| YouTube Channel

मठः (maThaH)

 
Apte
English
मठः [maṭhḥ] मठम् [maṭham], मठम् [मठत्यत्र मठ् घञर्थे क]
The hut of an ascetic, a small cell or room.
A monastery, convent.
A seminary, college, place of learning.
A temple.
A cart drawn by oxen.
ठी A cell.
A cloister, convent.
Comp.
-अधिपतिः, -अध्यक्षः the superintendent of a monastery
principal of a college. -आयतनम् a monastery, college. -चिन्ता charge of a convent
वर्षं यावत् किमन्येन मठचिन्तां दिनत्रयम्
Pt.*
2.63.
Apte 1890
English
मठः,
ठं [मठत्यत्र मठ् घञर्थे क] 1 The hut of an ascetic, a small cell or room.
2 A monastery, convent.
3 A seminary, college, place of learning.
4 A temple.
5 A cart drawn by oxen.
ठी 1 A cell.
2 A cloister, convent.
Comp.
आयतनं a monastery, college.
चिंता charge of a convent
Pt. 2. 63.
Apte Hindi
Hindi
मठः
पुं*
- मठत्यत्र मठ् घञर्थे
"संन्यासी की कोठरी, साधक की कुटिया"
मठः
पुं*
- -
"विहार, शिक्षालय"
मठः
पुं*
- -
"विद्यामंदिर, महाविद्यालय, ज्ञानपीठ"
मठः
पुं*
- -
"देवालय, मंदिर"
मठः
पुं*
- -
बैलगाड़ी
Wordnet
Sanskrit
Synonyms:
पथिकाश्रमः, मठः, उत्तरणस्थानम्, पान्थशाला
noun
यात्रिकाणां निवासस्य स्थानम्।
"केदारनाथस्य यात्रायां अस्माभिः एकस्मिन् पथिकाश्रमे विश्रामः कृतः।"
Synonyms:
मठः, मठम्, आश्रमः, क्षपणकविहारः
noun
साधूनां वस्तिस्थानम्।
"यदा उत्तरकाश्यां गतः तदा किञ्चित् कालं यावत् एके मठे निवासः कृतः।"
Synonyms:
विद्यालयः, शाला, पाठशाला, विद्यालयम्, विद्यावेश्म, विद्यागृहम्, विद्याभ्यासगृहम्, विद्याभ्यासशाला, शिक्षागृहम्, शिक्षालयम्, शिक्षालयः, अध्ययनशाला, अध्ययनगृहम्, मठः, आश्रमः, अवसथः, अवसथ्यः
noun
विद्यायाः आलयः।
"अस्माकं विद्यालये एकादश प्रकोष्ठाः सन्ति/प्रातः सर्वे छात्राः विद्यालयं गच्छन्ति। "
Tamil
Tamil
மட2: : மடம், துறவிகள் வசிக்கும் இடம்.
शब्दकल्पद्रुमः
Sanskrit
मठः,
पुं,
छात्रादिनिलयः इत्यमरः
मठन्तिवसन्ति छात्रादयोऽत्र मठः मठ वासमर्द्दयोःअल् छत्रशीला विद्यार्थिनच्छात्राः छत्रेणगुरुसेवा लक्ष्यते गुरुदोषच्छादनात् छत्रं तच्छी-लत्वात् छात्रः विकारसंघेति ष्णः आदिनापरिव्राजकक्षपणकादीनां ग्रहः छात्रादीनांनिलयो गृहं छात्रादिनिलयः अर्थकथनमेतत् ।नामाप्येतदिति केचित् छात्रशाला प्रतिश्रय-श्चात्रैव इति भरतः
गन्त्रीरथः इति हारा-वली
*
अथ मठादिप्रतिष्ठाप्रयोगः ।यदि तद्दिने प्रतिमादिप्रतिष्ठा क्रियते तदा तन्त्रेणवृद्धिश्राद्धादिकं विधाय देवप्रतिष्ठातत्त्वोक्त-विधिना देवप्रतिष्ठां विधाय गृहप्रतिष्ठा कर्त्तव्या ।यदिगृहप्रतिष्ठामात्रं तदा प्रातः कृतनित्यक्रियःप्रक्षालितपाणिपाद आचान्तः प्राङ्मुख उदङ्-मुखो वा कुशयुक्तासने उपविश्य ब्राह्मणत्रयंगन्धादिना परितोष्य अस्मिन् विष्णुवेश्मप्रतिष्ठा-कर्म्मणि ओँ पुण्याहं भवन्तोऽधिब्रुवन्तु इति त्रिःश्रावयेत् ओँ पुण्याहमिति त्रिस्तैरुक्ते अस्मिन्विष्णुवेश्मप्रतिष्ठाकर्म्मणि ओँ स्वस्ति भवन्तोऽधि-ब्रुवन्तु इति त्रिः श्रावयेत् ओँ स्वस्तीति त्रिस्तै-रुक्ते अस्मिन् विष्णुवेश्मप्रतिष्ठाकर्म्मणि ओँ ऋद्धिंभवन्तोऽधिब्रुवन्तु इति त्रिः श्रावयेत् ओँ ऋद्ध्यतामिति त्रिर्वदेयुः यजुर्वेदिनां ओँ स्वस्ति नइन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाःस्वस्ति नस्तार्क्षोऽरिष्टनेमिः स्वस्ति नोबृहस्पति-र्दधातु इत्यनेनाक्षतान् क्षिपेत् सामगानान्तु ।ओँ अस्ति सोमोऽयं सुतः पिबन्तस्य मरुतः ।उतस्वराजो अश्विना अस्ति सोमोऽयं सुतः ।पिबन्तस्य मरुतो हाइ उतस्वराजो वा हाइनो हाइ इति गीयमानेनाक्षतान् क्षिपेत् ।गानाशक्तौ त्रिधा ऋचं वाचयेत् ततः ।“सूर्य्यः सोमो यमः कालः सन्ध्ये भूतान्यहः क्षपा ।पवनो दिक्पतिर्भूमिराकाशं खचरामराः ।ब्राह्मं शासनमास्थाय कल्पध्वमिह मन्निधिम्
”इति पठित्वा तत ओँ तद्बिष्णोः परमं पदं सदापश्यन्ति सूरयः दिवीव चक्षुराततम् इतिविष्णुं स्मृत्वा नारायणं नमस्कृत्य ओँ तत् सदित्यु-च्चार्य्य कुशत्रयजलफलपुष्पाण्यादाय ओँ अद्या-मुके मासि अमुकपक्षेऽमुकतिथौं अमुकगोत्रःश्रीअमुकदेवशर्म्मा एतत्तृणकाष्ठादिमयवेश्मपर-माणुसमसंख्यवर्षसहस्रावच्छिन्नस्वर्गलोकमहि-तत्वकामः श्रीविष्णुप्रीतिकामो विष्णुलोकप्राप्ति-कामो वा विष्णुवेश्मप्रतिष्ठामहं करिष्ये इतिसंकल्पयेत् इष्टकादिमये तु एतदिष्टकादिमय-वेश्मपरमाणुसमसंख्यकवर्षसहस्रदशगुणकाला-वच्छिन्नस्वर्गलोकमहितत्वकाम इति विशेषः ।पाषाणवेश्मनि तु तद्दशगुणकालावच्छिन्नस्वर्ग-लोकेति विशेषः देवतान्तरगृहप्रतिष्ठायान्तुतदूहेन प्रयोगः
*
ततः संकल्पसूक्तं पठेत् ।सामवेदोक्तं तद्यथा ओँ देवो वो द्रविणोदाःपूर्णां विवष्ट्यासिचम् उद्वासिञ्चध्वमुपवा पृणु-ध्वमादिद्वो देव ओहते
यजुर्वेदोक्तं यथा, --“ओँ यज्जाग्रतो दूरमुदैतु दैवंतदुसुप्तस्य तथैवेति ।दूरङ्गमं ज्योतिषां ज्योतिरेकंतन्मे मनः शिवसङ्कल्पमस्तु
”ततः सगणाधिपगौर्य्य्यादिषोडशमातृकापूजा-वसोर्धारासम्पातनायुष्यमन्त्रजपाभ्युदयिकश्रा-द्धानि कर्त्तव्यानि
*
आयुष्यमन्त्रो यथा ओँआयुर्व्विश्वायुर्व्विश्वं विश्वमायुरसि महि प्रजान्त्व-ष्टाराधिनिधे ह्यस्मे शतं जीबेम शरदो वयन्ते
ओँ आयुषो मे पवस्व वर्च्चसो मे पवस्व विदुःपृथिव्या दिवो जनित्र्या शृण्वन्त्यापोऽधःक्षरन्ती सोमोहोद्गाय ममायुषे मम ब्रह्मवर्च्च-साय यजमानस्यर्द्ध्या अमुकस्य राज्याय
*
तत्र विष्णुवेश्मप्रतिष्ठाभ्युदयार्थमिति वाक्येविशेषः एवमन्यवेश्मनि ततः उत्तराभि-मुखं ब्राह्मणमुपवेश्य तत्समीपे आसनमानीयप्राङ्सुखो यजमानः प्राञ्जलिर्वदेत् ओँ साधुभवानास्ताम् ओँ साध्वहमासे इति प्रतिवचनंदत्त्वा तदासने उदङ्मख उपविशति ततोयजमानः ओँ अर्च्चयिष्यामो भवन्तं इति वदेत् ।ओँअर्च्चयेति प्रतिवचनम् ततो गन्धपुष्पताम्वूला-लङ्कारैरभ्यर्च्च्य दक्षिणं जानु स्पृष्ट्वा ओँ अद्ये-त्यादि अमुकगोत्रममुकप्रवरममुकदेवशर्म्माणंभवन्तं अस्मिन् सङ्कल्पितविष्णुवेश्मप्रतिष्ठा-कर्म्माङ्गभूतहोमकर्म्मणि ब्रह्मकर्म्मकरणाय गन्ध-पुष्पताम्बूलालङ्कारवस्त्रैरहं वृणे ओँ वृतो-ऽस्मीति प्रतिवचनम् यथाविहितं ब्रह्मकर्म्मकुरु ओँ यथाज्ञानं करवाणीति प्रतिवचनम् ।स्वयं होमासामर्थ्ये होतुर्वरणमपि तथैवकार्य्यम् तन्त्रधारकत्वेन आचार्य्यस्यापि तथैवकार्य्यम् शक्तेन सदस्यस्यापि गुरोर्वरणे तुसंकल्पितेऽस्मिन् विष्णुवेश्मप्रतिष्ठाकर्म्मणीतिवक्तव्यम्
*
ततो यजमानः गुरोः पादौधृत्वा पठेत् ।“नारायणस्वरूपस्त्वं संसारात्त्राहि मां प्रभो ! ।त्वत्प्रसादात् गुरो ! यज्ञं प्राप्नोमि यन्मयोदि-तम्
त्राहि नाथ ! प्रपन्नं मां भीतं संसारसाग-रात् ।देवतास्थापने ह्यद्य मम शान्तिं कुरु प्रभो !
