| YouTube Channel

भ्रूणहा (bhrUNahA)

 
शब्दकल्पद्रुमः
Sanskrit
भ्रूणहा, [न्] त्रि, (भ्रूणं हन्तीति भ्रूण + हन् +“ब्रह्मभ्रूणवृत्तेषु ।” ८७ इति क्विप् ।)गर्भस्थबालकहन्ता भ्रूणं हन्ति इति भ्रूण-शब्दोपपदहनधातोष्टप्रत्ययेन निष्पन्नः इतिसंक्षिप्तसारव्याकरणम्
(यथा, महाभारते ।१ ८३ ३४ ।“ऋतुं वै याचमानाया ददाति पुमानृतुम् ।भ्रूणहेत्युच्यते ब्रह्मन् ! इह ब्रह्मवादिभिः
”)तस्य प्रायश्चित्तम् तत्र पुंस्त्वेन ज्ञाते पुंवध-प्रायश्चित्तम् स्त्रीत्वेन ज्ञाते स्त्रीबधप्रायश्चि-त्तम् अविज्ञाते तु पुंबधप्रायश्चित्तमाह मनुः ।“हत्वा गर्भमविज्ञातमेतदेव ब्रतञ्चरेत् ।गर्भहा यथावर्णं तथात्रेयीनिसूदनः
”इति प्रायश्चित्तविवेकः
(ब्रह्महन्ता यथा, मनुः ३२७ ।“अन्नादेर्भ्रूणहा मार्ष्टि पत्यौ भार्य्यापचारिणी
”“भ्रूणहा ब्रह्महा ।” इति तद्भाष्ये मेधातिथिः
)