| YouTube Channel

भौत्य (bhautya)

 
Monier Williams Cologne
English
भौत्य
m.
(fr. भूति)
N.
of a Manu,
Hariv.
भौत्य mf(ई)n. relating to him,
MārkP.
Monier Williams 1872
English
भौत्य, अस्, m. (fr. भूति), N. of a Manu
(अस्,
ती, अम्), relating to the preceding Manu.
पुराणम्
English
भौत्य / BHAUTYA. See the word manvantara.
शब्दकल्पद्रुमः
Sanskrit
भौत्यः,
पुं,
(भूतेरपत्यं पुमान् भूतिः + अप-त्यार्थे ष्यञ् ।) भूतिमुनिपुत्त्रश्चतुर्द्दशो मनुः ।यथा, --मार्कण्डेय उवाच ।“अतः परन्तु भौत्यस्य त्वमुत्पत्तिं निशामय ।देवानृषींस्तथा पुत्त्रांस्तथैव वसुधाधिपान्
बभूवाङ्गिरसः पुत्त्रो भूतिर्नाम्नातिकोपनः ।तस्य भ्राता सुवर्च्चाभूद् यज्ञे तेन निमन्त्रितः
यियासुः शान्तिनामानं शिष्यमाह महामुनिः ।सदोद्युक्तं सदाचारमुदारं मुनिसत्तमम्
भूतिरुवाच ।अहं यज्ञं गमिष्यामि भ्रातुः शान्ते ! सुवर्च्चसः ।तेनाहूतस्त्वया चेह यत् कर्त्तव्यं शृणुष्व तत्
अतिजागरणं वह्नेस्त्वया कार्य्यं ममाश्रमे ।तथा तथाप्रमत्तेन यथाग्निर्न शमं व्रजेत् ।इत्याज्ञप्ते तथेत्युक्तः तु शिष्येण शान्तिना ।जगाम यज्ञं तं भ्रातुराहूतः सन् यवीयसा
प्रशान्तस्तावदनलो योऽसौ भूतिपरिग्रहः ।तं दृष्ट्वा सोऽनलं शान्तं शान्तिरत्यन्तदुःखितः ।भीतश्च भूतेर्बहुधा चिन्तयन् महाद्युतिः
मार्कण्डेय उवाच ।बहुधैवं विचिन्त्यासौ भीतस्तस्य तदा गुरोः ।ययौ मतिमतां श्रेष्ठः शरणं जातवेदसम्
चकार ततः स्तोत्रं सप्तार्च्चेर्यतमानसः ।भूत्वैकचित्तो मेदिन्यां न्यस्तजानुः कृताञ्जलिः
एवं संस्तुतस्तेन भगवान् हव्यवाहनः ।ज्वालामालावृततनुस्तस्यासीदग्रतो मुने !
परितुष्टोऽस्मि ते विप्र ! भक्त्या यत्ते स्तुतिः कृता ।वरं ददामि भवतः प्रार्थ्यतां यत्तवेप्सितम्
भगवन् ! कृतकृत्योऽस्मि यत्त्वां पश्यामि रूपिणम् ।तथापि भक्तिनम्रस्य भगवन् ! श्रूयतां मम
ममापराधात् संत्यक्तं यत्तेऽधिष्ट्यं विभावसो ! ।तत्त्वयाधिष्ठितं सोऽद्य पूर्व्ववत् पश्यतां द्बिजः
तथान्यदपि मे देव ! प्रसादं कुरुषे यदि ।पुत्त्रो विशिष्टो भवतु निरपत्यस्य मे गुरोः
यथा मैत्रीं तनये करिष्यति मे गुरुः ।तथा समस्तसत्त्वेषु भवत्वस्य मनो मृदु
अग्निरुवाच ।गुरोरर्थं त्वया ब्रह्मन् ! याचितं यद्वरद्वयम् ।नात्मार्थे तेन मे प्रीतिस्त्वय्यतीव महामुने !
भविष्यत्येतदखिलं गुरोर्यत् प्रार्थितं त्वया ।मैत्री समस्तभूतेषु पुत्त्रस्तस्य भविष्यति
मन्वन्तराधिपः पुत्त्रो भौत्यो नाम भविष्यति ।महाबलो महावीर्य्यो महाप्राज्ञो गुरोस्तव
इत्युक्त्वा भगवानग्निः पश्यतस्तस्य वै मुने ! ।वभूवादर्शनः सद्यः प्रदीपो निर्वृतो यथा
एतस्मिन्नन्तरे सोऽपि गुरुस्तस्य महात्मनः ।भ्रातुर्यवीयसो यज्ञादाजगाम स्वमाश्रमम्
तस्यागतस्य शिष्योऽसौ चक्रे पादाभिबन्दनम् ।गृहीतासनपूजश्च तमाह तदा गुरुः
वत्सातिहार्द्दं त्वयि मे तथान्येष्वपि जन्तुषु ।न वेद्मि किमिदं त्वञ्चेद्वत्सैतत् कथयाशु मे
ततः शान्तिस्तत् सर्व्वमाचार्य्याय महात्मने ।अग्निनाशादिकं विप्र ! समाचष्ट यथातथम्
तच्छ्रुत्वा परिष्वज्य स्नेहार्द्रनयनो गुरुः ।शिष्याय प्रददौ वेदान् साङ्गोपाङ्गान् महात्मने
भौत्थो नाम मनुस्तस्य पुत्त्रो भूतेरजायत ।तस्य मन्वन्तरे देवानृषीन् भूपांश्च मे शृणु
भविष्यस्य भविष्यांस्तु गदतो मम विस्तरात् ।देवेन्द्रो यश्च भविता तस्य विख्यातकर्म्मणः
चाक्षुषाश्च कनिष्ठाश्च पवित्रा भ्राजिरास्तथा ।रजोवृकाश्च इत्येते पञ्च देवगणाः स्मृताः
शुचिरिन्द्रस्तथा तेषां त्रिदशानां भविष्यति ।महाबलो महावीर्य्यः सर्व्वैरिन्द्रगुणैर्युतः
अग्नीधश्चाग्निबाहुश्च शुचिर्युक्तोऽथ माधवः ।शुक्रो जितश्च सप्तैते तदा सप्तर्षयः स्मृताः
गुरुर्गभीरो ब्रध्नश्च भरश्चानुग्र एव ।स्त्रीमानी प्रवीरश्च विष्णुः संक्रन्दनस्तथा
तेजस्वी सुवलश्चैव भौत्यस्यैते मनोः सुताः ।चतुर्द्दशं मयैतत्ते मन्वन्तरमुदाहृतम्
”इति मार्कण्डेयपुराणे मन्वन्तरानुवर्णननामा-ध्यायः
वाचस्पत्यम्
Sanskrit
भौत्य
पु०
भूतेरपत्यं बा० यक् चतुर्दशमनौ हरिवं अ० ।“बभूवाङ्गिरसःपुत्रो भूतिर्नाम्नातिकोपनः” इत्युपक्रमेमार्कपु० १०० तदुत्पत्त्यादिकमुक्तम्