ततो गुरुः ।ओँ उत्तिष्ठ वत्स भद्रन्ते मत्प्रसादात्त्वयानघ ! ।प्राप्तव्यं धर्म्मकामार्थं दुष्प्रापं यत् सुरासुरैः
*
ततो गुरुः ।ओँ पावमानीः स्वस्त्ययनीः मृदुघा हि घृत-श्च्युतः ।ऋषिभिः सम्भृतो रसो ब्राह्मणे स्वमृतंहितम्
इति पावमानीसूक्तम्
“असपत्नं पुरस्तान्नः शिवं दक्षिणतः कृधि ।अभयं सततं पश्चात् भद्रमुत्तरतो गृहे
”इति शाकुनसूक्तम्
ओँ रक्षोहनो बलगहनः प्रोक्षामि वैष्णवान्रक्षोहनो बलगहनोऽवनयामि वैष्णवान् रक्षो-हनो बलगहनोऽवस्तृणामि वैष्णवान् रक्षो-हनौ बलगहनावुपदधामि वैष्णवी रक्षोहनौबलगहनौ पर्य्यूहामि वैष्णवमसि वैष्णवाः स्थः ।इति रक्षासूक्तम् इति पठित्वा ।“वेतालाश्च पिशाचाश्च राक्षसाश्च सरीसृपाः ।अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः
विनायका विघ्नकरा महोग्रायज्ञद्विषो ये पिशिताशनाश्च ।सिद्धार्थकैर्वज्रसमानकल्पै-र्मया निरस्ता विदिशः प्रयान्तु
”इति श्वेतसर्षपान् विकीर्य्य स्वैः स्वैर्मन्त्रैः पञ्च-गव्यं शोधयेत्
*
तच्छोधनमन्त्रा यथा ।ओँ तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहिधियो यो नः प्रचोदयात् ।इति गोमूत्रम् ।ओँ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीविणीम् ।ईश्वरीं सर्व्वभूतानां तामिहोपह्वये श्रियम्
इति गोमयम् ।ओँ आप्यायस्व मे तु ते विश्वतः सोमवृष्ण्यंभवावाजस्य सङ्गथे ।इति दुग्धम् ।ओँ दधिक्राव्नो अकारिषं जिष्णोरश्वस्यवाजिनः ।सुरभिणो मुखाकरत् प्रणतायूंषि तारिषत्
इति दधि ।ओँ तेजोऽसि शुक्रमस्यमृतमसि धामनामासिप्रियन्देवानामनाधृष्टं देवयजनमसि
इति घृतम् ।ओँ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यांपूष्णो हस्ताभ्यां हस्तमाददे इति कुशोदकम्
ओँ वेद्या वेदिः समाप्यते बर्हिषा बर्हिरिन्द्रियम् ।जपेन यूप आप्यते प्रणीतो अग्निरग्निना इतिमन्त्रेण वेदीं संप्रोक्ष्य पञ्च घटान् घटस्थापन-क्रमेण संस्थाप्य
*
घटस्थापनमन्त्रा यथा ।सामगानाम् ओँ महित्रीणामवोस्तुद्युक्षं मित्र-स्यार्य्यम्नः दुराधर्षं वरुणस्य इति भूमेः ।ओँ धानावन्तं करम्भिणमपूपवन्तमुक्थिनं इन्द्रप्रातर्ज्जूषस्व नः इति धान्यस्य ओँ आविशंकलसं सुतो विश्वा अर्षन्नभिश्रिय इन्द्ररिन्द्रायधीयते इति कलसस्य ।“ओँ अयमूर्ज्जावतो वृक्ष उर्ज्जीव फलिनी भव ।पर्णं वनस्पते त्वा नु त्वा सूयतां रयि
”इति पल्लवस्य ।ओँ आनोमित्रावरुणा घृतैर्गव्युतिमुक्षतं मध्वारजांसि सुक्रतु इति जलस्य ओँ इन्द्रन्नरोनेमधिता हवन्ते यत्पार्य्या युनयते धियस्ताःसूरो नृषाताश्रवसश्च काम आगोमतिव्रजेभजात्वन्नः इति फलस्य ओँ सिन्धोरुच्छ्वासेपतयन्तमुक्षणं हिरण्यपावाः पशुमाशु गिभ्नते ।इति सिन्दूरस्य ओँ त्वावतः पुरूवसो वयमिन्द्रप्रणेतः स्मचिस्थातर्हरीणाम् इति स्थिरी-करणस्य ओँ पवमानो व्यश्नवद्रश्मिभिर्वाजसा-तमः दधास्तोत्रे सुवीर्य्यम् इति पुष्पस्य
*
यजुषाम् ओँ भूरसि भुवनस्य दितिरसि विश्वस्यधाया विश्वस्य भुरणधर्त्रीम् पृथिवीं यच्च पृथिवींदृँह पृथिवीं माहिँसीः इतिभूमेः ओँधान्यमसि धिनुहि देवान् धिनुहि यज्ञं धिनुहियज्ञपतिं धिनुहि मां यज्ञन्यम् इति धान्यस्य ।ओँ आजिघ्रकलसमह्यात्वा विशन्त्युन्दवः पुन-रुर्जा निवर्त्त स्वसानः सहसं धुक्षोरुधारापयस्वतीमाविशताद्रयि इति घटस्य ओँवरुणस्योत्तम्भनमसि वरुणस्य स्कम्भः सर्जनीस्थःवरुणस्य ऋत सदन्यसि वरुणस्य ऋत सदनमपिवरुणस्य ऋत सदनीमासीद इति जलस्य ।ओँ धन्वनागा धन्वना जिञ्जयेम धन्वना तीव्राःसमदो जयेम धनुःशत्रोरपकामं कृणोतुधन्वना सर्व्वाः प्रतिशो जयेम इति पल्लवस्य ।ओँ याः फलिनीर्या अफला अपुष्पा याश्चपुष्पिणीः बृहस्पतिप्रसूतास्ता नो मुञ्चन्तꣳहसः ।इति फलस्य ।“ओँ सर्व्वतीर्थमयं वारि सर्व्वदेवसमन्वितम् ।इमं घटं समारुह्य तिष्ठ देवगणैः सह
”इति जलं दद्यात् ओँ स्थिरो भव विड्डङ्गआशुर्भव वाह्यर्व्वन् पृथुर्भव मुसदस्त्वमग्ने पुरीष-वाहनः इति स्थिरीकरणस्य ओँ सिन्धोरिवप्राध्वने शूघनाशो वातप्रमियः पतयन्ति यह्वाघृतस्य धारा अरुषोण वाजी काष्ठा भिन्दन्नू-र्म्मिभिः पिन्नमानः इति सिन्दूरस्य ओँ श्रीश्च तेलक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपंअश्विनौ व्याप्तं इष्टम्मनीषाण सर्व्वलोकं मनी-षाण इति पुष्पस्य
*
ततः फलपुष्पयुतं विता-नम् ओँ विमान एष दिवो मध्य आस्त आपप्रवान्रोदसी अन्तरीक्षम् सविस्वाचीरभिचष्टेघृताचीरन्तरा पूर्व्वमपरञ्च केतुम्
साम-गानान्तु ओँ ऊर्द्ध्व ऊषु ऊतये तिष्ठा देवो नसविता ऊर्द्ध्वो वाजस्य सनिता यदञ्जिभिर्व्वाघद्भिर्विह्वयामहे इति मन्त्रेण बध्नीयात् * ।“ओँ हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातःपतिरेक आसीत् सदाधारपृथिवीं द्यामुतेसांकस्मै देवाय हविषा विधेम इति मन्त्रेणमण्डलमध्ये सुवर्णपद्मं दत्त्वा स्वर्णशलाकयादलान्युत्कीर्य्य मण्डलमध्ये राजतीं प्रतिमांओँ सूत्रामाणं पृथिवीं द्यामनेहसं सुशर्म्माण-मदितिं सुप्रणितिम् दैवीं नावं स्वरित्रामानागसमस्रवन्ती मारुहे मास्रस्तये इति मन्त्रेणनिःक्षिप्य घटेषु देवान् पूजयेत् * प्रथमघटेगणेशं सूर्य्यैं द्वितीयघटे शिवं दुर्गां तृतीयघटेविष्णुं लक्ष्मों सरस्वतीं चतुर्थे अग्निं वास्तुपुरुषंक्षेत्रपालान् कार्त्तिकेयमश्विनीकुमारौ पञ्चमेग्रहान् लोकपालांश्च स्वैः स्वैर्मन्त्रैरावाह्यपूजयेत् * ततो गुरुदेवं प्रतिमायां शालग्रामेवा यथोक्तविधिना स्नापयेत् ।“ओँ भद्रं कर्णेभिः शृणुयाम देवाभद्रं पश्येमाक्षिभिर्यजत्राः ।स्थिरैरङ्गैस्तुष्टवाँसस्तनू-भिर्ब्ब्यशेमदेव हितं यदायुः
