| YouTube Channel

भ्रन्शु (bhranzu)

 
कृदन्तरूपमाला
Sanskrit
1 {@“भ्रन्शु अवस्रंसने”@} 2 भ्रंशकः-शिका, भ्रशकः-शिका, बिभ्रंशिषकः-षिका, 3 बनीभ्रंशकः-बाभ्रशकः- शिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकध्वंसतिवत् 4 ज्ञेयानि।
निष्ठायाम् 5 भ्रष्टम्-भ्रष्टः-भ्रष्टवान्, क्तिनि--भ्रष्टिः, क्त्वायाम्-भ्रंशित्वा- भ्रष्ट्वा, क्विपि- 6 वाहाभ्रट्-वाहभ्रड्-वाहभ्रट्-भ्रशौ-भ्रशः, इति रूपाणीति विशेषः।
प्रासङ्गिक्यः
01
=>
(११८१)
02
=>
(१-भ्वादिः-७५६। अक। सेट्। आत्म।)
03
=>
[[१। भ्वादिषु ‘स्रन्सु ध्वन्सु भ्रन्सु अवस्रंसने’ इति पठ्यते। अत्र ‘भ्रन्सु’ इत्यस्य स्थाने मैत्रेय-क्षीरस्वामि-बोधिन्यास-सम्मताकार-कविकल्पद्रुमकार- प्रभृतिभिः ‘भ्रन्शु’ इति पाठोऽङ्गीकृतः। सिद्धान्तकौमुद्यादिषु पक्षभेदेन पाठोऽयमुररीकृतश्च। एवमेव, ‘नीग् वञ्चुस्रंसुध्वंसुभ्रंसु--’ (७-४-८४) इत्यत्रापि एतैस्सर्वैरपि भ्रन्शु इत्येव पाठोऽङ्गीकृतः। एवञ्चात्र यङन्ते, एतेषां मते नीगागमे, यङ्निमित्तक उपधानकारलोपे रूपमेवम्। अन्येषां मते तु ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासस्य दीर्घे बाभ्राशकः इत्यादीनि रूपाणि यङन्ते सर्वत्र ज्ञेयानि।]]
04
=>
(९४२)
05
=>
[[२। उदित्त्वेन क्त्वायामिड्विकल्पनान्निष्ठायामिण्निषेधः। उपधानकारलोपः, शकारस्य षत्वम्, निष्ठातकारस्य ष्टुत्वेन टकार इति चात्र प्रक्रिया ज्ञेया। एवमेव क्तिन्नादिष्वपि प्रक्रियोह्या।]]
06
=>
[[३। वाहोऽश्वः। तस्माद् भ्रंशते इत्यर्थे ‘क्विप् च’ (३-२-७६) इति क्विपि शकारस्य ‘व्रश्च--’ (८-२-३६) इत्यादिना षकारे, तस्य जश्त्वेन डकारे चर्त्वविकल्पे, ‘अन्येषामपि दृश्यते’ (६-३-१३७) इति पूर्वपदस्य दीर्घे वाहाभ्रट् इति रूपम्। क्वचिद् वाहभ्रट् इति पाठो दृष्टः, तदानीं दीर्घः पूर्वपदस्य नेति ज्ञेयम्।]]
1 {@“भ्रन्शु अधःपतने”@} 2 भ्रंशकः-शिका, भ्रंशकः-शिका, बिभ्रंशिषकः-षिका, बाभ्रशकः-शिका
इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना भौवादिकध्वंसतिवत् 3 ज्ञेयानि।
4 भ्रश्यन्-न्ती, वाहभ्रट्-वाहाभ्रट्, 5 भ्रष्टम्-भ्रष्टः-भ्रष्टवान्, 6 7 भ्रंशित्वा-भ्रष्ट्वा।
8 भ्रंशनः, इमानि रूपाणि विशेषेण संभवन्तीति विशेषः।
9 भ्रंशनम्।
प्रासङ्गिक्यः
01
=>
(११८२)
02
=>
(४-दिवादिः-१२२५। अक। सेट्। पर।)
03
=>
(९४२)
04
=>
[[४। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन् विकरणप्रत्ययः।]]
05
=>
[[५। क्त्वायामिड्विकल्पनान्निष्ठायामिण्निषेधे, षत्वे ष्टुत्वे रूपमेवम्।]]
06
=>
[पृष्ठम्०९७८+ २६]
07
=>
[[१। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पे रूपद्वयं बोध्यम्।]]
08
=>
[[२। तच्छीलादिषु कर्तृषु, ‘चलनशब्दार्थात्--’ (३-२-१४८) इति युच्।]]
09
=>
[[आ। ‘… मृश्यद्भ्रंशनवर्शकाकृशदयस्तृष्णाहरो हृष्य मे।।’ धा। का। २। ६६।]]