| YouTube Channel

भोज्यं (bhojyaM)

 
शब्दकल्पद्रुमः
Sanskrit
भोज्यं, त्रि, (भुज्यते इति भुज् + कर्म्मणि +ण्यत् “भोज्यं भक्ष्ये ।” ६९ इतिनिपातनात् कुत्वम्) भोजनीयद्रव्यम् यथा, “भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराः स्त्रियः ।विभवो दानशक्तिश्च नाल्पस्य तपसः फलम्
”इति चाणक्ये ५१ श्लोकः
अपि ।“आहारं षड्विधं चूष्यं पेयं लेह्यं तथैव ।भोज्यं भक्ष्यं तथा चर्व्व्यं गुरु विद्याद्यथोत्तरम्
”चूष्यं इक्षुदण्डादि पेयं पानकशर्करीदकादि ।लेह्यं रसालाक्वथितादि भोज्यं भक्तसूपादि ।भक्ष्यं लड्डुकमण्डकादि चर्व्व्यं चिपिटचण-कादि इति भावप्रकाशः
(पितॄणां तृप्त्यर्थंदेये अन्नादौ
)भोज्यदानस्येतिकर्त्तव्यता यथा ओँ अद्यामुकेमासि अमुके पक्षे अमुकतिथौ अमुकगोत्रस्यपितुरमुकदेवशर्म्मण एकोद्दिष्टविधिकसाम्बत्-सरिकश्राद्धवासरे अमुकगोत्रस्य पितुरमुक-देवशर्म्मणोऽक्षयस्वर्गकाम इदं सघृतसवस्त्रोप-करणामान्नभोज्यमर्च्चितं श्रीविष्णुदैवतं यथा-सम्भवगोत्रनाम्ने ब्राह्मणायाहं ददानि ततोदक्षिणा ओँ अद्येत्यादि कृतैतत्सघृत-सवस्त्रोपकरणामान्नभोज्यदानकर्म्मणः साङ्गतार्थंदक्षिणामिदं काञ्चनमूल्यं श्रीविष्णुदैवतं यथा-सम्भवगोत्रनाम्ने ब्राह्मणायाहं ददानि कृतै-तत्सघृतसवस्त्रोपकरणामान्नभोज्यदानकर्म्मा-च्छिद्रमस्तु इति श्राद्धप्रयोगतत्त्वम्