”इति मन्त्रेण निवेश्य ओँ एतोन्विन्द्रꣳस्तवामःशुद्धं शुद्धेन साम्ना शुद्धै रुक्मैर्वा वृध्वां संशुद्धआशीर्वान्ममत्तु इति मन्त्रेण शुद्धोदकेनस्नापयेत् ओँ घृतवतीति घृतेनाभ्यज्य ओँअतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।पृथिव्याः सप्तधामभिः इति मसूरचूर्णेनोद्ध्यर्त्त्य ।ओँ सप्त ते अग्ने समिधः सप्तजिह्वाः सप्त ऋषयःसप्त धामप्रियाणि सप्त होत्राः सप्तधा त्वायजन्ति सप्त योनीरापृणुस्वा घृतेन इतिउष्णोदकेन क्षालयेत् ओँ द्रुपदादिव मुमुचानःस्विन्नः स्नातो मलादिव पूतं पवित्रेणे वाज्यमापःशुन्धन्तु मैनसः इति चन्दनेनानुलिप्य ओँ आपो-हिष्ठामयो भुवः स्नान ऊर्ज्जे दधातनः महेर-णाय चक्षसे इति नदीतोयेन स्नापयेत् ।ओँ शन्नो देवीरभिष्टये आपो भवन्तु पीतयेशंयोरभिस्रवन्तु नः इति तीर्थमृत्कलसेनस्नापयित्वा गावत्त्र्या गन्धयुक्तजलेन स्नापयेत् ।ओँ हिरण्यवर्णाः शुचयः पावकाः यासु जातःकश्यपो यास्विन्द्रः अग्नीया गर्भन्दधिरे विरू-पास्तान् आपः शꣳश्योना भवन्तु
इति पञ्च-मृत्तिकया ओँ इमं मे गङ्गे यमुने सरस्वतिसुतुद्रि स्तोमम् सचता परुष्ण्या असिक्न्यामरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमयाइति मन्त्रेण सिकताजलेन ओँ तद्विष्णोः परमंपदं सदा पश्यन्ति सूरयः दिवीव चक्षुरा-ततम् इति बल्मीकतोयेन ओँ या ओषधीसोमराज्ञीर्विष्ठिताः पृथिवीमनु तामह्य-मस्मिन्नासनेऽच्छिद्रं शर्म्म यच्छत इति सर्व्वौ-षधिजलेन ओँ यज्ञा यज्ञा वो अग्नये गिरागिरा दक्षसे प्रप्रवयममृतञ्जातवेदसं प्रियंमित्रन्नशं सिषम् इति कषाययुक्तजलेन ।पञ्चगव्येन स्वैः स्वैर्मन्त्रैः सेचयेत् ओँ पयःपृथिव्यां पय औषधीषु पयो दिव्यन्तरिक्षेपयोधाम पयखती प्रादशः सन्तु मह्यं सम्मासृजामि पयसा घृतेन सम्मा सृजाम्यपहः
इति पञ्चगव्येन ओँ तस्माद्यज्ञात् सर्व्वहुतऋचःसामानि जज्ञिरे छन्दांसि जज्ञिरे तस्माद्-यजुस्तस्मादजायत
इति पञ्चामृतेन ओँ याःफलिनीति फलोदकेन ओँ सहस्रशीर्षेति वक्ष्य-माणमन्त्रण सहस्रधारया ओँ एतोन्विन्द्रमितिपूर्व्वोक्तमन्त्रेण तुलसीचन्दनयुक्तजलेन ओँ यासांराजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्ज-नानाम् मधुश्च्युतः शुचयो याः पावकास्ताआपो देवीरिह मामवन्तु
इत्यनेन वेदादिचतुष्टयेन तद्यथा ओँ अग्निमीले पुरोहितंयज्ञस्य देवमृत्विजं होतारं रत्नधातमम् ।ओँ इषेत्वोर्जेत्वा वायवस्थदेवो वः सविता प्रार्प-यतु श्रेष्ठतमाय कर्म्मणे ओँ अग्न आयाहिवीतये गृणानो हव्यदातये निहोता सत्सिवर्हिषि ओँ शन्नो देवीरभिष्टये शन्नो भवन्तुपीतये शंयोरभिस्रवन्तु नः वक्ष्यमाण-पुरुषसूक्तेन एकाशीतिघटैः स्नापयेत् ।अशक्तौ अष्टाविंशतिघठैरष्टघटैर्वा स्नापयित्वाधौतवाससा जलमपनीय यथोपचारैः संपूज्यमण्डले आधारशक्त्यादीनि पूजयेत् * ओँआधारशक्तये नमः एवं सर्व्वत्र प्रणवादि-नमोऽन्तेन प्रकृत्यै कूर्म्माय अनन्ताय पृथिव्यैक्षीरसमुद्राय रत्नद्वीपाय रत्नोज्ज्वलसहितमहा-मणिमण्डपाय कल्पवृक्षाय रत्नवेदिकायै रत्न-सिंहासनाय आग्नेय्यां धर्म्माय नैरृत्यांज्ञानाय वायव्यां वैराग्याय ऐशान्यां ऐश्वर्य्यायपूर्व्वस्यां अधर्म्माय पश्चिमायां अवैराग्यायउत्तरस्यां अनैश्वर्य्याय मध्ये अं अर्कमण्डलायउं सोममण्डलाय मं वह्निमण्डलाय सं सत्वायरं रजसे तं तमसे आं आत्मने अं अन्तरा-त्मने पं परमात्मने ह्रीं ज्ञानात्मने पूर्व्वादिकेश-रेषु प्रादक्षिण्येन ओँ विमलायै नमः एवं उत्-कर्षिण्यै ज्ञानायै क्रियायै यीगायै प्रह्वै सत्यायैईशानायै कर्णिकायां अनुग्रहायै कर्णिकोपरिओँ नमो भगवते विष्णवे सर्व्वभूतात्मने वासुदेवायसर्व्वात्मसंयोगयोगपीठात्मने नमः
*
ततोमण्डले देवं संस्थाप्य पौराणिकमन्त्रेण पुरुष-सूक्तेन वा षोडशोपचारैः पूजयेत् तद्यथा ।ओँ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।स भूमिं सर्व्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ।सर्व्वतः स्थाने विश्वतो वृत्वा स्थाने स्पृष्ट्वा इत्यपिपाठः इति पठित्वा भगवन् विष्णो इहागच्छइहागच्छ इह तिष्ठ इह तिष्ठ इह सन्निरुद्धस्वमम पूजां गृहाण ततो यथाविध्यासनमानीयवमिति वरुणबोजेनार्घ्याम्भसा संप्रोक्ष्यासनम-भ्यर्च्च्य ओँ पुरुष एवेदं सर्व्वं यद्भूतं यच्च भाव्यंउतामृत त्वस्पेशानो यदतेनातिरोहति ।इति पठित्वा इदममुकासनं ओँ नमो भगवतेवासुदेवाय श्रीविष्णव नमः एवं सर्व्वत्र दाने ।ओँ भगवन् विष्णो स्वागतम् इति स्वागतप्रश्नः ।ततस्ताम्रपात्रस्थं पद्मश्यामाकदूर्व्वापराजितादि-युक्तं जलं गृहीत्वा ओँ एतावानस्य महिमातोज्यायांश्च पूरुषः पादोऽस्य विश्व भूतानित्रिपादस्यामृतं दिवि इति पठित्वा इदंपाद्यं पूर्व्ववन्मूलेन पादयोर्द्दद्यात् ततोगन्ध-पुष्पाक्षतयवकुशाग्रतिलसर्षपदूर्व्वायुक्तजलंशङ्खादिपात्रे कृत्वा ओँ त्रिपादूर्द्ध उदैत् पुरुषःपादोऽस्येहाभवत् पुनः ततो विश्वङ्व्यक्रामत्शासनानशने अभि
ततः स्थाने तस्मा-दित्यपि पाठः इति पठित्वा सामगानामिद-मर्घ्यमन्येषामेषः अर्घः इति शिरसि दद्यात् ।जातीलवङ्गकक्कोलयुक्तं केवलं वा पात्रस्थं जलंगृहीत्वा ओँ ततो विराडजायत विराजोऽधि-पुरुषः जातोऽत्यरिच्यत पश्चाद्भुविमथोपुरः
इति पठित्वा इदमाचमनीयं ओँ नमोभगवते वासुदेवाय श्रीविष्णवे स्वधा इतिदद्यात् ततः कांस्यपात्रस्थं दधिमधुघृतात्मकंकांस्येन पिहितं मधुपर्कं गृहीत्वा ओँ तस्माद्-यज्ञात् सर्व्वहुतः संभृतं पृषदाज्यं पशूंस्तांश्चके वायव्यानारण्या ग्राम्याश्च ये
इतिपठित्वा एष मधुपर्कः ओँ नमो भगवते वासु-देवाय श्रीविष्णवे स्वाहा इति दद्यात् ततःपूर्व्वमन्त्रं पठित्वा पुनराचमनीयञ्च दद्यात् ।कर्पूरवासितजलं गृहीत्वा ओँ तस्माद्यज्ञात्सर्व्वहुत ऋचः सामानि जज्ञिरे छन्दांसिजज्ञिरे तस्माद्यजुस्तस्मादजायत
इतिपठित्वा इदं स्नानीयजलं मूलेन दद्यात् ।पूर्व्ववत् पुनराचमनीयं दत्त्वा वस्त्रं गृहीत्वा ओँतस्मादश्वा अजायन्त ये के चोभयादतः गावोह जज्ञिरे तस्मात्तस्माज्जाता अजावयः
