| YouTube Channel

भ्रेता-त्री (bhretA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“भ्री भये”@} 2 प्वादिः, ल्वादिश्च।
‘-- भरणे’ इति मैत्रेयक्षीरस्वामिप्रभृतयः पठन्ति।
भ्रायकः-यिका, भ्रायकः-यिका, बिभ्रीषकः-षिका, बेभ्रीयकः-यिका
भ्रेता-त्री, भ्राययिता-त्री, बिभ्रीषिता-त्री, बेभ्रीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि क्रैयादिकप्लिनातिवत् 3 ज्ञेयानि।
4 भ्रीणम्-णः-णवान्, भ्रीतम्-तः-तवान्, 5 भ्रिणन् 6 -न्ती इति विशेषः।
प्रासङ्गिक्यः
01
=>
(११८९)
02
=>
(९-क्र्यादिः-१५०५। सक। अनि। पर।)
03
=>
(१०८१)
04
=>
[[३। ‘अस्य ल्वादित्वमप्यस्ति इति द्रुमे’ इति धा। का। व्याख्यायाम् (३-९) उपादानात् ‘ल्वादिभ्यः’ (८-२-४४) इति निष्ठानत्वे नकारस्य णत्वे रूपमेवम्। ल्वादित्वाभावे भ्रीतम् इति, अत्र निष्ठानत्वं नेति ज्ञेयम्।]]
05
=>
[[४। शतरि, ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाऽभ्यस्त- योरातः’ (६-४-११२) इत्याकारलोपे ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति ह्रस्वे णत्वे रूपमेवम्।]]
06
=>
[[B। ‘व्रीताशबृंहितजुषाऽभ्रिणता गजेन प्रक्षेतुमज्ञमनसा समनुद्रुतेन।’ धा। का। ३-९।]]