| YouTube Channel

भोजम् (bhojam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“भुज पालनाभ्यवहारयोः”@} 2 अभ्यवहारः = भोजनम्।
‘भुजेद् भुनक्ति भुंक्ते स्युः, कौटिल्ये पालनेऽदने।’ 3 इति देवः।
4 भोजकः-जिका, भोजकः-जिका, 5 बुभुक्षकः-क्षिका, बोभुजकः-जिका
भोक्ता-भोक्त्री, भोजयिता-त्री, बुभुक्षिता-त्री, बोभुजिता-त्री
6 भुञ्जन्-ती, देवदत्तं यज्ञदत्तः- 7 भोजयन्-न्ती, बुभुक्षन्-न्ती
-- भोक्ष्यन्-न्ती-ती, भोजयिष्यन्-न्ती-ती, बुभुक्षिष्यन्-न्ती-ती
-- 8 भुञ्जानः, भोजयमानः, बुभुक्षमाणः, बोभुज्यमानः
भोक्ष्यमाणः, भोजयिष्यमाणः, बुभुक्षिष्यमाणः, बोभुजिष्यमाणः
हुतभुक्, हव्यभुक्, 9 बलिभुक्-बलिभुजौ- 10 बलिभुजः
-- -- भुक्तम्-भुक्तवान्, 11 प्रभुक्तः, भोजितः, बुभुक्षितः, बोभुजितः-तवान्
12 13 भोजः, 14 विश्वभोजः, 15 उष्णभोजी-शीतभोजी, 16 कलहभोजी, 17 अश्राद्धभोजी, कांस्यभोजी, 18 19 भुञ्जानः, भोजः, 20 बुभुक्षुः, बोभुजः
भोक्तव्यम्, भोजयितव्यम्, बुभुक्षितव्यम्, बोभुजितव्यम्
प्रनिभोजनीयम्-प्रणिभोजनीयम्, भोजनीयम्, बुभुक्षणीयम्, बोभुजनीयम्
21 भोज्यम्-भोग्यम्, भोज्यम्, बुभुक्ष्यम्, बोभुज्यम्
ईषद्भोजः-दुर्भोजः-सुभोजः
-- -- भुज्यमानः, भोज्यमानः, बुभुक्ष्यमाणः, बोभुज्यमानः
22 भुजः-भोगः, 23 भोगः, भोजः, बुभुक्षः, बोभुजः
भोक्तुम्, 24 भोक्तुं शक्नोति, भोजयितुम्, बुभुक्षितुम्, बोभुजितुम्
25 भुक्तिः, 26 भुजिः, अन्नभोजिका, भोजना, 27 बुभुक्षा, बोभुजा
भोजनम्, भोजनम्, बुभुक्षणम्, बोभुजनम्
भुक्त्वा, भोजयित्वा, बुभुक्षित्वा, बोभुजित्वा
उपभुज्य, उपभोज्य, प्रबुभुक्ष्य, प्रबोभुज्य
28 अग्रेभोजम्-भुक्त्वा, प्रथमं भोजं-भुक्त्वा, पूर्वं भोजं-भुक्त्वा वा व्रजति।
भोजम् २, भुक्त्वा २, भोजम् २, भोजयित्वा २, बुभुक्षम् २, बुभुक्षित्वा २, बोभुजम्
बोभुजित्वा
29 भुज्युः, 30 भुजिष्यम्-भुजिष्या।
प्रासङ्गिक्यः
01
=>
(११६२)
02
=>
(७-रुधादिः-१४५४। सक। अनि। पर।)
03
=>
(श्लो। ६५)
04
=>
[पृष्ठम्०९५७+ २५]
05
=>
[[१। सन्नन्ते सर्वत्र ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, धातुजकारस्य षकारे, तस्य ‘षढोः कः सि’ (८-२-४१) इति ककारे रूपनिष्पत्तिर्ज्ञेया।]]
06
=>
[[२। शतरि, शपो रुधादित्वेन श्नमि, ‘श्नसोरल्लोपः’ (६-४-१११) इति श्नमोऽकारस्य लोपे नकारस्य श्चत्वेन ञकारे रूपमेवम्।]]
07
=>
[[३। अभ्यवहारार्थे धातोरस्य ण्यन्तात्, ‘निगरणचलनार्थेभ्यः’ (१-३-८७) इति शतैव। ‘गतिबुद्धिप्रत्यवसानार्थ--’ (१-४-५२) इत्यादिना अणौ कर्तुः णौ कर्मसंज्ञाऽत्रेति विशेषः।]]
08
=>
[[४। ‘भुजोऽनवने’ (१-३-६६) इत्यनेन अवनभिन्नार्थे आत्मनेपदं शानच्। ण्यन्तेऽपि पालनार्थे शानज्ज्ञेयः। सन्नन्तेऽपि पालनार्थे ‘पूर्ववत् सनः’ (१-३-६२) इति शानज्भवतीति बोध्यम्। धातूनामनेकार्थत्वात्, ‘भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी।’ (रामा-अर। ४७-४), ‘बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्।।’ (रघुवंशे। १५-१) इत्यादिषु, अनुभवार्थेऽपि आत्मनेपदं भवतीति बोध्यम्। स्पष्टमिदं माधवधातुवृत्तौ।]]
09
=>
[[५। कर्मण्युपपदे ‘क्विप् च’ (३-२-७६) इति कर्तरि क्विप्। बलिभुक् = वायसः।]]
10
=>
