| YouTube Channel

भ्लक्ष (bhlakSa)

 
Wilson
English
भ्लक्ष r. 1st cl. (भ्लक्षति) To eat.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
भ्लक्ष्
मूलधातुः:
भ्लक्ष
धात्वर्थः:
अदने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
भ्लक्षति-ते
शब्दकल्पद्रुमः
Sanskrit
भ्लक्ष, भक्षणे इति कविकल्पद्रुमः
(भ्वा०-उभ०-सक०-सेट् ।) अन्तःस्थतृतीयोपधः ञभ्लक्षति भ्लक्षते लस्थाने सप्तमस्वर इति दुर्ग-सिंहः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
भ्र(भ्ल)क्ष अदने
भ्वा०
उ०
सक०
सेट् वा रस्य लः धातुपाठः ।भ्र(भु)क्षति ते अभ्र(भ्ल)क्षोत् बभ्र(भ्ल)क्ष
भ्लक्ष भक्षणे
भ्वा०
उभ०
सक०
सेट् भ्लक्षति ते अभ्लक्षीत्अभ्लक्षिष्ट दुर्गनते भ्रक्षधातुरयम्
क्षीरतरङ्गिणी
Sanskrit
भ्लक्षँ भ्लक्ष भक्षणे
- प्लक्ष इति दुर्गः 863
कृदन्तरूपमाला
Sanskrit
1 {@“भ्लक्ष अदने”@} 2 ‘भक्ष’ इति क्षीरस्वामी इति मा।
धातुवृत्तावुक्तम्।
पुरुषकारेऽप्येवमेव।
‘भक्ष’ इति मैत्रेयः।
‘प्लक्ष’ इति दुर्गः।
मुद्रितक्षीरतराङ्गिण्यां तु ‘भ्लक्ष--’ इत्येव पाठो दृश्यते।
चुरादिषु भक्ष 3 धातौ क्षीरस्वामिनैव ‘भक्षतेर्घञ्- भक्षः।’ इत्युक्तत्वात् अदनार्थकस्य भक्षतेर्भ्वादिषु कुत्राप्यपाठात्, एनमेव 4 भक्षतिं मनुते इति भाति।
दुर्गादयस्तु धातुममुं ‘प्लक्ष--’ इति पठन्ति।
“तस्य शिरः छित्त्वा मेघं प्राक्षारयन्, प्रक्षोऽभवत्।
तत् प्रक्षस्य प्रक्षत्वम्-यत् प्लक्षशाखा--” 5 इति श्रुत्यनुसारेण प्रपूर्वकात् क्षरतेः पचाद्यचि कपिलकादेराकृतिगणत्वात् 6 उपसर्गस्थरेफस्य लत्वे प्लक्षशब्दव्युत्पादनं कृतवतो भाष्यकारस्य सम्मतमिति, अन्यथा 7 अस्मादेव पचाद्यचि प्लक्षशब्दसिद्धेः, श्रौतनिर्वचनस्याप्रसक्तेरिति मनीषया सुदूरं विचार्य माधवधातुवृत्तौ पाठोऽयं निरस्त इति ज्ञेयम्।
शतपथब्राह्मणे 8 ‘प्रख्यो हवै नामैतत् यत् प्लक्षः।’ इत्युक्तमपीह ध्येयम्।
भ्लक्षकः-क्षिका, भ्लक्षकः-क्षिका, बिभ्लक्षिषकः- षिका, बाभ्लक्षकः-क्षिका
भ्लक्षिता-त्री, भ्लक्षयिता-त्री, बिभ्लक्षिषिता-त्री, बाभ्लक्षिता-त्री
इत्यादीनि सर्वाणि रूपाणि भौवादिकध्रजतिवत् 9 ज्ञेयानि।
अस्य धातोः उभयपदि- त्वात् शानचि-भ्लक्षमाणः, भ्लक्षिष्यमाणः, इति विशेषः।
ल्यपि- 10 प्रभ्लक्ष्य इति।
प्रासङ्गिक्यः
01
=>
(११९४)
02
=>
(१-भ्वादिः-८९३। अक। सेट्। उभ।)
03
=>
(२१)
04
=>
[पृष्ठम्०९८७+ २८]
05
=>
(मैत्रायणीयसंहिता-६-३-१०-२)
06
=>
(वा। ८-२-१८)
07
=>
(प्लक्षधातुसद्भावे)
08
=>
(३-८-३-१२)
09
=>
(९२६)
10
=>
[[आ। ‘लाषेण चाषांश्छषितान् झषित्वा प्रभ्लक्ष्य भक्षन्ति यदम्बु नीचाः।’ धा। का। २। २८।]]