| YouTube Channel

भ्रमरमारी (bhramaramArI)

 
Monier Williams Cologne
English
भ्रमर—मारी
f.
‘bee-killing’, a species of flower (growing in Malwa),
L.
शब्दकल्पद्रुमः
Sanskrit
भ्रमरमारी,
स्त्री,
(भ्रमरान् मारयति गन्धोत्कर्षेणव्याकुलयतीति मृ + णिच् + अण् गौरादि-त्वात् ङीष् ।) मालवदेशप्रसिद्धपुष्पवृक्ष-विशेषः तत्पर्य्यायः भ्रमरारिः भृङ्गारिः ३भृङ्गमारी मांसपुष्पिका कुष्ठारिः ६भ्रमरी षष्टिलता अस्या गुणाः तिक्त-त्वम् पित्तश्लेष्मज्वरनाशित्वम् शोफकण्डूति-कुष्ठब्रणदोषत्रिदोषनाशित्वञ्च इति राज-निर्घण्टः
वाचस्पत्यम्
Sanskrit
भ्रमरमारी स्त्री भ्रमरं मारयति मारि अण् उप० स० गौरा०ङीष् भृङ्गारिलतायाम् राजनि० भृङ्गार्य्यादयोऽप्यत्र“भ्रमरारिश्च तिक्ता स्यात् पित्तश्लेष्मकफापहा त्रिदोष-कुष्ठकण्डूतिशोफव्रणविनाशिनी” राजनि०