| YouTube Channel

मङ्गलनीराजनं (maGgalanIrAjanaM)

 
शब्दकल्पद्रुमः
Sanskrit
मङ्गलनीराजनं,
क्ली,
(मङ्गलं मङ्गलकरं मङ्ग-लाय वा नीराजनम् ।) ब्राह्ममुहूर्त्तकर्त्तव्यभगवदारात्रिकम् मङ्गल आरती इतिभाषा
यथा, --“पठित्वाथ प्रियान् श्लोकान् महावादित्र-निःस्वनैः ।प्रभोर्नीराजनं कुर्य्यान्मङ्गलाख्यं जगद्धितम्
नीराजनन्त्विदं सर्व्वैः कर्त्तव्यं शुचिविग्रहैः ।परमश्रद्धयोत्थाय द्रष्टव्यञ्च सदा नरैः
स्त्रीणां पुंसाञ्च सर्व्वेषामेतत् सर्व्वेष्टपूरकम् ।समस्तदैन्यदारिद्र्यदुरिताद्युपशान्तिकृत्
”इति श्रीहरिभक्तिविलासे विलासः