इति पठित्वा इदं वस्त्रं मूलेन दद्यात् एव-मुत्तरीयवस्त्रं यज्ञोपवीतं पूर्व्ववदाचमनीयं दत्त्वाआभरणं गृहीत्वा ओँ तं यज्ञं वर्हिषि प्रौक्षन्पुरुषं जातमग्रतः तेन देवा अयजन्त साध्याऋषयश्च ये
इति पठित्वा मूलेन दद्यात् ।ओँ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् मुखंकिमस्यासीत् किंबाहू किमूरू पादा उच्येते १० ।ऋग्वेदस्याश्वलायनशाखायान्तु मुखं किमस्यकौ बाहू कावूरू पादा उच्येते इति भेदः ।इति पठित्वा मूलेन गन्धं दद्यात् ओँ ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः कृतः उरूतदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ११
इति पठित्वा मूलेन पुष्पं दद्यात् ओँ चन्द्रमामनसो जातश्चक्षोः सूर्य्यो अजायत श्रोत्रा-द्वायुश्च प्राणश्च मुखादग्निरजायत १२
मुखा-दिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत इति पाठः ।इति पठित्वा मूलेन धूपं दद्यात् ओँ नाभ्याआसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्त्तत पद्भ्यांभूमिर्द्दिशः श्रोत्रात्तथा लोकानकल्पयन् १३
इति पठित्वा मूलेन दीपं दद्यात् ततो नैवेद्यो-परि मत्स्यमुद्रया मूलमन्त्रं दशधा जप्त्वाभ्यर्च्यधेनुमुद्रां प्रदर्श्य ओँ यत्पुरुषेण हविषा देवायज्ञमतन्वत वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मःशरद्धविः १४
इति पठित्वा नैवेद्यं मूलेनदद्यात् ओँ सप्तास्यासन् परिधयस्त्रिः सप्तसमिधा कृताः देवा यद्यज्ञं तन्नांना अवध्ननपुरुषं पशुम् १५
इति पठित्वा कर्पूरादि-वासितं पानीयं ताम्बूलं पुनराचमनीयं दर्पणञ्चदद्यात् ओँ यज्ञेन यज्ञमयजन्त देवास्तानिधर्म्माणि प्रथमान्यासन् ते नाकं महिमानः चन्त यत्र पूर्व्वे साध्याः सन्तिदेवाः १६ इति पठित्वा अञ्जलित्रयं पुष्पंदत्त्वा आवरणानि संपूज्य मूलमन्त्रं यथाशक्तिजप्त्वा प्रणमेत् * ऋग्वेदस्याश्वलायनशाखा-यान्तु यत्पुरुषेण हविषा इत्यादिना स्नानीयं ६तं यज्ञं वर्हिषीत्यादिना वस्त्रं तस्मात् यज्ञात्सर्व्वहुतः संभृतभित्यादिना यज्ञोपवीतम् ८तस्मात् यज्ञात् सर्व्वहुत ऋचः सामानीत्यादिनाचन्दनम् तस्मादश्वा अजायन्त इत्यादिनापुष्पं १० यत्पुरुषं व्यदधुरित्यादिना धूपम् ११ब्राह्मणोऽस्य मुखमासीदित्यादिना दीपम् १२चन्द्रमा मनसो जात इत्यादिना नैवेद्यम् १३नाभ्या आसीदन्तरिक्षमित्यादिना ताम्बूलम् १४सप्तास्यासन् परिधय इत्यादिना नीराजनम् १५इति भेदः अन्यत् समानम् * ततो गुरुःकुण्डपश्चिमे उपविश्य कुण्डे स्थण्डिले वा ब्राह्मविधिना तदज्ञाने स्वगृह्योक्तविधिना साहस-नामानमग्निं संस्थाप्य ब्रह्मस्थापनानन्तरं अभि-षेकार्थं ऐशान्यां नवमव्रणमश्यामं बहिर्द्दध्यक्षत-भूषितं चूताश्वत्थन्यग्रोधोडुम्बरप्लक्षपल्लवच्छन्न-मुखं फलवस्त्रयुतं अन्तःक्षिप्तपञ्चरत्नं निर्म्मल-जलपूर्णं दृढकलसं अक्षतानामुपरि ओँ आजिघ्रकलसमित्यादिमन्त्रेण स्थापयेत् तत्र वरुणस्यो-त्तम्भनमसीति बरुणं न्यसेत् ।“ओँ गङ्गाद्याः सरितः सर्व्वाः समुद्राश्च सरांसिच ।सर्व्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।आयान्तु यजमानस्य दुरितक्षयकारकाः
”इति तीर्थानि न्यसेत् तत्रैव कलसे अश्व-स्थानाद्गजस्थानात् बल्मीकात् सङ्गमात् ह्रदात् ।गोकुलात् रथ्याया आनीय सप्त मृदः क्षिपेत्
सर्व्वौषधीश्च
*
ततश्चरुश्रपणं कुर्य्यात् ।अग्नेरुत्तरे द्व्यङ्गुलविस्ताराग्रां प्रादेशपरिमि-तोडम्बरनिर्म्मितदर्व्वीं सार्द्धाङ्गुष्ठविस्ताराग्र-प्रादेशपरिमितोडुम्बरनिर्म्मितमेक्षणं चरुस्थार्लाआज्यस्थाली उदूखलमुषले स्रुवं पूर्णहोमार्थंस्रुचं समिधं आज्यादीनि उदगग्राणि प्राञ्चंप्राञ्चं विनियोगक्रमेणासादयति संस्थाप्ययवान् ब्रीहीन् वा तदभावे तण्डुलान् शूर्पेनिधाय सामगः ओँ विष्णवे त्वा जुष्टं निर्व्व-पामि इति यवादिप्रसृतिमेकां चरुस्थाल्यांकृत्वा उदूखलमध्ये स्थापयेत् यजुर्व्वेदी तुओँ विष्णवे त्वा जुष्टं गृह्णामि ओँ विष्णवे त्वाजुष्टं निर्व्वपामि चमसस्थजलेन ओँ विष्णवे त्वाजुष्टं प्रोक्षामीति त्रयं कुर्य्यात् ऋग्वेदी तु ओँविष्णवे त्वा जुष्टं निर्व्वपामि ओँ विष्णवे त्वाजुष्टं प्रोक्षामीति निर्व्वापप्रोक्षणमात्रम् यस्यगृहप्रतिष्ठा तस्यादौ जुष्टग्रहणम् एवं सर्व्वत्र ।एवमग्न्यादिषु ओँ अग्नये त्वा जुष्टं निर्व्वपामिएवं वायवे सूर्य्याय द्विः विष्णवे द्विः अग्नयेवायवे पुनरग्नये वरुणाय पुनरपि अग्नयेसूर्य्याय प्रजापतये अन्तरीक्षाय द्यवे ब्रह्मणेपृथिव्यै महाराजाय सोमाय इन्द्राय अग्नयेयमाय नैरृताय वरुणाय वायवे कुवेरायईशानाय ब्रह्मणे अनन्ताय आदित्याय सोमायमङ्गलाय बुधाय बृहस्पतये शुक्राय शनैश्चरायराहवे केतुम्य इत्थं नवत्रिंशत् प्रसृतीः स्थाप-येत् द्विस्तूष्णीं उपरिकृतदक्षिणवाममुष्टिभ्यांमुषलेनावहत्य शूर्पेण प्रस्फोटयेत् एवमपर-वारद्वयमवहत्य शूर्पेण प्रस्फोटयेत् तथा कर्त्तव्यंयथा वारत्रयेण तण्डुलनिष्पत्तिर्भवति तदशक्तौसंस्कारमात्रार्थं तण्डुलेष्वेवम् ततस्तण्डुलान्त्रिः प्रक्षाल्य चरुस्थाल्याममन्त्रकं कृतोत्तराग्रंपवित्रं निःक्षिप्य तत्र तण्डुलान् निधाय कपि-लाया दुग्धं निःक्षिप्य तदभावे अन्यधेनो-र्दुग्धं निःक्षिप्य दर्व्व्यां प्रागादिप्रदक्षिणमीष-दूर्द्ध्वमवघट्टयंस्तथा पचेत् यथा दाहकाठिन्याति-शैथिल्यमण्डगालनरहितोऽन्तरुष्मपक्वश्चरुर्भवतिज्वलदुल्मुकेन स्थालीमध्यस्थं चरुं दृष्ट्वा ओँतद्विष्णोः परमं पदं सदा पश्यन्ति सूरयःदिर्वाव चक्षुराततमित्यनेन मन्त्रेणं ओमित्यनेनच घृतेन सिक्त्वा दर्व्व्या दक्षिणावर्त्तेन संमिश्र-येत् ततोऽग्नेरुत्तरतोऽवतार्य्य पुनर्ज्वलदुल्मु-केन स्थालीमध्यस्थं दृष्ट्वा पुनर्घृतेनाभिधारयेत् ।ततः पर्य्युक्षणान्तां कुशण्डिकां समाप्य सामगस्तुकाम्यकर्म्माङ्गत्वेन तपश्च तेजश्च श्रद्धा ह्रीश्चसत्यञ्चाक्रोधश्च त्यागश्च धृतिश्च धर्म्मश्च सत्त्वञ्चवाक् मनश्चात्मा ब्रह्म तानि प्रपद्येतानि मामवन्तु इति जपित्वा विरूपाक्षजपंकुर्य्यात् ततः प्रकृते कर्म्मणि ।“ओँ पिङ्गभ्रूश्मश्रुकेशाक्षः पीनाङ्गजठरोऽरुणः ।छागस्थः साक्षसूत्रोऽग्निः सप्तार्च्चिः शक्ति-धारकः
