| YouTube Channel

मच (maca)

 
Wilson
English
मच also (इ) मचि r. 1st cl. (मचते मञ्चते)
1 To be vain or proud.
2 To be wicked.
3 To speak.
4 To pound or grind. मचि r. 1st cl. (मञ्चते)
1 To hold or have.
2 To be high or tall.
3 To revere, to adore, to worship.
4 To shine.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मच्
मूलधातुः:
मच
धात्वर्थः:
दम्भे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
मचते
धातुप्रदीपः
Sanskrit
मचँ मच
मानकरूपान्तरम् - मुचिँ
मुचि कल्कने
-
कल्कनं दम्भः शाठ्यञ्च
मचते मेचे मुञ्चते मुमुञ्चे मुञ्च्यते ।। 168, 169 ।।
शब्दकल्पद्रुमः
Sanskrit
मच, उच्छ्रायधृत्यर्च्चाभाःसु इति कवि-कल्पद्रुमः
(भ्वा०-आत्म०-धृतौ अर्च्चायाञ्चसक०-दीप्तौ उच्चीभावे अक०-सेट् ।) इमञ्च्यते मञ्चते उच्छ्राय उच्चीभावः ।इति दुर्गादासः
मच, कल्कने दम्भे शाठ्ये इति कवि-कल्पद्रुमः
(भ्वा०-आत्म०-दम्भे शाठ्ये ।अक०-कल्कने-सक०-सेट् ।) कल्कनमिति कल्कंकरोतीति ञौ रूपं चूर्णीकरणमित्यर्थः ङमचते तण्डुलं शिला चकारात् मचि इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
मच दम्भे शाठ्ये अक०
भ्वा०
आ० सेट् मचते अमचिष्ट मेचे
मच उच्चताकरणे धारणे पूजायां
सक०
दीप्तौ अक०
भ्वा०
आत्म० सेट् इदित् मञ्चते अमञ्चिष्ट मञ्च्यते
क्षीरतरङ्गिणी
Sanskrit
मचँ मच
मानकरूपान्तरम् - मुचिँ
मुचि कल्कने
(अर्थविवरणम्) कल्कनं दम्भः क्वथनञ्च
मचते मुचेति चन्द्रः (तु0च0धा01359) मोचते मुञ्चते, मुञ्च्यते तुदादौ मुच्लृ मोक्षणे (6139) मुञ्चति, मुच्यते 170, 171
धातुवृत्तिः
Sanskrit
मचँ मच
मानकरूपान्तरम् - मुचिँ
मुचि (अर्थः) कल्कने
(अर्थविवरणम्) कल्कनं दम्भः शाठ्यं चेति मैत्रेयः
दम्भभः कत्थनं चेति स्वामी मचते मेचे मचिता मुञ्चते मुमुञ्च मुञ्चितेत्यादि ) मुचेति चन्द्रः तन्मते मोचत इति मुच्लृ मोक्षणहति तुदादौ मुच प्रमोचन इति चुरादौ 170
कृदन्तरूपमाला
Sanskrit
1 {@“मच कल्कने”@} 2 ‘कल्कनम् = दम्भः शाठ्यं चेति मैत्रेयः’ इति मा।
धा।
वृत्तिः।
‘-- कत्थनं च’ इति स्वामी।
‘-- क्वथनं च’ इति पुरुषकारः 3।
‘-- कथनम् इत्यन्ये’ इति सि।
कौमुदी।
‘लोकरञ्जनार्थं साध्वाचारो दम्भः।’ इति धा।
का।
4।
माचकः-चिका, माचकः-चिका, मिमचिषकः-षिका, मामचकः-चिका
मचिता-त्री, माचयिता-त्री, मिमचिषिता-त्री, मामचिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककचतिवत् 5 ज्ञेयानि।
लयुटि- 6 मचनम् इति।
7
प्रासङ्गिक्यः
01
=>
(१२०३)
02
=>
(१-भ्वादिः-१७१। सक। सेट्। आत्म।)
03
=>
(श्लो। ४७)
04
=>
(१। २३)
05
=>
(१४४)
06
=>
[[ड्। ‘सकञ्चुकाः काञ्चनकाञ्चिभूषिता व्रजाङ्गना निर्मचनेन नर्मणा।।’ धा। का। १। २३।]]
07
=>
[पृष्ठम्०९९०+ २५]