| YouTube Channel

भ्रूः (bhrUH)

 
Chandas
Sanskrit
सम-वृत्तम्,
अक्षराणि-
20,
पादेऽक्षराणि-
5
मात्राः - 8
मात्रा-विन्यासः
दा दा दा
लक्षण-मूलम् - आनन्दमिश्र-जालक्षेत्रम्
Hindi
Hindi
भौंह
Wordnet
Sanskrit
Synonyms:
भृकुटिः, भ्रूः, चिल्लिका
noun
नयनोर्ध्वभागरोमराजी।
"कथकलीनर्तकः भ्रुकुटिभिः नृत्यमुद्रां करोति।"
शब्दकल्पद्रुमः
Sanskrit
भ्रूः,
स्त्री,
(भ्राम्यति नेत्रोपरि इति भ्रम् +“भ्रमेश्च डूः ।” उणा० ६८ इति डूः ।)दृग्भ्यामूर्द्ध्वभागः तत्पर्य्यायः चिल्लिका २नयनोर्द्ध्वभागरोमराजी इति राजनिर्घण्टः
तल्लक्षणम् यथा, गारुडे ६६ अध्याये ।“विशालोन्नता सुखिनि दरिद्रा विषमभ्रुवः ।धनी दीर्घा संसक्तभ्रूर्बालेन्दून्नतसभ्रुवः ।आव्या निस्वश्च खड्गभ्रूर्मध्याश्च विनतभ्रुवः
”अत्र षट्चक्रान्तर्गताज्ञाख्य चक्रमस्ति तत्तुहक्षवर्णद्बययुक्तद्बिदलपद्माकारम् तन्मध्ये मन-स्तिष्ठति यथा, --“आज्ञानामाम्बुजं तद्धिमकरसदृशं ध्यान-धामप्रकाशंहस्ताभ्यां वै कलाभ्यां प्रविलसितवपुर्नेत्रपत्रंसुशुभ्रम् ।तन्मध्ये हाकिनी सा शशिसमधवला वक्त्रषट्कंदधानाविद्यां मुद्रां कपालं डमरुजपवटीं बिभ्रतीशुद्धचित्ता
एतत्पद्मान्तराले निवसति मनः सूक्ष्मरूपंप्रसिद्धम्
”इति श्रीतत्त्वचिन्तामणौ षष्ठप्रकाशः
(विषयोऽस्या यथा, --“भ्रुवोर्वा यदि वा मूर्द्ध्नि सीमन्तावर्त्तकान् बहून् ।अपूर्व्वानकृतान् व्यक्तान् दृष्ट्वा मरणमादिशेत्
त्र्यहमेते जीवन्ति लक्षणेनातुरा नराः ।अरोगाणां पुनस्त्वेतत् षड्रात्रं परमुच्यते
”इति चरके इन्द्रियस्थाने अष्टमेऽध्याये
कर्णनेत्रनासाभ्रूशङ्खांसगण्डकक्षस्तनवृषपार्श्व-स्किग् जानुबाहूरूप्रभृतयो द्वे द्वे विंशतिरङ्गु-लयः इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये
)