”इत्यादित्यपुराणीयं ध्यात्वा विष्णुवेश्मप्रतिष्ठा-कर्म्मणि अग्ने त्वं साहसनामासीति नाम कृत्वा-वाह्य संपूज्य प्रादेशप्रमाणां घृताक्तां समिघंतूष्णीमग्नौ हुत्वा मेक्षणेन चरुं गृहीत्वा ओँ तद्बि-ष्णोरित्यादिस्वाहान्तेन जुहुयात् सर्व्वत्र साम-गानां मन्त्रान्ते देवतोद्देशो नास्ति अन्येषांइदं विष्णवे इति ओँ भूः स्वाहा इदमग्नये ओँभुवः स्वाहा इदं वायवे ओँ स्वः स्वाहा इदंसूर्य्याय ओँ भूर्भवः स्वः तत् सवितुर्व्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयात्स्वाहा इदं सूर्य्याय ओँ तद्विप्रासो विपन्यवोजागृवांसः समिन्धते विष्णोर्यत् परमं पदं स्वाहाइदं विष्णवे ओँ विश्वतश्चक्षुरुत विश्वतो मुखोविश्वतो बाहुरुत विश्वतस्पात् संबाहुभ्यां धमतिसंपतत्रैर्द्यावा भूमी जनयन् देव एकः स्वाहाइदं विष्णवे ओँ अग्निमीले पुरोहितं यज्ञस्यदेवमृत्विजं होतारं रत्नधातमं स्वाहा इद-मग्नये ओँ इषेत्वोर्जेत्वा वायवस्थदेवो वःसविता प्रार्पयतु श्रेष्ठतमाय कर्म्मणे स्वाहा इदंवायवे ओँ अग्न आयाहि वीतये गृणानोहव्यदातये निहोता सत्सि बर्हिषि स्वाहाइदमग्नये ओँ शन्नो देवीरभीष्टये शन्नो भवन्तुपीतये शंयोरभिस्रवस्तु नः स्वाहा इदं वरुणाय ।ओँ भूरग्नये स्वाहा ओँ सूर्य्याय स्वाहा ओँप्रजापतये स्वाहा ओँ अन्तरीक्षाय स्वाहा ओँद्यौः स्वाहा ओँ ब्रह्मणे स्वाहा ओँ पृथिव्यै स्वाहाओँ महाराजाय स्वाहा एष्वपि सामगेतरै-स्तत्तद्देवतोद्देशः पश्चात् कार्य्यः ओँ सोमंराजानं वरुणमग्निमन्वारभामहे आदित्यंविष्णुं सूर्य्यं ब्रह्माणञ्च बृहस्पतिं स्वाहा इदंसोमाय
*
ततो दिक्पालहोमः ओँत्रातारमिन्द्रमवितारमिन्द्रं हवे हवे सुहवंसूरमिन्द्रं ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्तिनोमघवा धात्विन्द्रः स्वाहा इदमिन्द्राय ओँअग्निं दूतं वृणीमहे होतारं विश्ववेदसं अस्ययज्ञस्य सुक्रतुं स्वाहा इदमग्नये ओँ नाकेसुपर्णमुपयत् पतन्तं हृदावेनन्तो अभ्यचक्षतत्वा हिरण्यपक्षं वरुणस्य दूतं यमस्य योनीशकुनं भुरण्यं स्वाहा इदं यमाय ओँ वेत्थाहि निरृतीनां वज्रहस्तः परिव्रजं अहरहःसिन्धुपरिपदामिव स्वाहा इदं निरृताय ।ओँ घृतवती भुवनानामभिश्रियोर्व्वी पृथ्वी मधु-दुधे सुपेशसा द्यावा पृथिवी वरुणस्य धर्म्मणाविष्कभिते अजरे भूरिरेतसा स्वाहा इदं वरु-णाय ओँ वात आवातु भेषजं शम्भुमयो भुनोहृदे प्रण आयूंषि तारिषत् स्वाहा इदंवायवे ओँ सोमं राजानं वरुणमग्निमन्वा-रभामहे आदित्यं विष्णुं सूर्य्यं ब्रह्माणञ्च बृह-स्पतिं स्वाहा इदं सोमाय ओँ अभित्वाशूरणोनुमोऽदुग्धा इव धेनवः ईशानमस्यजगतः स्वर्दुशमीशानमिन्द्र तस्थुषः स्वाहा इद-मीशानाय ओँ ब्रह्म यज्ज्ञानं प्रथमं पुर-स्ताद्विसीमतः सुरुचो वेण आवः सुबुध्न्याउग्रमा अस्य विष्ठाः सतश्च योनिमसतश्चविवः स्वाहा इदं ब्रह्मणे ओँ चर्षणीधृतं मघ-वानमुक्थ्यामिन्द्रं गिरो बृहतीरभ्यनूषत वावृ-धानं पुरुहूतं सुवृक्तिभिरमर्त्यं जवमानं दिवेदिवे स्वाहा इदमनन्ताय इति सामगोजुहुयात् तत्तद्देवतोद्देशस्तु कर्त्तव्यः तत्तद्-देवताप्रकाशनाय देवताविशेषा उक्ताः
*
यजुर्व्वेदी तु ओँ त्रातारमिन्द्रमवितारमिन्द्रँहवे हवे सुहवँ सूरमिन्द्रं हुवनु शक्रं पुरुहूतमिन्द्रँ स्वस्तिनो मघवा धात्विन्द्रः स्वाहा इद-मिन्द्राय ओँ वैश्वानरो उतय आप्रयातु परा-वतः अग्निरुक्थेन वाहसा उपयामगृहीतोऽसिवैश्वानराय द्बैषते योनिर्व्वैश्वानराय त्वा स्वाहाइदमग्नये ओँ असियमोऽस्यादित्योऽर्व्वन्नसि-त्रितो गुह्येन व्रतेन असि सोमेन समयाविपृक्तआहुस्ते त्रीणि दिवि बन्धनानि स्वाहा इदंयमाय ओँ यस्ते देवी निरृ तिराबबन्ध पाशंग्रीवासु विश्रुत्यं तन्ते विषाम्यायुषो मध्या-दथैतं पित्तमद्धि प्रसूतः नमी भूत्यै एदञ्च-कारस्वाहा इदं निरृतये शाखान्तरेतु ओँ यत्ते देवी निरृ तिराबबन्ध दासग्रीवास्वविच श्रर्त्यं इदन्ते तद्विष्यामायुषो मध्या-दथा जीवः पितुमद्धिप्रमुक्त स्वाहा इदं निरृ-तये ओँ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भ-सर्जनीस्थः वरुणस्य ऋतसदन्यसि वरुणस्यऋतसदनमसि वरुणस्य ऋतसदनी मासीदस्वाहा इदं वरुणाय ओँ वातो वावो मनोवा गन्धर्व्वाः सप्तविंशतिस्तेऽग्रे समयुञ्जँस्ते-ऽस्मिन् यवमादधुः स्वाहा इदं वायवे ओँकुविदङ्गथवमन्तो यवञ्चिद्यथा दान्त्यनुपूर्व्वंवियूयम् इहे हैषां कृणुहि भोजनानि येबर्हिषो नम उक्तिं जग्मुः स्वाहा इदं कुवे-राय ओँ तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्नमवसे हूमहे वयम् पूषाणो यथा वेद-सामसद्वृधे रक्षिता पायुरदब्धस्वस्तये स्वाहाइदमीशानाय ओँ आब्रह्मन् ब्राह्मणो ब्रह्म-वर्च्चसी जायता माराष्ट्रे राजन्य शूर इषव्योतिव्याधी महारथो जायतां स्वाहा इदं ब्रह्मणे ।ओँ नमोऽस्तु सर्पेभ्यो ये के पृथिवीमनु येअन्तरीक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः स्वाहाइदमनन्ताय
*
