| YouTube Channel

भोजनं (bhojanaM)

 
Hindi
Hindi
खाना
शब्दकल्पद्रुमः
Sanskrit
भोजनं,
क्ली,
(भुज् + “ल्युट् ।” ११५ ।इति भावे ल्युट् ।) भक्षणम् कठिनद्रव्यस्यगलाधःकरणम् तत्पर्य्यायः जग्धः २जेमनम् लेपः आहारः निघसः ६न्यादः इत्यमरः ५५
जमनम् ८विघसः इति तट्टीका
अभ्यवहारः १०प्रत्यवसानम् ११ अशनम् १२ स्वदनम् १३निगरः १४ इति राजनिर्घण्टः
*
अथ भोजनगुणविधानादि ।“भोजनाग्रे सदा पथ्यं जिह्वाकण्ठविशोधनम् ।अग्निसन्दीपनं हृद्यं लवणार्द्रकभक्षणम्
आयुर्घृते गुडे रोगा मृत्युर्लीनो विदाहिषु ।आरोग्यं कटुतिक्तेषु बलं मांसे पयःसु
अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः ।पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम्
घृतादष्टगुणं तैलं मर्द्दनान्न भक्षणात् ।आहारः प्रीणनः सद्यो बलकृद्देहधारणः
*
आयुष्यं प्राङ्मखो भुङ्क्ते यशस्यं दक्षिणामुखः ।श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्तेह्युदङ्मुखः
कुक्षेरन्नेन भागौ द्वावेकं पानेन पूरयेत् ।वायोः सञ्चारणार्थञ्च चतुर्थमवशेषयेत्
दन्ते चावगतं चान्नं सौचेनैवाहरेज्जलैः ।कुर्य्यादनिर्गतं तद्धि सुखस्यानिष्टगन्धताम्
भुक्त्रा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते ।अचिरेणैव तद्वारि तिमिराणि व्यपोहति
भुक्त्वाचम्य करं वामं दत्त्वा कुक्षौ ततः पठेत् ।भुक्तं महेन्द्रहस्तेन वैश्वानरसुखेन
गरुडस्य कण्ठेन समुद्रस्य वह्निना ।वातापिर्भक्षितो येन पीतो येन महोदधिः
यन्मया खादितं पीतं तदगस्त्यो जरिष्यति ।पठित्वैतत् सुखासीनः क्षणं तिष्ठेदनाकुलः
भुक्त्रा पादशतं गत्वा वामपार्श्वेन संविशेत् ।एवं ह्यधोगतं चान्नं सुखं तिष्ठति जीर्य्यति
भुक्त्वोपविशतस्तुन्दं शयानस्य वपुर्भवेत् ।आयुश्चंक्रममाणस्य मृत्युर्धावति धावतः
”इति राजवल्लभः
*
अपि ।“ततो भोजनवेलायां कुर्य्यान्मङ्गलदर्शनम् ।तस्य प्रदक्षिणं नित्यमायुर्धर्म्मविवर्द्धनम्
लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः ।हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः
पादुकारोहणं कुर्य्यात् पूर्व्वं भोजनतः परम् ।पादरोगहरं वृष्यं चक्षुष्यं चायुषे हितम्
*
शरीरे जायते नित्यं वाञ्छा नॄणां चतुर्विधा ।बुभुक्षा पिपासा सुषुप्सा सुरतस्पृहा
भोजनेच्छाविघातात् स्यादङ्गमर्द्दोऽरुचिः श्रमः ।तन्द्रा लोचनदौर्ब्बल्यं धातुदाहो बलक्षयः
विघातेन पिपासायाः शोषः कण्ठास्ययोर्भवेत् ।श्रवणस्यावरोधश्च रक्तशोषो हृदि व्यथा
निद्राविघाततो जम्भा शिरोलोचनगौरवम् ।अङ्गमर्द्दस्तथा तन्द्रा स्यादन्नापाक एव
बुभुक्षितो योऽश्नाति तस्याहारेन्धनक्षयात् ।मन्दीभवति कायाग्निर्यथा चाग्निर्निरिन्धनः
