मङ्गलचण्डी (maGgalacaNDI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritमङ्गलचण्डी, (मङ्गला चासौ चण्डी चेतियद्वा, देषानां मुन्यादिभक्तानां मङ्गलाय दुर्जया-सुरादिमारणे चण्डी अत्यन्तकोपना । मङ्गले-चण्डी दक्षेति वा । अथवा सृष्टौ मङ्गलाप्रलये चण्डी । भागवतेऽस्या नामनिरुक्ति-र्यथा, --“सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी ।तेन मङ्गलचण्डी सा पण्डितैः परिकीर्त्तिता ॥
”)दुर्गा । यथा, --नारायण उवाच ।“कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्त्र ! यथागमम् ।देवी मङ्गलचण्डी या तदाख्यानं निशामय ॥
तस्याः पूजादिकं सर्व्वं धर्म्मवक्त्वेण यच्छ्रुतम् ।श्रुतिसम्मतमेवेष्टं सर्व्वेषां विदुषामपि ॥
दक्षायां वर्त्तते चण्डी कल्याणेषु च मङ्गलम् ।मङ्गलेषु च या दक्षा सा च मङ्गलचण्डिका ॥
पूज्यायां वर्त्तते चण्डी मङ्गलेऽपि महीसुतः ।मङ्गलाभीष्टदेवी या सा वा मङ्गलचण्डिका ॥
मङ्गलो मनुवंशश्च सप्तद्वीपधरापतिः ।तस्य पूज्याभीष्टदेषी तेन मङ्गलचण्डिका ॥
मूर्त्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी ।कृपारूपातिप्रत्यक्षा योषितामिष्टदेवता ॥
प्रथमे पूजिता सा च शङ्करेण पुरः पुरा ।त्रिपुरस्य वधे घोरे विष्णुना प्रेरितेन च ॥
ब्रह्मन् ! ब्रह्मोपदेशेन दुर्गप्रस्थेन सङ्कटे ।आकाशात् पतिते याने दैत्येन पातिते रुषा ॥
ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्करः ।सा च मङ्गलचण्डी च बभूव रूपभेदतः ॥
उवाच पुरतः शम्भोर्भयं नास्तीति ते विभो ! ।भगवान् वृषरूपश्च सर्व्वेशश्च बभूव ह ॥
युद्धशक्तिस्वरूपाहं भविष्यामि तदाज्ञया ।मयामुना च हरिणा सहायेन वृषध्वज ! ॥
जहि दैत्यञ्च शत्रुञ्च सुराणां पदघातकम् ।इत्युक्त्वान्तर्हिता देवी शम्भोः शक्तिर्बभूव सा ॥
विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः ।मुनीन्द्र ! पतिते दैत्ये सर्व्वे देवा महर्षयः ॥
तुष्टुवुः शङ्करं देवं भक्तिनम्रात्मकन्धराः ।सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव च ।ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् ॥
ब्रह्मविष्णूपदिष्टश्च सुस्रातः शङ्करः शुचिः ।पूजयामास तां शक्तिं देवीं मङ्गलचण्डिकाम् ॥
पाद्यार्घ्याचमनीयैश्च बलिभिर्विविधैरपि ।पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने ! ॥
छागैर्मेषैश्च महिषैर्गण्डैमायातिभिस्तथा ।वस्त्रालङ्कारमाल्यैश्च पायसैः पिष्टकैरपि ॥
मधुभिश्च सुधाभिश्च पक्वैर्नानाविधैः फलैः ।संगीतैर्नर्त्तनैर्वाद्यैरुत्सवैः कृष्णकीर्त्तनैः ॥
ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन भक्तिपूर्व्वकम् ।ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद ! ॥
ओँ ह्रीं श्रीं क्लीं सर्व्वपूज्ये देवि मङ्गलचण्डिके ।हुं हुं फट् स्वाहेत्येवञ्चाप्यैकविंशाक्षरो मनुः ॥
