित मामण्ड्यते अमामन् मण्डयति अममण्डत् मण्डनः ) "क्रुधमण्डार्थेभ्यश्च'' इति युच् मण्ड इति विभागे गतः 318
मडिँ मडि (अर्थः) भूषायां, हर्षे
( मण्डयति ) मण्डतइति वेष्टने शपि मडि भूषायामिति भूवादौ पाठापदेव मण्डतीति ~सिद्धेरस्येदित्त्वं भुम्मात्रार्थं तु णिज्विकल्पार्थमपि, तेन हर्षे मण्डतीति भवति 53
कृदन्तरूपमाला
Sanskrit
1 {@“मडि विभाजने”@} 2 3 धातुपाठे ‘वडि विभाजने
मडि च’ इति पाठ्यते।
तत्र ‘वडि मडि विभा- जने’ इत्येकदैव पठितव्ये पृथक् सूत्रकरणात् अर्थान्तरेऽपि मडिधातुर्वर्तते इति क्षीरस्वाम्यादयः प्रतिपादयन्ति।
तद् यथा मण्डः = रसाग्रम्।
अत्र तण्डुला- दीनां पचनावसरे क्वथनानन्तरं ऊर्ध्वं रसस्यावरणरूपेणाविर्भावः रसाग्रमि- त्युच्यते
अत्रापि धातोरस्य वृत्तिरित्यर्थः।
एवम्, मण्डूरम् 4 मण्डलम्, मण्डपः इत्यादिष्वप्यस्य धातोरर्थान्तरवृत्तिर्ज्ञेया।
काशकृत्स्न- धातुपाठीयव्याख्यायां 5 ‘वडि मडि वेष्टने’ इति पट्यते इति क्षी टीका 6।
“नन्दी तु ‘मडि वेष्टने’ इति पठति।” इति धातुवृत्तिः।
परं तु क्षीरतरङ्गिण्यां-- “नन्दी तु ‘वटि विभाजने, वडि वेष्टने’ इति भङ्ग्या पठति।” इत्येव दृश्यते।
ईदृशस्थलेषु शुद्धपाठः कीदृश इति ग्रन्थैर्निर्धारयितुं शक्यते।
सर्वथा मडिधातुरनेकार्थक इति सारः।]] ‘भूषार्थे मण्डतीति स्यात् तत्र मण्डयतीति णौ।
मण्डते वेष्टने…।।’ 7 इति देवः।
मण्डकः-ण्डिका, मण्डकः-ण्डिका, मिमण्डिषकः-षिका, मामण्डकः-ण्डिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककण्ठतिवत् 8 ज्ञेयानि।
9 मण्डिता, 10 इत्यूकण्प्रत्ययः।
मण्डते क्षितिमिति मण्डूकः = भेकः।]] मण्डूकः, 11 कलप्रत्यये रूपमेवम्।
मण्ड्यते = वेष्ट्यते इति मण्डलम् = परिवारः।]] मण्डलम्, इत्यादीन्यस्माद् भवन्तीति विशेषः।
12 मण्डितः।
प्रासङ्गिक्यः
01
=>
(१२०७)
02
=>
(१-भ्वादिः-२७२। सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(= लोहमलम्)
05
=>
(कन्नडभाषामय्यां)
06
=>
(पृ। ४१)
07
=>
(श्लो। ८४)
08
=>
(१४९)
09
=>
[[१। ताच्छीलिके तृनि रूपमेवम्। ‘क्रुधमण्डार्थेभ्यश्च’ (३-२-१५१) इत्यत्र युज्विधौ भूषर्णार्थकस्यैव मण्डधातोर्ग्रहणमिति वृत्त्यादिषु प्रतिपादितत्वादत्र युजिति ज्ञेयम्। स्पष्टमिदं मा। धा। वृत्तौ।]]
10
=>
[[२। ‘शलिमण्डिभ्यामूकण्’ [द। उ। ३-४७]
11
=>
[[३। औणादिके [द। उ। ८-१०७]
12
=>
[[आ। ‘प्रहुण्डितानैक्षत चारुकुण्डलान् प्रवण्डितार्थान् अविमण्डिताशयान्।’ धा। का। १। ३६।]]
1 {@“मडि भूषायाम्”@} 2 ‘भूषार्थे मण्डतीति स्यात्, तत्र मण्डयतीति णौ।
3 इति देवः।
मण्डकः-ण्डिका, मण्डकः-ण्डिका, मिमण्डिषकः-षिका, मामण्डकः-ण्डिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककण्टतिवत् 4 ज्ञेयानि।
अस्य 5 ताच्छीलिके युचि-- 6 मण्डनः 7 इति रूपमिति विशेषः।
8 इत्नुच्प्रत्यये, ‘अयामन्ताल्वाय्येत्न्विष्णुषु’ 9 इति णेरयादेशे रूपमेवम्।]] मण्डयित्नुः।
प्रासङ्गिक्यः
01
=>
(१२०८)
02
=>
(१-भ्वादिः-३२१। अक। सेट्। पर।)
03
=>
(श्लो। ८४)
04
=>
(१४६)
05
=>
[पृष्ठम्०९९२+ ३०]
06
=>
[[१। तच्छीलादिषु कर्तृषु ‘क्रुधमण्डार्थेभ्यश्च’ (३-२-१५१) इति युच्प्रत्ययः। मण्डार्थाः = भूषणार्थका धातवः।]]
07
=>
[[आ। ‘कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम्।।’ भ। का। ७। १६।]]
08
=>
[[२। ण्यन्तात् औणादिके [द। उ। १-१४०]
09
=>
(६-४-५५)
1 {@“मडि भूषायाम्, हर्षे च”@} 2 3 “-- ‘मडि भूषायाम्’ इति भूवादौ पाठादेव मण्डति इति सिद्धेः, अस्येदित्त्वं नुम्मात्रार्थम्, तु णिज्विकल्पार्थम्
तेन हर्षे मण्डति इति भवति।” इति मा।
धा।
वृत्तिः।
क्वचित् कोशे अत्र ‘हर्षे च’ इति पठ्यते।
पाठ- शुद्धिरत्र कीदृशीति विद्मः।]] ‘भूषार्थे मण्डतीति स्यात्, तत्र मण्डयतीति णौ।
4 इति देवः।
मण्डकः-ण्डिका, मिमण्डयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादि- ककुण्ठयतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१२०९)
02
=>
(१०-चुरादिः-१५८७। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(श्लो। ८४)
05
=>
(२१०)