मङ्गलं (maGgalaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritमङ्गलं, (मङ्गति हितार्थं सर्पति मङ्गतिदुरदृष्टमनेनास्माद्वेति । मगि + “मङ्गतेरलच् ।”उणा० ५ । ७० । इत्यलच् ।) अभिप्रेतार्थ-सिद्धिः । इति तिथ्यादितत्त्वम् ॥
तद्वति, त्रि ।इत्यमरः ॥
यथा, रामायणे । २ । २३ । ३० ।“मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव ॥
”तत्पर्य्यायः । भावुकम् २ भव्यम् ३ कल्याणम् ४भविकम् ५ शुभम् ६ । क्षेमम् ७ प्रशस्तम् ८भद्रम् ९ स्वश्रेयसम् १० शिवम् ११ अरिष्टम् १२कुशलम् १३ रिष्ठम् १४ मद्रम् १५ शस्तम् १६ ।इति शब्दरत्नावली ॥
(यथा, भागवते । ५ ।१४ । ३४ ।“मङ्गलाय च लोकानां क्षेमाय च भवाय च ।”“कल्याणं मङ्गलं क्षेमं शातं शर्म्म शिवं शुभम् ।इति वैद्यकरत्नमालायाम् ॥
शिखिहयगजगोधा रासभो भृङ्गराजोमुखरपिककपोतो पोतकी शूकरी वा ।तदनु विहगराजो मङ्गलाशंसिनः स्यु-र्वदति शकुनवेत्ता वामतो निर्गमे वः ॥
”इति हारीते द्वितीयस्थाने सप्तमेऽध्याये ।)सर्व्वार्थरक्षणम् । इति मेदिनी । ले, १२० ॥
* ॥
मङ्गललक्षणं यथा, --“प्रशस्ताचरणं नित्यमप्रशस्तविवर्ज्जनम् ।एतद्धि मङ्गलं प्रोक्तं ऋषिभिस्तत्त्वदर्शिभिः ॥
”इत्येकादशीतत्त्वम् ॥
* ॥
मङ्गलजनकद्रव्याणि । यथा, --“पूर्णकुम्भं द्विजं वेश्यां शुक्लधान्यञ्च दर्पणम् ।दध्याज्यं मधु लाजञ्च पुष्पं दूर्व्वाक्षतं सितम् ॥
वृषं गजेन्द्रं तुरगं ज्वलदग्निं सुवर्णकम् ।पर्णञ्च परिपक्वानि फलानि विविधानि च ॥
पतिपुत्त्रवतीं नारीं प्रदीपं मणिसुत्तमम् ।मुक्तां प्रसूनमालाञ्च सद्योमांसञ्च चन्दनम् ॥
ददर्शैतानि वस्तूनि मङ्गलानि पुरो मुने ! ।शृगालं नकुलं चासं शवं वामे शुभावहम् ॥
राजहंसं मयूरञ्च खञ्जनञ्च शुकं पिकम् ।पारावतं शङ्खचिल्लं चक्रवाकञ्च मङ्गलम् ॥
कृष्णसारञ्च सुरभीं चमरीं श्वेतचामरम् ।धेनुं वत्सप्रयुक्ताञ्च पताकां दक्षिणे शुभाम् ॥
नानाप्रकारवाद्यञ्च शुश्राव मङ्गलध्वनिम् ।हरिशब्दस्य सङ्गीतं घण्टाशङ्खध्वनिन्तथा ।दृष्ट्वा श्रुत्वा स जगाम हर्षेण तात ! मन्दिरम् ॥
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे कार्त्तिकागमनंनाम १६ अध्यायः ॥
* ॥
अपि च ।“ददर्श वर्त्मन्येवञ्च मङ्गलार्हं शुभप्रदम् ।वाञ्छाफलप्रदं रम्यं पुरो मङ्गलसूचकम् ॥
वामे शवं शिवां पूर्णकुम्भं नकुलमेव च ।पतिपुत्त्रवतीं साध्वीं दिव्याभरणभूषिताम् ॥
शुक्लपुष्पञ्च माल्यञ्च धान्यञ्च खञ्जनं शुभम् ।दक्षिणे ज्वलदग्निञ्च विप्रञ्च वृषभं गजम् ॥
वत्सप्रयुक्तां धेनुञ्च श्वेताश्वं राजहंसकम् ।वेश्याञ्च पुष्पमालाञ्च पताकां दधि पायसम् ॥
मणिं सुवर्णं रजतं मुक्तामाणिक्यमीप्सितम् ।सद्योमांसं चन्दनञ्च माध्वीकं घृतमुत्तमम् ॥
कृष्णसारं फलं लाजान् स्निग्धान्नं दर्पणन्तथा ।विचित्रितं विशालञ्च सुदीप्तां प्रतिमान्तथा ॥
क्षणं ददर्श देवं तं पञ्चवक्त्वं त्रिलोचनम् ।शुद्धस्फटिकसङ्काशं नागराजैर्विराजितम् ॥
शुक्लोत्पलं पद्मवनं शङ्खचिल्लञ्च कोरकम् ।मार्जारं पर्व्वतं मेघं मयूरशुकसारसम् ॥
शङ्खकोकिलवाद्यानां ध्वनिं शुश्राव मङ्गलम् ।विचित्रं कृष्णसङ्गीतं हरिशब्दं जयध्वनिम् ॥
एवंभूतं शुभं दृष्ट्वा श्रुत्वा प्रहृष्टमानसः ।प्रविवेश हरिं स्मृत्वा पुण्यं वृन्दावनं वनम् ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७० अध्यायः ॥
अन्यच्च ।“लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुता-शनः ।हिरण्यं सर्पिरादित्य अपो राजा तथाष्टमः ॥
एतानि शततं पश्येन्नमस्येदर्च्चयेत्ततः ।प्रदक्षिणन्तु कुर्व्वीत तथा चायुर्न हीयते ॥
दूर्व्वा दधि सर्पिरथोदकुम्भंधेनुं सवत्सां वृषभं सुवर्णम् ।मृद्गोमयं स्वस्तिकमक्षतानिलाजा मधु ब्राह्मणकन्यकाश्च ॥
श्वेतानि पुष्पाणि तथा शमीञ्चहुताशनं चन्दनमर्कविम्बम् ।अश्वत्थवृक्षञ्च समालभेतततश्च कुर्य्याद्द्विजजातिधर्म्मम् ॥
”इति मत्स्यसूक्तमहातन्त्रे ४३ पटलः ॥
वर्णभेदे मङ्गलप्रश्नभेदो यथा, --“ब्राह्मणान् कुशलं पृच्छेत् क्षत्त्रबन्धुमनामयम् ।वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु ॥
”इति कौर्म्मे उपविभागे ११ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