पूज्यः कल्पतरुश्चैव भक्तानां सर्व्वकामदः ।दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ।मन्त्रसिद्धिर्भवेद्यस्य स विष्णुः सर्व्वकामदः ॥
ध्यानञ्च श्रूयतां ब्रह्मन् ! वेदोक्तं सर्व्वसम्मतम् ॥
देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ।सर्व्वरूपगुणाढ्याञ्च कोमलाङ्गीं मनोहराम् ॥
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् ।वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥
बिभ्रतीं कवरीभारं मल्लिकामाल्यभूषितम् ।विम्बोष्ठीं सुदतीं शुद्धां शश्वत्पद्मनिभाननाम् ॥
ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम् ।जगद्धात्रीञ्च दात्रीञ्च सर्व्वेभ्यः सर्व्वसम्पदाम् ।संसारसागरे घोरे पोतरूपां वरां भजे ॥
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ! ।प्रयातः सङ्कटग्रस्तो येन तुष्टाव शङ्करः ॥
श्रीशङ्कर उवाच ।रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके ! ।हारिके विपदां राशिं हर्षमङ्गलदायिके ! ॥
हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके ! ।शुभे मङ्गलदक्षे च शुभे मङ्गलचण्डिके ! ॥
मङ्गले मङ्गलार्थे च सर्व्वमङ्गलमङ्गले ! ।सतां मङ्गलदे देवि ! सर्व्वेषां मङ्गलालये ! ॥
पूज्ये ! मङ्गलवारे च मङ्गलाभीष्टदेवते ! ।पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् ॥
मङ्गलाधिष्ठातृदेवि ! मङ्गलानाञ्च मङ्गले ! ।संसारमङ्गलाधारे मोक्षमङ्गलदायिनि ! ॥
सारे च मङ्गलाधारे पारे च सर्व्वकर्म्मणाम् ।प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे ! ॥
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् ।प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः ॥
देव्याश्च मङ्गलं स्तोत्रं यः शृणोति समाहितः ।तन्मङ्गलं भवेत् शश्वन्न भवेत्तदमङ्गलम् ॥
प्रथमे पूजिता देवी शिवेन सर्व्वमङ्गला ।द्वितीये पूजिता देवी मङ्गलेन ग्रहेण च ॥
तृतीये पूजिता भद्रा मङ्गलेन नृपेण च ।चतुर्थे मङ्गले वारे सुन्दरीभिश्च पूजिता ॥
मङ्गले मङ्गलाकाङ्क्षैर्नरैर्मङ्गलचण्डिका ।पूजिता प्रतिविश्वेषु विश्वेशपूजिता सदा ॥
ततः सर्व्वत्र संपूज्या सा बभूव सुरेश्वरी ।देवादिभिश्च मुनिभिर्मनुभिर्मानवैर्मुने ! ॥
वर्द्धते तत्पुत्त्रपौत्त्रो मङ्गलञ्च दिने दिने ॥
”इति ब्रह्मवैवर्त्ते महापुराणे प्रकृतिखण्डे नारा-यणनारदीये मङ्गलचण्डिकोपाख्यानं तत्स्तोत्र-कथनं नाम ४१ अध्यायः ॥
वाचस्पत्यम्
Sanskritमङ्गलचण्डी स्त्री मङ्गले चण्डी दक्षा । १ देवीभेदे स्वार्थे क ।मङ्गलचण्डिकाव्यत्र तन्नामनिरुक्तिः ब्रह्मवै० प्र० ४१ अ०उक्ता यथा “दक्षायां वर्त्तते चण्डी कस्याणेषु च मङ्ग-लम् । मङ्गलेषु च या दक्षा सा च मङ्गलचण्डिका ।पूज्यायां वर्त्तते चण्डी मङ्गलेऽपि महीसुतः । मङ्गला-भीष्टदेवी या सा वा मङ्गलचण्डिका । मङ्गलो भषु-वंशश्च सप्तद्वीपधरापतिः । तस्य पूज्याभीष्टदेवी तेनमङ्गलचण्डिका” ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