ऋग्वेदी तु ओँ त्रातार-मिन्द्रमवितारमिन्द्रं हवे हवे सुहवं सूरमिन्द्रंह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवाधात्विन्द्रः स्वाहा इदमिन्द्राय ओँ अग्निं दूतंपुरोदधे हव्यवाहमुपब्रुवे देवा आसादयादिहस्वाहा इदमग्नये ओँ यमाय सोमं सुतनुतयमाय जुहुता हविः यमं यज्ञो गच्छत्यग्नि-दूतो अरं कृतः स्वाहा इदं यमाय ओँ एषतेनिरृतेर्भागस्तं जुषस्व स्वाहा अग्निनेत्रेभ्योदेवेभ्यः पुरः सद्भ्यः स्वाहा यमनेत्रेभ्यो दक्षिणा-सद्भ्यः विश्वदेवनेत्रेभ्यः देवेभ्यः स्वाहा पश्चात्सद्भ्यः स्वाहा मित्रावरुणनेत्रेभ्यो देवामादा-वय्य उषरा सद्भ्यः स्वाहा सोमनेत्रेभ्यो देवेभ्यउपविशद्भ्यो दुरः सद्भ्यः स्वाहा इदं निरृ-ताय आश्वलायनशाखायान्तु ओँ मोषुणःपरापरा निरृ तिर्दुर्हनावधीत् पदीष्ट तृष्णयासह स्वाहा इदं नैरृ ताय ओँ तत्वायामिब्रह्मणा बन्दमानस्तदाशास्ते यजमानोहविर्भिः अहेडमानो वरुणे हवोध्युरुशंसमान आयुः प्रमोषी स्वाहा इदं वरुणाय ।ओँ वातो वावो मनो वा गन्धर्व्वाः सप्तविंशति-स्तेग्रेऽश्वमयुञ्जँस्तेऽस्मिन् यवमादधुः स्वाहा ।इदं वायवे आश्वलायनशाखायान्तु ओँ तववाय वृतस्यते त्वष्टुर्ज्जामातरद्भुत अवांस्यावृणीमहे स्वाहा इदं वायवे ओँ कुविदङ्गयव-मन्तो यवञ्चिद्यथा दान्त्यनुपूर्व्वं वियूय इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमो वृक्तिंन जग्मुः स्वाहा इदं कुवेराय ओँ तमीशानंजगतस्तस्थुषस्पतिं धियं जिन्नमवसे हूमहे वयंपूषाणो यथा वेद सामसद्वृधे रक्षिता पायुर-दब्धस्वस्तये स्वाहा इदमीशानाय ओँ ब्रह्मयज्ज्ञानं प्रथमं पुरस्ताद्विषीमत सुरुचो वेणआवः स्वबुध्न्या उपमा अस्य विष्ठाः सतश्चयोनिमसतश्च विवः स्वाहा इदं ब्रह्मणे ओँनमोऽस्तु सर्पेभ्यो ये के पृथिवीमनु येऽन्त-रीक्षे ये दिवि तेभ्यः सर्पेभ्यो नम स्वाहा इद-मनन्ताय
*
ततो नवग्रहहोमः ओँ आकृ-ष्णेन रजसा वर्त्तमानो निवेशयन्नमृतं मर्त्त्यञ्चहिरण्ययेन सविता रथेना देवो याति भुवनानिपश्यन् स्वाहा ओँ आप्यायस्व समेतु ते विश्वतःसोमवृष्ट्यं भवावाजस्य सङ्गथे स्वाहा ओँ अग्नि-र्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयं अपाँरेताꣳसि जिन्नति स्वाहा ओँ अग्ने विवस्वदुषसश्चित्रं राधोऽमर्त्य आदाशुषे जातवेदो वहात्वमद्या देवां उषर्व्वुधः स्वाहा ओँ बृहस्पतेपरिदीया रथेन रक्षोहा मित्रां अपबाधमानःप्रभञ्जत्सेना प्रमृणो युधा यजन्नस्माकमेध्यवितारथानां स्वाहा ओँ शुक्रन्तेऽन्यद्यजन्ते अन्य-द्बिषुरूपे अहनी द्यौरिवासि विश्वा हि मायाअवसि स्वधावन् भद्राते पूषन्निह रातिरस्तुस्वाहा ओँ शन्नो देवीरभीष्टये शन्नो भवन्तुपीतये शंयोरभिस्रवन्तु नः स्वाहा ओँ कयान-श्चित्र आभुव दूती सदा वृधः सखा कयासचिष्ठया वृता स्वाहा ओँ केतुं कृन्नन्नकेतवेपेशो मर्य्या अपेशसे समुसद्भिरजायथाः स्वाहा ।यजुर्व्वेदी तु ओँ आकृष्णेनेत्यादि इदं सूर्य्याय ।ओँ इमं देवा असपत्नँ सुबद्धं महते क्षत्त्रायमहते ज्यैष्ठाय इमममुममुष्य पुत्त्रममुष्याःपुत्त्रमस्यै विशे स्वाहा इदं सोमाय ओँअग्निर्मूद्धा दिवः ककुत्पतिः पृथिव्या अयंअपाꣳ रेताꣳसि जिन्नति स्वाहा इदं मङ्ग-लाय ओँ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमि-ष्टापूर्त्ते सꣳसृजेथामयञ्च अस्मिन् सधस्थेअध्युत्तरस्मिन् विश्वेदेवा यजमानश्च सीदतस्वाहा इदं बुधाय ओँ बृहस्पते अति यदर्य्योअर्हाद्युमद्विभाति क्रतुमज्जनेषु यद्दीदषच्छरसऋत प्रजात तदस्मामु द्रविणं धेहि चित्रꣳस्वाहा इदं बृहस्पतये ओँ अन्नात् परिश्रुतोरसं ब्रह्मणा व्यपिबत् क्षत्त्रं पयःसोमं प्रजा-पतिः ऋतेन सत्यमिन्द्रियं विपानꣳ शुक्र-मन्धसः इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधुस्वाहा इदं शुक्राय ओँ शन्नो देवीरभीष्ठयेआपो भवन्तु पीतये शंयोरभिस्रवन्तु नः स्वाहा ।इदं शनैश्चराय ओँ काण्डात् काण्डात् प्ररो-हन्ती परुषः परुषः परि एवानो दूर्व्वे प्रतनुसहस्रेण शतेन स्वाहा इदं राहवे ओँकेतुं कृन्नन्नकेतवे पेषो मर्य्या अपेशसे समुसद्भि-रजायथाः स्वाहा इदं केतुभ्यः ऋग्वेदी तुएभिरेव मन्त्रैर्जुहुयात्
*
ततो मेक्षणमग्नौप्रक्षिपेत् एवं चरुहोमं समाप्य चरुशेषेणदिग्भ्यो बलिन्दद्यात् तद्यथा एष पायस-वलिः ओँ प्राच्यै दिशे नमः एवमाग्नेय्यै अवाच्यैनिरृत्यै प्रतीच्यै वायव्यै उदीच्यै ऐशान्यै ऊर्द्ध्व-दिशे अधोदिशे
*
ततो घृताक्तपलाश-समिधा अष्टोत्तरशतं जुहुयादनेन मन्त्रेण ओँतद्विष्णोरित्यादि स्वाहा इदं विष्णवे ततःपूर्व्वोक्तैश्चरुहोममन्त्रैस्तत्तद्देवताभ्यः स्रुवेणा-ज्याहुतीर्जुहुयात् तत आज्येन पुरुषसूक्त-नवभिर्म्मन्त्रैः सामगो जुहुयात् यथा ओँइदं विष्णुर्विचक्रमे त्रेधा निदधे पदं मूढमस्यपांशुले स्वाहा ओँ प्रक्षस्य विष्णो अरु-षस्य नूसहः प्रणवोचं विदथा जातवेदसःवैश्वानराय मतिर्नव्यसि शुचिः सोम इव पवतेचारुरग्नये स्वाहा ओँ प्रकाव्यमुषणेवब्रुवाणो देवो देवानां जनिमा विवक्ति महिव्रतःशुचिबन्धुः पावकः पदा वराहो त्येति रेतन्स्वाहा ओँ सहस्रशीर्षा पुरुषः सहस्राक्षःसहस्रपात् भूमिं सर्व्वतो वृत्वा अत्यतिष्ठ-द्दशाङ्गुलं स्वाहा ओँ त्रिपादूर्द्ध्वमुदेत्पुरुषः पादोऽस्येहाभवत् पुनः ततो विश्वंव्यक्रामत् शासनानशने अभि स्वाहा ।ओँ पुरुष एवेदं सर्व्वं यद्भूतं यच्च भव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति स्वाहा ।ओँ एतावानस्य महिमातो ज्यायांश्च पुरुषःपादोऽस्य विश्वा भूतानि त्रिपादस्यामृतंदिवि स्वाहा ओँ ततो विराडजायतविराजो अधिपूरुषः जातो अत्यरिच्यतपश्चाद्भूमिमथो पुरः स्वाहा ओँ कयान-श्चित्र आभुवदूती सदा वृधः सखा कया सचिष्ठया वृता स्वाहा * यजुर्व्वेदी तु ।षोडशोपचारपूजोक्तपुरुषसूक्तषोडशमन्त्रैरा-ज्येन षोडशाहुतीर्जुहुयात् ऋग्वेदिनाम-प्येवम्
*
