| YouTube Channel

मचि (maci)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मञ्च्
मूलधातुः:
मचि
धात्वर्थः:
धारण-उच्छ्राय-पूजनेषु
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
मञ्चते
धातुः:
मुञ्च्
मूलधातुः:
मचि
धात्वर्थः:
कल्कने (शाठ्यं दम्भश्च)
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
मुञ्चते
धातुप्रदीपः
Sanskrit
मचिँ मचि धारण, उच्छ्राय, पूजनेषु
- मञ्चते मञ्चः ।। 170 ।।
क्षीरतरङ्गिणी
Sanskrit
मचिँ मचि धारण, उच्छ्राय, पूजनेषु
मञ्चते मञ्चः उणादौ मञ्चुका खट्विका मञ्चिकेति सभ्याः 172
धातुवृत्तिः
Sanskrit
मचिँ मचि (अर्थः) धारण, उच्छ्राय, पूजनेषु
( मञ्चते ) इत्त्यादि ( मञ्चः ) पचाद्यच् शाकटायनस्तु मुचिं हित्वा द्वावेव धातू पपाठ सचि कल्कने मञ्चु धारणोच्छ्रायपूजनेष्विति तेन चानुदात्तेत्स्थाने इड्विक्रियते तस्य स्थाने बोदित्, धनपालस्तावत् शाकटायनानुसारी 171
कृदन्तरूपमाला
Sanskrit
1 {@“मचि धारणोच्छ्रायपूजनेषु”@} 2 3 केचित्तु धातुममुं पठन्ति।
शाकटायन-धनपालादयस्तु भङ्ग्यन्तरेणामुं पठन्ति।
तद् यथा-- ‘मचुङ्--’ इति शाकटायनः।
तस्य शास्त्रे उदिता- मेव धातूनां नुमागमः ‘उदितः’ 4 इत्यनेन प्रतिपादितः।
डित्त्वादात्मनेपदम्।]] मञ्चकः-ञ्चिका, मञ्चकः-ञ्चिका, मिमञ्चिषकः-षिका, मामञ्चकः-ञ्चिका, इत्या- दीनि सर्वाणि रूपाणि भौवादिककञ्चतिवत् 5 बोध्यानि।
पचाद्यचि मञ्चः, क्तप्रत्यये- 6 मञ्चितः, 7 मञ्चिका, इतीमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२०४)
02
=>
(१-भ्वादिः-१७३। अक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(शा। सू। (४-२-१९७)
05
=>
(१४५)
06
=>
[[आ। ‘अमुञ्चनैर्मञ्चितचित्तपञ्चितत्रयीमतप्रस्तुचितैः शुभार्जकैः।’ धा। का। १। २४।]]
07
=>
[[१। पचाद्यजन्तात् स्वार्थे कन्प्रत्यये रूपमेवम्। मञ्चिका = खट्वा।]]