| YouTube Channel

मघि (maghi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मङ्घ्
मूलधातुः:
मघि
धात्वर्थः:
गत्याक्षेपे, कैतवे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
मङ्घते
धातुः:
मङ्घ्
मूलधातुः:
मघि
धात्वर्थः:
मण्डने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
मङ्घति
धातुप्रदीपः
Sanskrit
मघिँ मघि कैतवे
- पूर्वमस्य पाठः कैतवार्थस्यान्वाचित्वद्योतनाय (30) ।।107-109 ।।
मघिँ मघि मण्डने
- मङ्घति 158
क्षीरतरङ्गिणी
Sanskrit
मघिँ मघि कैतवे
(अर्थविवरणम्) कैतवं व्याजः
मङ्घते श्वनुक्षन् (उ01159) इति मघवन् मघवा इन्द्रः 108
धातुवृत्तिः
Sanskrit
मघिँ मघि (अर्थः) मण्डने
( मङ्घति मङ्घते कन्या स्वयमेव अमङ्घिष्ट कन्या स्वयमेव, भृषाकर्मत्वाद् यक्चिणौ मङ्घनः "क्रुडमण्डार्थेभ्यश्च'' इति युच् 157
कृदन्तरूपमाला
Sanskrit
1 {@“मघि गत्याक्षेपे कैतवे च”@} 2 ‘गत्याक्षेपः = वेगगतिः, गमनारम्भो वा, कैतवम्-व्याजः’ इति क्षीरस्वामी।
‘आक्षेपो निन्दा, गतौ गमनारम्भे चेति स्वामी’ इति मा।
धा।
वृत्तिः।
मङ्घकः-ङ्घिका, मङ्घकः-ङ्घिका, मिमङ्घिषकः-षिका, मामङ्घकः-ङ्घिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककङ्कतिवत् 3 ज्ञेयानि।
ल्युटि- विमङ्घनम् 4 इति।
प्रासङ्गिक्यः
01
=>
(१२०१)
02
=>
(१-भ्वादिः-१११। अक। सेट्। आत्म।)
03
=>
(१४०)
04
=>
[[B। ‘प्रवङ्घमानस्य तस्य सत्वरं विमङ्घनस्याधिकराघितात्मनः।’ धा। का। १। १६।]]
1 {@“मघि मण्डने”@} 2 मङ्घकः-ङ्घिका, मङ्घकः-ङ्घिका, मिमङ्घिषकः-षिका, मामङ्घकः-ङ्घिका
मङ्घिता-त्री, मङ्घयिता-त्री, मिमङ्घिषिता-त्री, मामङ्घिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककङ्कतिवत् 3 ज्ञेयानि।
4 मङ्घनः, 5 सुम- ङ्घितः-तवान् इतीमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२०२)
02
=>
(१-भ्वादिः-१६०। अक। सेट्। उभ।)
03
=>
(१४०)
04
=>
[[२। ‘क्रुधमण्डार्थेभ्यश्च’ (३-२-१५१) इति ताच्छीलिको युच्प्रत्ययः।]]
05
=>
[[C। ‘सुमङ्घिताः शिङ्घितपुष्पसौरभा यद्वर्चमानाः पशुपाः प्रसेचिरे।।’ धा। का। १। २२।]]