आहारं पचति शिखी दोषाननाहारः पचति ।दोषक्षये धातून् पचति धातुक्षये प्राणान्
आहारः प्रीणनः सद्यो बलकृद्देहधारणः ।स्मृत्यायुःशक्तिवर्णौजःसत्त्वशोभाविवर्द्ध्वनः
यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् ।विचार्य्य दोषकालादीन् कालयोरुभयोरपि
”उभयोः कालयोः प्रातः सायञ्च तथा ।“सायं प्रातर्मनुष्याणामशनं श्रुतिबोधितम् ।नान्तरा भोजनङ्कुर्य्यादग्निहोत्रसमो विधिः
”प्रातः प्रथमयामात् उपरि द्वितीययामात्अर्व्वाक् तथा ।“याममध्ये भोक्तव्यं यामयुग्मं लङ्घयेत् ।याममध्ये रसोत्पत्तिर्यामयुग्माद्बलक्षयः
”अन्यच्च ।“क्षुत् सम्भवति पक्वेषु रसदोषमलेषु ।काले वा यदि वाकाले सोऽन्नकाल उदाहृतः
”रसादीनां पाकं ज्ञातुमाह ।“उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः ।लघुता क्षुत्पिपासा यदा कालः भोजने
”स्थानमाह ।“आहारं विजने कुर्य्यान्निर्हारमपि सर्व्वदा ।उभाभ्यां लक्ष्म्युपेतः स्यात् प्रकाशे हीयतेश्रिया
निर्हारो मलमूत्रोत्सर्गः अन्यच्च ।“आहारनिर्हारविहारयोगाःसदैव सद्भिर्व्विजने विधेया इति
*
भोजने येषां दृष्टिर्निवारणीया तानाह ।“हीनदीनक्षुधार्त्तानां पापषण्डैणरोगिणाम् ।कुक्कुटादिशुनां दृष्टिर्भोजने नैव शोभना
”येषां दृष्टिः शुभदा तानाह ।“पितृमातृसुहृद्बैद्यापापकृद्धंसवर्हिणाम् ।सारसस्य चकोरस्य भोजने दृष्टिरुत्तमा
”कथञ्चित्तद्दुष्टदृष्टिपाते तद्दोषशान्तये ब्रह्मा-दीन् स्मरेत् तद्यथा, --“अन्नं ब्रह्म रसो विष्णुर्भोक्ता देवो महेश्वरः ।इति सञ्चिन्त्य भुञ्जानो दृष्टिदोषो बाधते
अञ्जनागर्भसम्भूतं कुमारं ब्रह्मचारिणम् ।दृष्टिदोषविनाशाय हनूमन्तं स्मराम्यहम्
”भाजनमाह ।“दोषहृद्दृष्टिदं पथ्यं हैमं भोजनभाजनम् ।रौप्यं भवति चक्षुष्यं पित्तहृत् कफवातकृत्
कांस्यं बुद्धिप्रदं रुच्यं रक्तपित्तप्रसादनम् ।पैत्तलं वातकृद्रूक्षमुष्णं कृमिकफप्रणुत्
आयसे कान्तपात्रे भोजनं सिद्धिकारकम् ।शोथपाण्डुहरं बल्यं कामलापहमुत्तमम्
शैलजे मृण्मये पात्रे भोजनं श्रीनिवारणम् ।दारूद्भवे विशेषेण रुचिदं श्लेष्मकारि
पात्रं पत्रमयं रुच्यं दीपनं विषपापनुत्
जलपात्रन्तु ताम्रस्य तदभावे मृदो हितम्
पवित्रं शीतलं पात्रं घटितं स्फटिकेन यत् ।काचेन रचितं तद्वत्तथा वैदूर्य्यसम्भवम्
*
भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणम् ।अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम्
”लवणं सैन्धयं ज्ञेयम् आर्द्रकन्तु कटुकमपि नपित्तविरोधि मधुरपाकित्वात्
“अश्नीयात्तन्मना भूत्वा पूर्व्वन्तु मधुरं रसम् ।मध्येऽम्ललवणौ पश्चात् कटुतिक्तकषायकान्
फलान्यादौ समश्नीयात् दाडिमादीनि बुद्धिमान्
विना मोचाफलं तद्वद्वर्ज्जनीया कर्क्कटी
