| YouTube Channel

भ्रामरं (bhrAmaraM)

 
शब्दकल्पद्रुमः
Sanskrit
भ्रामरं,
क्ली,
(भ्रमरैः कृतं सम्भृतमिति भ्रमर+ “क्षुद्राभ्रमरवटरपादपादञ् ।” ११९ ।इति अञ् ।) मधु इति मेदिनी रे, १९१
तत्तु भ्रमरजमधु तस्य गुणाः पिच्छलत्वम् ।रूक्षत्वम् मधुरत्वम् मुखजाड्यनाशित्वञ्च ।इति राजनिर्घण्टः
अपि ।पैच्छिल्यात् स्वादु भूयस्त्वात् भ्रामरं गुरुकीर्त्तितम् ।”इति राजवल्लभः ।अन्यच्च ।“किञ्चित् सूक्ष्मैः प्रसिद्धेभ्यः षट्पदेभ्यीऽलिभि-श्चितम् ।निर्म्मलं स्फटिकाभं यत्तन्मधु भ्रामरं स्मृतम्
भ्रामरं रक्तपित्तघ्नं मूत्रजाड्यकरं गुरु ।स्वादुपाकमभिष्यन्दि विशेषात् पिच्छिलंहिमम्
”इति भावप्रकाशः
नृत्यविशेषः तत्पर्य्यायः रासः मण्डल-नृत्यम् हल्लीसम् इति शब्दमाला
भ्रमरसम्बन्धिनि त्रि यथा, --“तदाहं भ्रामरं रूपं कृत्वासंख्येयषट्पदम् ।”इति देवीमाहात्म्यम्
(यथा हारीते प्रथमे स्थाने एकादशेऽध्याये ।मध्वर्थे लक्षणं गुणाश्च ।“शीतं कषायं मधुरं लघु स्यात्सन्दीपनं लेखनमेव शस्तम् ।संशोधनन्तु व्रणशोधबञ्चसंरोपणं हृद्यतमञ्च बल्यम्
त्रिदोषनाशं कुरुते पुष्टिंकासे क्षये वा क्षतजे छर्द्दौ ।हिक्काभ्रमे शोषसपीनसानांरक्तप्रमेहे तथातिसारे
रक्तातिसारे सरक्तपित्तेतृण्मोहहृत् पार्श्वगदेऽपि शस्तम् ।नेत्रामये वा ग्रहणीगदे वाविषे प्रशस्तं भ्रमरैश्चितं यत्
”भ्रामरं सघनं जाड्यं भूयिष्ठं मधुरञ्च यत् ।रूक्षं विशेषतो ज्ञेयं शीतलं लघुलेखनम्
”)