| YouTube Channel

मघात्रयोदशी (maghAtrayodazI)

 
Spoken Sanskrit
English
मघात्रयोदशी maghAtrayodazI
f.
13th day in the dark half of the month bhAdra
Monier Williams Cologne
English
मघा—त्रयोदशी
f.
the 13th day in the dark half of the month Bhādra,
Col.
Apte Hindi
Hindi
मघात्रयोदशी
स्त्री*
मघा-त्रयोदशी -
भाद्रपद कृष्णा त्रयोदशी
Shabdartha Kaustubha
Kannada
मघात्रयोदशी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮಘಾ ನಕ್ಷತ್ರದಿಂದ ಕೂಡಿದ ತ್ರಯೋದಶಿ /ಭಾದ್ರಪದ ಮಾಸದ ತ್ರಯೋದಶಿ
L R Vaidya
English
maGA-trayodaSI {% f. %} the thirteenth day of the second half of Bhādrapada.
शब्दकल्पद्रुमः
Sanskrit
मघात्रयोदशी,
स्त्री,
(मघा दशमनक्षत्त्रम् मघा-युक्ता त्रयोदशी इति मध्यपदलोपी कर्म्म-धारयः ।) मघानक्षत्रयुक्तभाद्रकृष्णत्रयोदशी ।यथा प्रौष्ठपद्यूर्द्ध्वं कृष्णत्रयोदश्यां मघायुक्तायांअनिषिद्धयत्किञ्चिद्द्रव्येण श्राद्धमावश्यकम् ।शङ्खादिविधिवाक्येषु नक्षत्रविशिष्टश्रुतेः ततश्चकेबलत्रयोदशी केबलमघा श्राद्धार्थवादा अपिकऌप्तविशिष्टविधिप्राप्तकर्म्मणो नित्यत्वबोधकान तु केवलविध्यन्तरकल्पका गौरबात् तथा चशङ्खः ।“प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् ।प्राप्प श्राद्धं हि कर्त्तव्यं मधुना पायसेन
”मनुः ।“यत्किञ्चिन्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम् ।तदप्यक्षयमेव स्याद्बर्षासु मघासु
”विष्णुधर्म्मोत्तरे ।“प्रौष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी ।एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः
”शातातपः ।“पितरः स्पृहयन्त्यन्नमष्टकासु मघासु ।तस्माद्दद्यात् सदोद्युक्तो विद्वत्सु ब्राह्मणेषु
”अत्रान्नमात्रश्रुतेः मनुवचने यत्किञ्चित् श्रुतेश्चशङ्खोक्तपायसः फलातिशयार्थः गुणविशेषे फल-विशेषः स्यादिति न्यायात् व्यक्तं विष्णुधर्म्मोत्तरे ।“मघायुक्ता तत्रापि शस्ता राजंस्त्रयोदशी ।तत्राक्षयं भवेत् श्राद्धं मधुना पायसेन ।तत्र अश्बयुक्कृष्णपक्षे अत्र यत् श्राद्धं तन्मधु-योगेन वा अक्षयं भवेत् अतएव मनुवचनेयत्किञ्चिन्मधुना मिश्रमित्यनेन मधुमात्रयुक्तत्व-मुक्तम् अतोऽत्र सुतरां शूद्रस्याधिकारः
*
अत्र गजच्छायायोगे फलातिशयः तथा कृत्य-चिन्तामणौ स्मृतिः ।“कृष्णपक्षे त्रयोदश्यां मघास्विन्दुः करे रविः ।यदा तदा गजच्छाया श्राद्धे पुण्यैरवाप्यते
”करे हस्तानक्षत्रे कन्यादशमांशोपरि सपाद-त्रयोविंशांशः इति यावत्
*
अविभक्ता-नामप्यत्र पृथक् श्राद्धमावश्यकम् यथा, श्राद्धचिन्तामणौ स्मृतिः ।“विभक्ता अविभक्ता वा कुर्य्युः श्राद्धमदैविकम् ।मघासु ततोऽन्यत्र नाधिकारः पृथग्विना
”अदैविकं प्रत्याब्दिकैकोद्दिष्टम् अन्यत्र कृष्ण-पक्षादौ नाधिकारः नित्याधिकारः सपिण्डी-करणान्तानि यानि श्राद्धानि षोडश पृथङ्-नैव सुताः कुर्य्युः पृथग्द्रव्या अपि क्वचिदित्य-त्रापिना समुच्चितस्यापृथग्द्रव्यस्य पुंसः सपिण्डी-करणान्तानीति विशेषणात्तदुत्तरश्राद्धानांपृथक्त्वमपि प्रतीयते
*
मघात्रयोदशी-निमित्तके श्राद्धे पुत्त्रवता पिण्डा देयाः ।“भौजङ्गीं तिथिमासाद्य यावच्चन्द्रार्कसङ्गमम् ।तत्रापि महती पूजा कर्त्तव्या पितृदैवते ।ऋक्षे पिण्डप्रदानन्तु ज्येष्ठपुत्त्री विवर्जयेत्
