| YouTube Channel

मकि (maki)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मङ्क्
मूलधातुः:
मकि
धात्वर्थः:
मण्डने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
मङ्कते
धातुप्रदीपः
Sanskrit
मकिँ मकि मण्डने
- मङ्कते युच् मङ्कनः ।। 88 ।।
क्षीरतरङ्गिणी
Sanskrit
मकिँ मकि मण्डने
मङ्कते मङ्कनः, मङ्कना वस्त्रम् उणादौ (उ0140) मकुरः87
धातुवृत्तिः
Sanskrit
मकिँ मकि (अर्थः) मण्डने
( मङ्कते ) इत्यादि ( प्रमङ्कनम् ) अङ्किवदणत्वम् ( मङ्कनः ) "क्रुधमण्डार्थेम्यश्च'' इति युच् कर्मकर्त्तरि "भूषाकर्म'' इति यक्चिणोर्निषेधाद् ( मङ्कत्ते कन्या स्वयमेव, अमङ्किष्ट कन्या स्वयमेवेति ) शप्सिचोर्निषेधाद् (मङ्कत्ते कन्या स्वयमेव, अमङ्किष्ट कन्या स्वयमेवेति ) शप्सिचौ भवतः मङ्किः इन्नितीन् 89
कृदन्तरूपमाला
Sanskrit
1 {@“मकि मण्डने”@} 2 मङ्ककः-ङ्किका, मङ्ककः-ङ्किका, मिमङ्किषकः-षिका, मामङ्ककः-ङ्किका
मङ्किता-त्री, मङ्कयिता-त्री, मिमङ्किषिता-त्री, मामङ्किता-त्री
इत्यादीनि सर्वाणि रूपाणि भौवादिककङ्कतिवत् 3 ऊह्यानि।
4 मङ्कनः, मङ्कणः, 5 प्रमङ्कनम्, 6 मङ्कितम्-तः-तवान्, 7 मङ्किः, 8 मङ्क्रिः
इत्यादीनि रूपाणि अस्य धातोः भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(११९७)
02
=>
(१-भ्वादिः-८९। सक। सेट्। आत्म।)
03
=>
(१४०)
04
=>
[[१। ‘क्रुधमण्डार्थेभ्यश्च’ (३-२-१५१) इति ताच्छीलिको युच्प्रत्ययः। बाहुलकादत्रैव णत्वे मङ्कणः = ऋषिविशेषः।]]
05
=>
[[२। ‘कृत्यचः’ (८-४-२९) इति प्राप्तस्य णत्वस्य ‘इजादेः सनुमः’ (८-४-३२) इति इजादेरेवेति नियमात् णत्वं न।]]
06
=>
[[आ। ‘फलाङ्कितान् वङ्कितवल्लिमङ्कितान् वनप्रदेशानुरुकाककोकिलान्।’ धा। का। १-१३।]]
07
=>
[[३। औणादिके (द। उ। १-४६) इन्प्रत्यये रूपमेवम्।]]
08
=>
[[४। ‘वङ्क्र्यादयश्च’ (द। उ। १-३५) इति क्रिन्प्रत्यये रूपम्। मङ्क्रिः = शवः।]]