तत आज्यमिश्रितान् तिलान्गृहीत्वा ओँ इरावती धेनुमती हि भूतं सूयव-सिनी मन वेदशस्या व्यस्तभ्ना रोदसी विष्णु-रेतेराधत्त पृथिवीमभितो मयूखैः स्वाहा इदंविष्णवे इति सकृत् जुहुयात् ओँ ब्रह्मानु-यायिभ्यः स्वाहा ओँ विष्ण्वनुयायिभ्यः स्वाहा ।ओँ ईशानानुयायिभ्यः स्वाहा एवं पूर्व्वोक्तै-र्नवग्रहमन्त्रैर्दशदिक्पालमन्त्रैश्च सकृत् सकृत्जुहुयात् एवं पर्व्वतेभ्यः स्वाहा ओँ नदीभ्यःस्वाहा ओँ समुद्रेभ्यः स्वाहा एवं तिल-होमं समाप्य स्रुवेण महाव्याहृतिभिराज्यंजुहुयात् * ततः प्रायश्चित्तहोमसङ्कल्पंकृत्वा ओँ अग्ने त्वं विधुनामासीति नाम कृत्वाआवाह्य पूजयित्वा परिभाषासिद्धं स्वशाखोक्तंप्रायश्चित्तहोमादि कृत्वा पूर्णाहुत्यां मृडनामा-नमग्निं पूजयित्वा घृतपूर्णस्रुचा उत्थाय यज-मानेनान्वारब्धः ओँ तद्विष्णोः परममित्यादिवौषट् इत्युच्चार्य्य पूर्णाहुतित्रयं दद्यात् ततआचारात् ऐशान्यां पृथ्वि त्वं शीतला भवइत्युच्चार्य्य दुग्धादि क्षिप्त्वा स्रुवलग्नभस्मना ओँकश्यपस्य त्र्यायुषं इति शिरसि ओँ यमदग्नेस्त्र्यायुषं कण्ठे ओँ यद्देवानां त्र्यायुषं बाहु-मूलयोः ओँ तन्मेऽस्तु त्र्यायुषं हृदि अन्य-कर्त्तृकपक्षे तु तत्तेऽस्तु त्र्यायुषमिति विशेषः ।ततो यजमानः पञ्चगव्यं चरुशेषञ्च प्राश्य घ्रात्वावा पूर्णपात्रादिकां दक्षिणां ब्रह्मणे दद्यात् ततोहेमयुक्तं सवस्त्रतिलपात्रं अलङ्कृतगवीं तन्मूल्यंवा एतद्धोमकर्म्मप्रतिष्ठार्थमाचार्य्याय दद्यात् ।अन्यहोतृपक्षे होत्रे दद्यात् एतत्कृतकर्म्मणाप्रीयतां भगवान् विष्णुरिति विष्णवे समर्पयेत् * ।ततः प्रासादसम्मुखे ओँ उत्तिष्ठ ब्रह्मणस्पते देवायजन्तस्ते महे उपप्रयान्तु मरुतः सुदानव इन्द्रःप्राशुर्भवासचा इतिमन्त्रेण देवतामानीय विष्णु-गृहस्य सम्मुखे गरुडं शिवगृहस्य वृषं दुर्गा-गृहस्य सिंहं स्थापयेत् ततो गन्धमाल्यवस्त्रादिना स्थपतिं परितोष्य ओँ इदं विष्णुर्विचक्रमेइत्यादि पठित्वा ओँ चक्राय नम इति चक्रंसंपूज्य गृहोपरि यथायोग्यं चक्रादिकं विन्यस्यगृहं वस्त्रेणाच्छाद्य गृहद्वारानुरूपं तोरणंविधाय गृहानुरूपघण्टाचामरकिङ्किणीजाल-वर्हिपत्रोपेतं सवस्त्रयष्टिसमेतं ध्वजं गृहस्येशान-कोणे वायुकोणे वा स्थापयेत् * ततो विष्णुंशालग्रामादौ यथार्हं गृहसमीपे नीत्वा पञ्चविं-शतिघटैर्नारिकेलोदकैः पञ्चगव्यपञ्चामृतैस्तीर्थो-दकैः स्नानं कारयित्वा षोडशोपचारादिभिःपूजयेत् वक्ष्यमाणमन्त्राणां पौराणिकत्वेनशूद्राणामप्यधिकारः अत्रार्घ्यपात्राम्भसाप्रोक्षितं आसनं गृहीत्वा इदमासनं ओँ सर्व्वा-न्तर्यामिणे देव सर्व्वबीजमयं ततम् आत्मस्थायपरं शुद्धमासनं कल्पयाम्यहम्
ओँ विष्णवेनम इति मूलेन दद्यात् ततः कृताञ्जलिः ।“ओँ यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये ।तस्मै ते परमेशाय स्वागतं स्वागतञ्च मे
कृतार्थोऽनुगृहीतोऽस्मि सफलं जीवितं मम ।आगतो देवदेवेश ! सुस्वागतमिदं वपुः
”विष्णो स्वागतमिति स्वागतप्रश्नः ताम्र-पात्रस्थं श्यामाकदूर्व्वापद्मापराजितायुक्तजलंगृहीत्वा ।“ओँ यद्भक्तिलेशसम्पर्कात् परमानन्दसम्भवः ।तस्मै ते चरणाब्जाय पाद्यं शुद्धाय कल्पये
”इत्युच्चार्य्य मूलेन पादयोर्द्दद्यात् इदमासन-मितीव मन्त्रस्य पूर्व्वमेतत् पाद्यमिति प्रयोज्य-मेवमुत्तरत्र यथायोग्यमुल्लेखः गन्धपुष्पाक्षत-यवकुशाग्रतिलश्वेतसर्षपदूर्व्वात्मकं अर्घ्यं शङ्खस्थंगृहीत्वा ।“ओँ तापत्रयहरं दिव्यं परमानन्दलक्षणम् ।तापत्रयविनिर्मुक्तं तवार्घ्यं कल्पयाम्यहम्
”इति मूलेन शिरसि दद्यात् जातीलवङ्ग-कक्कोलयुक्तं केवलं वा जलं गृहीत्वा ।“ओँ देवानामपि देवाय देवानां देवतात्मने ।आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे
”इति मूलेन दद्यात् कांस्यस्थं दधिमधुघृता-त्मकं कांस्यपिहितं मधुपर्कं गृहीत्वा ।“ओँ सर्व्वकल्मषहीनाय परिपूर्णसुखात्मने ।मधुपर्कमिमं देव कल्पयामि प्रसीद मे
”इति मूलेन दद्यात् पुनराचमनीयं गृहीत्वा ।“ओँ उच्छिष्टोऽप्यशुचिर्वापि यस्य स्मरणमात्रतः ।शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकम्
”इति मूलेन दद्यात् लौकिकषष्ट्यधिकशत-त्रयतोलकान्यूनं तीर्थजलं गृहीत्वा ।“ओँ परमानन्दबोधाब्धिनिमग्ननिजमूर्त्तये ।साङ्गोपाङ्गमिदं स्नानं कल्पयाम्यहमीश ते
”ओँ तद्विष्णोरिति मूलेन दद्यात् पूर्व्वरीत्यापुनराचमनीयञ्च दद्यात् अर्घ्याम्भसा प्रोक्षितंवस्त्रं गृहीत्वा ।“ओँ मायाचित्रपटच्छन्ननिजगुह्योरुतेजसे ।निरावरणविज्ञाय वासस्ते कल्पयाम्यहम्
”इति मूलेन दद्यात् उत्तरीयवस्त्रं गृहीत्वा ।“ओँ यमाश्रित्य महामाया जगत्संमोहिनीसदा ।तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम्
”इति मूलेन दद्यात् ततः पूर्व्ववत् पुनराच-मनीयञ्च दद्यात् सुवर्णाद्याभरणमर्ध्याम्भसाप्रोक्ष्य ।“ओँ स्वभावसुन्दराङ्गाय नानाशक्त्याश्रयाय ते ।भूषणानि विचित्राणि कल्पयाम्यमरार्च्चित
”इति मूलेन दद्यात् १० प्रोक्षितं गन्धं गृहीत्वा ।“ओँ परमानन्दसौरभ्यपरिपूर्णदिगन्तर ।गृहाण परमं गन्धं कृपया परमेश्वर
”इति मूलेन दद्यात् ११ तत्तद्देवताप्रियपुष्प-मादाय ।“ओँ तुरीयवनसम्भूतं नानागुणमनोहरम् ।आनन्दसौरभं पुष्पं गृह्यतां परमेश्वर
”इति मूलेन दद्यात् १२ धूपं प्रोक्ष्य घण्टांसंपूज्य ।“ओँ वनस्पतिरसो दिव्यो गन्धाढ्यः सुमनोहरः ।आघ्रेयः सर्व्वदेवानां धूपोऽयं प्रतिगृह्यताम्
”इत्युञ्चार्य्य वामहस्तेन घण्टां वादयन् मूलेनदद्यात् १३ ततो घृतादिप्रदीपमादाय ।“ओँ सुप्रकाशो महादीपः सर्व्वतस्तिमिरापहः ।सवाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम्
”इति मूलेन दद्यात् १४ प्रोक्षितनानाविध-नैवेद्योपरि मत्स्यमुद्रया मूलं दशधा जप्त्वा-भ्यर्च्च्य धेनुमुद्रयामृतीकृत्य ।“ओँ सत्पात्रसिद्धं सुहविर्विविधानेकभक्षणम् ।निवेदयामि देवेश सानुगाय गृहाण तत्
”इति मूलेन दद्यात् १५ जलमादाय ।“ओँ समस्तदेवदेवेश सर्व्वतृप्तिकरं परम् ।अखण्डानन्दसम्पूर्ण गृहाण जलमुत्तमम्
”इति मूलेन दद्यात् १५ पूर्व्ववत् पुनराच-मनीयञ्च ताम्बूलं गृहीत्वा ।“ओँ ताम्बूलं देवदेवेश कर्पूरादिसुवासितम् ।कल्पयामि तवेशान वदनाम्भोजभूषणम्