”इति देवीपुराणात् भौजङ्गी पञ्चमी चन्द्रार्क-सङ्गमोऽमावास्या पितृदैवते ऋक्षे मघायाम् ।शातातपः ।“पिण्डनिर्व्वापरहितं यत्तु श्राद्धं विधीयते ।स्वधावाचनलोपोऽत्र विकिरस्तु लुप्यते
अक्षय्यं दक्षिणा स्वस्ति सौमनस्यं यथास्त्विति ।इति तिथ्यादितत्त्वम्
वाचस्पत्यम्
Sanskrit
मघात्रयोदशी स्त्री मघानक्षत्रेण युक्ता त्रयोदशी शा० त० ।भाद्रकृष्णत्रयोदश्यां तत्रैव मघानक्षत्रसंयोगसम्भवात् ।तत्र श्राद्धमावश्यकं यथोक्तं ति० त०“प्रौष्ठपद्यूर्ध्वं कृष्णत्रयोदश्यां मधायुक्तायामनिषिद्धयत्किञ्चिद्द्रव्येण श्राद्धमावश्यकं शङ्खादिविधिवाक्येनक्षत्रविशिष्टतिथेः श्रुतेः ततश्च केवलत्रयोदशीकेवल-मघाश्राद्धार्थवादा अपि क्लप्तविशिष्टविधिप्राप्तकर्मणोनित्यत्वबोधकाः तु केवलबिध्यन्तरकल्पना गौरवात् ।तथाच शङ्खः “प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयो-दशीम् प्राप्य श्राद्धं हि कर्त्तव्यं मधुना पायसेन च”मनुः “यत्किञ्चित् मधुना मिश्रं प्रपद्यात्तु त्रयोदशीम् ।तदप्यक्षयमेव स्यात् वर्षामु मघासु च” विष्णु-धर्मोत्तरम् “पौष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी ।एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः” शाता-तपः “पितरः स्मृहयन्त्यन्नमष्टकासु मघासु तस्मा-द्दद्यात् सदोद्युक्ता विद्वत्सु ब्राह्मणेषु च” अत्रान्न-मात्रश्रुतेः मनुवचने यत्किञ्चिदिति श्रुतेश्च शङ्खोक्त-पायसः फलातिशयार्थः “गुणविशेषे फकविशेषः स्यात्”इति न्यायात् व्यक्तं विष्णुवर्मोत्तरे “मधायुक्ता चतत्रापि शस्ता राजंस्ययोदशो तत्राक्षयं भवेच्छ्राद्धंमधुना पाडसेन च” तत्राश्वयुक्कृष्णपक्षे अत्र यत्श्राद्धं तन्मधुयोगेन पायसयोगेन बाऽक्षयं भवेत् एवंमनुवचने यत्किञ्चिन्मधुना मिश्रम् इत्यगेन मधुनात्र-युक्तत्वसुक्तम् अतोऽत्र सुतरां शूद्रस्याप्यधिकारः ।अत्र गगच्छायायोगे फलातिशयः तथाच कृत्यचिन्तामणौ स्मृतिः “कृष्णपक्षे त्रयोदव्यां मघास्मिन्दुः करेरविः यदा तदा गजच्छाया श्राद्धे पुण्यैरवाष्यते ।करे हस्तानक्षत्रे कम्यादशकांशोपरि सपादत्रयोविंशांशंयावत् अविभक्तानानप्यत्र पृथक् श्राद्धमावश्यकम्” ।यथा श्राद्धचिन्तामणौ स्मृतिः “विभक्ता अविभक्ताबा कुर्युः श्राद्धमदैविकम् मथासु तधान्यत्र नाधि-कारः पृथन्विना” अदैविकं प्रत्याब्दिकैकोद्दिष्टम्अन्यत्रं कृष्णवक्षादौ नाधिकारः नित्याषिकारः “स-पिण्डीकरणान्मानि यानि श्राद्धानि षोडश पृथक्नैव सुताः कुर्य्युः पृथग्द्रव्या अपि क्वचित्” इत्यत्रापिनासमुच्चितानामघृथम्द्रव्याणां पुंसां संपिण्डीकरणान्ता-नीति विशेषणात् तदुन्नरं श्राद्धानां पृथक्करणमपिप्रतीयते मथात्रयोदशीनिमित्तकश्राद्धे पुत्रवता पिण्डाग देयाः “भौजङ्गीं तिषिमासाद्य यावच्चन्द्रार्क सङ्ग-मम् तत्रापि महती पूजा कर्त्तव्या पितृदैवते ऋक्षेपिण्डप्रदानन्तु ज्येष्ठपुत्री विवर्जयेत्” इति देवीपुराणात्भोजङ्गीं पञ्चनीं चन्द्रार्कसङ्गमम् अमावास्यां पितृदैवतेऋणे मघायाम शातातषः “पिण्डनिर्वापरहितं यत्तु श्राद्धंविधीयते स्मधावाचनमोपोऽत्र विकिरस्तु लुप्यते ।अक्षय्यदक्षिणा स्मस्ति लौमनस्यं तथाण्विति” रघु०