| YouTube Channel

भ्रातृद्वितीया (bhrAtRdvitIyA)

 
Spoken Sanskrit
English
भ्रातृद्वितीया bhrAtRdvitIyA
f.
festival on the 2nd day in the light half of the month kArttika
Monier Williams Cologne
English
भ्रातृ—द्वितीया
f.
a festival on the 2nd day in the light half of the month Kārttika (on which, sisters give entertainments to in commemoration of Yamunā's entertaining her Yama),
Cat.
Apte Hindi
Hindi
भ्रातृद्वितीया
स्त्री*
भ्रातृ+द्वितीया -
कार्तिक शुक्ल पक्ष का द्वितीया
L R Vaidya
English
BrAtf-dvitIyA {% f. %} a second day of the first half of Kārtīka (when sisters entertain their brothers in consequence of the Yamunā once having entertained her brother Yama on that day).
Wordnet
Sanskrit
Synonyms:
भ्रातृ-द्वितीया
noun
कार्तिकमासस्य शुक्लपक्षस्य द्वितीया।
"महाराष्ट्रे भ्रातृ-द्वितीयायाः उत्सवः सोत्साहं निर्वर्त्यते।"
शब्दकल्पद्रुमः
Sanskrit
भ्रातृद्वितीया,
स्त्री,
(भ्रातृमङ्गलार्था भ्रातृभोज-नार्था वा द्वितीया इति मध्यपदलोपी कर्म्म-धारयः ।) कार्त्तिकशुक्लद्बितीया तद्विवरणंयथा यमद्बितीया तु प्रतिपद्युता ग्राह्ये-त्युक्तं निर्णयामृतादौ यमद्बितीया मध्याह्न-व्यापिनी पूर्व्वविद्धा चेति हेमाद्रिः अत्रविशेषो हेमाद्रौ स्कान्दे ।“ऊर्ज्जे शुक्लद्वितीयायामपराह्णेऽर्च्चयेत् यमम् ।स्नानं कृत्वा भानुजायां यमलोकं पश्यति
ऊर्ज्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः ।वेष्टितः किन्नरैर्हृष्टैस्तस्मै यच्छति वाञ्छितम्
”तथा भविष्ये ।“प्रथमा श्रावणे मासि तथा भाद्रपदेऽपरा ।तृतीयाश्वयुजे मासि चतुर्थी कार्त्तिके भवेत्
श्रावणे कलुषा नाम तथा भाद्रे गीर्म्मता ।आश्विने प्रेतसञ्चारा कार्त्तिके याम्यका मता
”इत्युक्त्वा प्रथमायां व्रतं द्बितीयायां सरस्वती-पूजा तृतीयायां श्राद्धमुक्त्वा चतुर्थ्यामुक्तम् ।“कार्त्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर ! ।यमो यमुनया पूर्व्वं भोजितः स्वगृहेऽर्च्चितः
अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता ।अस्यां निजगृहे विप्र ! भोक्तव्यं ततो नरैः
स्नेहेन भगिनीहस्तात् भोक्तव्यं पुष्टिवर्द्धनम् ।दानानि प्रदेयानि भगिनीभ्यो विधानतः
स्वर्णालङ्कारवस्त्रान्नपूजासत्कारभोजनैः ।सर्व्वा भगिन्यः संपूज्या अभावे प्रतिपन्नकाः
प्रतिपन्ना माताभगिन्य इति हेमाद्रिः
पितृव्यभगिनीहस्तात् प्रथमायां युधिष्ठिर ! ।मातुलस्य सुताहस्तात् द्वितीयायां तथा नृप !