”इति मूलेन दद्यात् १५ ततस्तत्तद्देवतानम-स्कारमन्त्रैर्बन्दनं कुर्य्यात् १६ उपचारद्रव्या-धारदाने साधारत्वेनोल्लेखः पृथग्वा तद्दानम् * ।तत ओँ विष्णवे नमः इति त्रिः संपूज्य घण्टा-वितानतोरणयुक्तं वस्त्रादिच्छादितं वेश्म प्रोक्ष्यओँ विष्णवे नमः इति त्रिः संपूज्य ओँ तद्विष्णो-रित्यनेन विष्णुं स्मृत्वा ओँ तत् सदित्युच्चार्य्यवामहस्तेन धृत्वा कुशतिलजलान्यादाय अद्ये-त्यादि अमुकगोत्रः श्रीअमुकदेवशर्म्मा एतत्तृण-काष्ठादिमयवेश्मपरमाणुसमसंख्यवर्षसहस्राव-च्छिन्नस्वर्गलोकमहितत्वकामः श्रीविष्णुप्रीति-कामो वा एतत्तृणकाष्ठादिमयवेश्म विष्णुदैवतंविष्णवे तुभ्यमहं सम्प्रददे इत्युत्सृजेत् इष्ट-कादिमये तु एतदिष्टकादिमयवेश्मपरमाणुसम-संख्यवर्षसहस्रदशगुणकालावच्छिन्नस्वर्गलोक-महितत्वकाम एतदिष्टकादीतिविशेषः एतत्-प्रतिष्ठार्थं सुवर्णं तन्मूल्यं वा दक्षिणां विष्णवेदद्यात् पश्चादाचार्य्यादौ प्रतिपत्तिः * ।ततो देवं स्वयं गृहीत्वा गृहप्रदक्षिणं कारयित्वाओँ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्ये-माक्षिभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनुभिर्व्य-सेम देवहितं यदायुः इत्यनेनाभिमन्त्रितं देवंगृहं प्रवेशयेत् ओँ देवस्य त्वा सवितुः प्रसवे-ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तमाददेइति मन्त्रेण पिण्डिकोपरि न्यसेत् ओँ स्थिरोभव वीड्डङ्ग आशुर्भव वाह्यर्व्वन् पृथुर्भव सुसदस्त्व-मग्ने पुरीषवाहनः इत्यनेन स्थिरीकुर्य्यात् ।पुनर्देवं संपूज्य यथाशक्ति चामरघण्टावितान-गोहिरण्यग्रामवाद्यभाण्डादिकं दद्यात् ततओँ यावद्धराधरो देवो यावत्तिष्ठति मेदिनी ।तावदत्र जगन्नाथ सन्निधीभव केशव
इतिमन्त्रं पठेत् ततो ध्वजसमीपं गत्वा संप्रोक्ष्यतमारोपयेदनेन मन्त्रेण ओँ एह्येहि भगवन्नी-श्वरविनिर्म्मित उपरिचरवायुमार्गानुसारिन्श्रीकर श्रीनिवास रिपुध्वंसकर सुजनाधिलयसर्व्वदेवतासम्मत कुरु शान्तिं स्वस्त्ययनञ्च मेभवतु सर्व्वविघ्नान् हर हर स्वाहा ओँ ध्वजायनम इति ध्वजं संपूज्य ओँ विष्णवे नम इतित्रिरभ्यर्च्च्य ध्वजं संप्रोक्ष्य वामहस्तेन स्पृष्ट्वाअद्येत्यादि अमुकगोत्रः श्रीअमुकदेवशर्म्मामहापातकादिबहुपापक्षयकामो विष्णुप्रीति-कामो वा विष्णुवेश्मनि इमं ध्वजं विष्णुदैवतंविष्णवे तुभ्यमहं सम्प्रददे इत्युत्सृज्य एतत्-प्रतिष्ठार्थं दक्षिणां विष्णवे दद्यात् पश्चादा-चार्य्यादौ प्रतिपत्तिः ततो गरुडस्तम्भं समा-रोप्य ओँ सुपर्णोऽसि गरुत्मांस्त्रिवृत्ते शिरोगायत्त्र्यं चक्षुर्बृहद्रथन्तरे पक्षौ स्तोम आत्माछन्दांस्यङ्गानि यजूंषि नाम सामते तनुर्वाम-देव्यं यज्ञायज्ञियं पुच्छं धिष्ट्याश्च शफाः सुप-र्णोऽसि गरुत्मान्दिवं गच्छ स्वःपते
यजु-र्वेदी तु ओँ सुपर्णोऽसि गरुत्मान् त्रिवृत्तेशिरो गायत्त्रं चक्षुस्तोम आत्मा साम ते तनू-र्वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छंछन्दांस्यङ्गानि धिष्णियाः शफाः यजूꣳषि नाम ।सुपर्णोऽसि गरुत्मान्दिवं गच्छ सुरः पत इतिपठित्वा ओँ गरुडाय नम इति त्रिःसंपूज्यओँ नमस्ते पतगश्रेष्ठ पन्नगान्तकर प्रभो त्वत्-प्रसादान्महाबाहो मोदेयं दिवि देववत्
यथा त्वं संपुटकरः सततं नतकन्धरः तथैवपुरतो विष्णोस्त्वत्प्रसादाद्भवाम्यहम्
इतिपुटाञ्जलिः प्रार्थयेत्
*
ततः पिष्टप्रदीपा-दिना निर्म्मञ्छनं कुर्य्यात् ततो विंशान्यून-ब्राह्मणेभ्यो भोज्यानि दद्यात् दीनानाथकृपण-वधिरेभ्यो यथाशक्ति दद्यात् ततः प्रीयतांपुण्डरीकाक्षसर्व्वयज्ञेश्वरो हरिः तस्मिंस्तुष्टेजगत्तुष्टं प्रीणिते प्रीणितं जगत्
ततो नृत्य-गीतवादित्रनिस्वनर्महोत्सवं कृत्वा अच्छिद्रा-वधारणं कृत्वा वैगुण्यसमाधानार्थं तद्विष्णो-रिति विष्णुं स्मरेत् * एवं रुद्रादिमठादि-प्रतिष्ठायां आसनादिकन्तु तत्तन्मन्त्रं विहायकेवलं प्रणवादिनमोऽन्तेन तत्तन्नाम्ना दत्त्वायथायोग्यं तत्तत्कर्म्मशेषं समापयेत् * एवंगोपथादि प्रतिष्ठायां तत्समीपे वेदिकां कृत्वातत्तत्फलकामो विष्णुप्रीतिकामो वा तत्तत्-प्रतिष्ठां करिष्ये इति सङ्कल्प्य वृद्धिश्राद्धादिकंविधाय प्रागुक्तविधिनाग्निस्थापनादि एतत्-कर्म्मणा प्रीयतां भगवान् विष्णुरित्यन्तं कर्म्मकृत्वा कूपादिवत् सर्व्वभूतेभ्य उत्सृज्य दक्षिणांदद्यात् * नियमव्रतादिप्रतिष्ठायान्तु विष्णु-रित्यन्तं कर्म्म कृत्वा व्रतानुष्ठानं कृत्वा दक्षिणा-दिकं कुर्य्यात् * ततो घटस्थजलेन यजमान-मभिषिञ्चेत् तद्यथा, --“ओँ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ।प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते
आखण्डलोऽग्निर्भगवान् यमो वै नैरृ तस्तथा ।वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा
कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्षमा मतिः ।बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः पुष्टिश्च मातरः ।एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ।ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः
देवदानवगन्धर्व्वा यक्षराक्षसपन्नगाः ।ऋषयो मुनयो गावो देवमातर एव
देवपत्न्योऽध्वरा नागा दैत्याश्चाप्सरसा गणाः ।अस्त्राणि सर्व्वशास्त्राणि राजानो वाहनानि
औषधानि विचित्राणि कालस्यावयवाश्च ये ।सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।एतास्त्वामभिषिञ्चन्तु धर्म्मकामार्थसिद्धये
*
इति मठादिप्रतिष्ठाप्रयोगतत्त्वं समाप्तम्
(पक्वखाद्यवस्तुविशेषः अस्य पाकप्रकारो यथा, “समिता मर्द्दयेदन्यजलेनापि सन्नयेत् ।तस्यास्तु वटिकां कृत्वा पचेत सर्पिषि नीरसम्
एला लवङ्गकर्पूरमरीचाद्यैरलङ्कृते ।मज्जयित्वा सितापाके ततस्तञ्च समुद्धरेत्
अयम्प्रकारः संसिद्धो मठ इत्यभिधीयते
”[सन्नयेन्मर्द्दयेत्] तथास्य गुणाः
“मठस्तु बृंहणो वृष्यो बल्यः सुमधुरो गुरुः ।पित्तानिलहरो रुच्यो दीप्ताग्नीनां सुपूजितः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)