[[आ। ‘तूष्णीं प्रत्यभिजानते बलिभुजो भीताः स्वयूथ्यस्वरान्।।’ अनर्घराघवे ४। १।]]
11
=>
[[६। ‘आदिकर्मणि क्तः कर्तरि च’ (३-४-७१) इति कर्तरि क्तः।’ ‘प्रभुक्तो गोरसं कृष्णः प्रभुक्तोऽनेन गोरसः।’ इति प्र। सर्वस्वे। अस्य धातोर्भक्षणार्थकत्वात् ‘क्तोऽधि- करणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’ (३-४-७६) इति अधिकरणेऽपि क्तप्रत्ययो बोध्यः। प्रत्यवसानार्थकाः = भक्षणार्थका धातवः।]]
12
=>
[पृष्ठम्०९५८+ २९]
13
=>
[[१। इगुपधलक्षणं कप्रत्ययं बाघित्वा ‘अज्विधिः सर्वधातुभ्यः पठ्यन्ते पचादयः।’ (का। ३-१-१३४) इति वचनात् कर्तरि अच्प्रत्ययः।]]
14
=>
[[२। विश्वं भुनक्ति इति विश्वभोजः। ‘कर्मण्यण्’ (३-२-१) इत्यण्प्रत्ययः।]]
15
=>
[[३। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति ताच्छील्ये णिनिप्रत्ययः। एवं शीतभोजी, कलहभोजी इत्यत्रापि ज्ञेयम्। कलहं भुनक्ति = पालयति इति कलहभोजी = नारदः।]]
16
=>
[[आ। ‘… पुरतोऽभवत् कलहभोजिनो मुनेः।।’ च। भा। ५। ५३।]]
17
=>
[[४। ‘व्रते’ (३-२-८०) इति णिनिप्रत्ययः। सति भोजनेऽश्राद्धमेव भुङ्क्ते इत्यत्र व्रतं गम्यते। एव कांस्यभोजी इत्यत्रापि व्रते गम्ये णिनिप्रत्यय इति ज्ञेयम्।]]
18
=>
(भोगं)
19
=>
[[५। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इति चानश्प्रत्ययः। ताच्छीलि- कोऽयं प्रत्ययः।]]
20
=>
[[B। ‘बलात् बुभुक्षुणोत्क्षिप्य जह्रे भीमेन रक्षसा।।’ भ। का। ४। २।]]
21
=>
[[६। ‘भोज्यं भक्ष्ये’ (७-३-६९) इति ण्यति कुत्वाभावो निपात्यते। ‘भक्ष्ये’ इत्यत्रोपल क्षणं खादनसामान्यधर्मस्य। तेन ‘भोज्या यवागूः’ इत्यत्र पानार्थकस्यापि भोज्या इति सिद्ध्यति। भक्षणादिभिन्नार्थे तु ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वे भोग्यः = कम्बलः इति सिद्ध्यति।]]
22
=>
[[७। ‘भुजन्युब्जौ पाण्युपतापयोः’ (७-३-६१) इति पाणावभिधेये घञि कुत्वाभावः, गुणाभावश्च निपात्यते। भुज्यतेऽनेनेति भुजः = पाणिः। ‘बाहावभिधेये भुज इति प्रयोगो लाक्षणिकः।’ इति बृहच्छब्देन्दुशेखरे स्फुटम्। भुजादन्यत्र घञि कुत्वे भोगः = शरीरम्।]]
23
=>
[[८। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। भोगः = स्त्रीभोगाज्जातोऽक्षिरोगविशेषः। कारणे कार्योपचारोऽत्र। भोगः = सर्पकायश्च।]]
24
=>
[[९। पूर्वकालत्वाभावेऽपि शक्नोत्यर्थे ‘शकधृषज्ञा--’ (३-४-६५) इति तुमुन्प्रत्ययः।]]
25
=>
[पृष्ठम्०९५९+ २६]
26
=>
[[१। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति भावे इक्प्रत्ययः। अन्नभोजिका इत्यत्र उत्पत्तिरूपार्थे ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्’ (३-३-१११) इति स्त्रियां ण्वुच्। ‘पाचिका मे त्वया देया प्रोत्पन्ना मेऽन्नभोजिका।।’ इति प्र। सर्वस्वे।]]
27
=>
[[आ। ‘अस्मानत्तुमितोऽभ्येति परिग्लानो बुभुक्षया।।’ भ। का। ७। ८४।]]
28
=>
[[२। ‘विभाषाऽग्रेप्रथमपूर्वेषु’ (३-४-२४) इति अग्रेप्रथमपूर्वशब्देषूपपदेषु समानकर्तृकयोः पूर्वकाले क्त्वाणमुलौ विकल्पेन भवतः।]]
29
=>
[[३। ‘भुजिमृङ्भ्याम्--’ (द। उ। १-१३५) इति युक्प्रत्ययः। भुज्युः = गन्धर्वः।]]
30
=>
[[४। ‘रुचिभुजिभ्यां किष्यन्’ (द। उ। ८-१५) इति किष्यन्प्रत्ययः। भुजिष्यम् = भोग्यम्। भुजिष्या = दासी।]]