पितुर्म्मातुः स्वसुः कन्ये तृतीयायां तयोः करात् ।चतुर्थ्यां सहजायाश्च भगिन्या हस्ततः परम् ।सर्व्वासु भगिनीहस्तात् भोक्तव्यं बलवर्द्धनम्
यस्यां तिथौ यमुनया यमराजदेवःसम्भोजितः प्रतिजगत्स्वसृसौहृदेन ।तस्यां स्वसुः करतलादिह यो भुनक्तिप्राप्नोति रत्नसुखधान्यमनुत्तमं सः
गौडास्तु ।यमञ्च चित्रगुप्तञ्च यमदूतांश्च पूजयेत् ।अर्घ्यश्चात्र प्रदातव्यो यमाय सहजद्वयैः
मन्त्रस्तु ।एह्येहि मार्त्तण्डज ! पाशहस्त !यमान्तकालोकधरामरेश ! ।भ्रातृद्वितीयाकृतदेवपूजांगृहाण चार्घ्यं भगवन्नमस्ते
भ्रातस्तवानुजाताहं भुङ्क्ष्व भक्तमिदं शुभम् ।प्रीतये यमराजस्य यमुनाया विशेषतः
”ज्येष्ठाग्रजातेति वदेदिति स्मार्त्ताः
इत्यन्न-दानमित्यप्याहुः ब्रह्माण्डपुराणेऽपि ।“या तु भोजयते नारी भ्रातरं युग्मके तिथौ ।अर्च्चयेच्चापि ताम्बूलैर्न सा वैधव्यमाप्नुयात्
भ्रातुरायुःक्षयो राजन् ! भवेत्तत्र कर्हिचित्
”इति निर्णयसिन्धौ परिच्छेदः
वाचस्पत्यम्
Sanskrit
भ्रातृद्वितीया स्त्री भ्रातृभीजनार्था द्वितीया कार्त्तिकशुक्ल-पक्षस्य द्वितीयायाम् यमद्वितीयायां तद्विधिः निर्णयसि०भविष्ये “कार्त्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर! ।यमो यमुनया पूर्वं भोजितः स्वगृहेऽर्चितः अतो यमद्वि-तीयेयं त्रिषु लोकेषु विश्रुता अस्यां निजगृहे विद्वन्! नभोक्तव्यं ततो नरैः स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टि-वर्द्धनम् दानानि प्रदेयानि भगिनीभ्योऽपि विधानतः ।स्वर्णालङ्कारवस्त्रान्नपूजासत्कारभोजनैः सर्वा भगिन्यःसंपूज्या अभावे प्रतिपन्नकाः” प्रतिपन्नाः मातृभगिन्य इतिहेमाद्रिः “पितृव्यभगिनीहस्तात् प्रथमायां युधिष्ठिर! ।मातुलस्य सुताहस्ताद्द्वितीयायां तथा नृप! पितुर्मातुःस्वसः कन्ये तृतीयायां तयोः करात् भोक्तव्यं सहजा-याश्च भगिन्या हस्ततः परम् सर्वासु भगिनीहस्ता-द्भोक्तव्यं बलबर्द्धनम् यस्यां तिथौ यमुनया यमराजदेवःसम्भोजितः प्रतिजगत् स्वसृसौहृदेन तस्यां स्वसुःकरतलादिह यो भुनक्ति प्राप्नोति रत्नसुखधान्यमनुत्तमंसः गौडास्तु “यसं चित्रगुप्तं यमदूतांश्च पूजयेत् ।अर्व्यञ्चात्र प्रदातव्यं यमाय सहजद्वयैः मन्त्रः “एह्येहिमार्त्तण्डज! पाशहस्त! यमान्तकालोकधरामरेश! भ्रातृ-द्वितीयाकृतदेवपूजां गृहाण चाऽर्घ्यं भगवन्नमस्ते! भ्रा-तस्तवानुजाताहं भुङ्क्ष्य भक्तमिदं शुभम् प्रीतये यम-राजस्य यमुनाया विशेषतः” ज्येष्ठाऽग्रजातेति वदेदितिस्यार्त्ताः इत्यन्नदानमित्यप्याहुः ब्रह्माण्डपुराणेऽपि“या तु भोजयते नारी भ्रातरं युग्मके तिथौ अर्च्चये-च्चापि ताम्बूलैर्न सा वैधव्यमाप्नुयात् भ्रातुरायुःक्षयोराजन् भवेत् तत्र कर्हिचित्”