| YouTube Channel

भौमजलं (bhaumajalaM)

 
शब्दकल्पद्रुमः
Sanskrit
भौमजलं,
क्ली,
(भूमि + अण् ।) भूमिसम्बन्धि-सलिलम् तत् त्रिविधं यथा, --“भौममम्भो निगदितं प्रथमं त्रिविधं बुधैः ।जाङ्गलं परमानूपं ततः साधारणं क्रमात्
”तेषां लक्षणानि गुणाश्च ।“अल्पोदकोऽल्पवृक्षश्च पित्तरक्तामयान्वितः ।देशोऽनूप इति ख्यात आनूपं तद्भवं जलम्
मिश्र चिह्नस्तु यो देशः हि साधारणः स्मृतः ।तम्मिन् देशे यदुदकं तत्तु साधारणं स्मृतम्
जाङ्गलं सलिलं रूक्षं लवणं लघु तत्तनु ।वह्निकृत् कफहृत् पथ्यं विकारान् कुरुते बहून्
आनूपं वार्य्यभिष्यन्दि स्वादु स्निग्धं घनं गुरु ।वह्निकृत् कफहृन्नित्यं विकारान् कुरुते बहून्
साधारणन्तु मधुरं दीपनं शीतलं लघु ।तर्पणं रोचनं तृष्णादाहदोषत्रयप्रणुत्
”अथ भौमानामेव नादेयादीनां लक्षणानिगुणाश्च तत्र नादेयस्य लक्षणं गुणाश्च ।“नद्या नदस्य वा नीरं नादेयमिति कीर्त्तितम् ।नादेयमुदकं रूक्षं वातलं लघु दीपनम् ।अनभिष्यन्दि विशदं कटुकं कफपित्तनुत्
नद्यः शीघ्रवहा लघ्य्वः सर्व्वा याश्चामलौदकाः ।गुर्व्व्यः शैवलसंछन्ना मन्दगाः कलुषाश्च याः
नदीसरस्तडागस्थे कूपप्रस्रवणादिजे ।उदके देशभेदेन गुणान् दोषांश्च लक्षयेत्
”इति भावप्रकाशः