मृणालविसशालूककन्देक्षुप्रभृतीन्यपि ।पूर्व्वमेव हि भोज्यानि तु भुक्त्रा कदाचन
गुरु पिष्टमयं द्रव्यं तण्डुलान् पृथुकानपि ।न जातु भुक्तवान् खादेन्मात्रां खादेद्बुभु-क्षितः
घृतपूर्व्वं समश्नीयात् कठिनं प्राक् ततो मृदु ।अन्ते पुनर्द्रवाशी तु बलारोग्ये मुञ्चति
”अयमर्थः प्राक् घृतपूर्व्वं कठिनं समश्नीयात् ।यथा काश्यादिवासिनः प्रथमं सव्यञ्जनां घृतपूर्व्वांरोटिकां भुञ्जते ततो मृदुसपूपादिकमोदनंभुञ्जते अन्ते पुनर्द्रबाशी भोजनान्ते दधितक्र-दुग्धादि भुञ्जते ।“यद्यत् स्वादुतरं तद्धि विदध्यादुत्तरोत्तरम् ।भुक्त्वा यत् प्रार्थ्यते भूयस्तदुक्तं स्वादु भोजनम्
”स्वाद्वन्नस्य गुणमाह ।“सौमनस्यं बलं पुष्टिमुत्साहं रसनासुखम् ।स्वादु सञ्जनयत्यन्नमस्वादु विपर्य्ययम्
अत्युष्णान्नं बलं हन्ति शीतं शुष्कञ्च दुर्ज्जरम् ।अतिक्लिन्नं ग्लानिकरं युक्तियुक्तं हि भोजनम्
अतिद्रुताशिताहारो गुणान् दोषान्न बिन्दति ।भोज्यं शीतमहृद्यञ्च स्याद्बिलम्बितमश्नतः
”गुरु त्रिविधं तन्निवारयन्नाह ।“मन्दानलो नरो द्रव्यं मात्रागुरु विवर्ज्जयेत् ।स्वभावतश्च गुरु यत्तथा संस्कारतो गुरु
मात्रागुरुस्तु मुद्गादिर्माषादिः प्रकृतेर्गुरुः ।संस्कारगुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम्
*
आहारं षड्विधं चूष्यं पेयं लेह्यं तथैव ।भोज्यं भक्ष्यं तथा चर्व्यं गुरु विद्याद्यथोत्तरम्
”चूष्यं इक्षुदाडिमादि पेयं पानकशर्करोद-कादि लेह्यं रसालाक्वथितादि क्वथिताकटी इति लोके भोज्यं भक्तसूपादि भक्ष्यंलड्डुकमण्डकादि चर्व्व्यं चिपिटचणकादि
स्वभावगुरुसंस्कारगुरुणोः स्वभावलघुनश्चभक्ष्यस्य भोजनपरिमाणमाह ।“गुरूणामर्द्धसौहित्यं लघूनां तृप्तिरिष्यते ।”अयमर्थः माषपिष्टान्नादिभिरर्द्धं सौहित्यंकर्त्तव्यं मुद्गादिभिः स्वाभाविक्या मात्रया तृप्तिःकर्त्तव्येत्यर्थः ।“द्रवो द्रवोत्तरश्चापि मात्रागुरुरिष्यते ।”द्रवः पेयादि द्रवोत्तरः तक्राद्यधिक ओद-नादिर्मात्रातोऽधिकोऽपि मात्रागुरुर्न मन्तव्यः ।पेयस्य सर्व्वतो लघुत्वात् ! उक्तञ्च सुश्रुतेन ।पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरमिति ।पेयं पय आदि लेह्यं रसालादि अद्यंओदनसूपादि भक्ष्यं मोदकादि ।“द्रवाढ्यमपि शुष्कन्तु सम्यगेवोपपद्यते ।विशुष्कमन्नमभ्यस्तं पाकं साधु गच्छति
”अयमर्थः शुष्कमपि स्रोतोरोधकरमपिद्रवाढ्यं सम्यक् पाकं याति केवलस्य शुष्क-स्यान्नस्य दोषमाह विशुष्कमन्नभित्यादि
अपक्वं तत् किं भवतीत्यपेक्षायामाह ।“पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति ।”पिण्डीकृतं अष्ठीलावद्भूतम् असंक्लिन्नंअसम्यगार्द्रम् विदाहमुपगच्छति विदग्धंभवतीत्यर्थः
शुष्कादीनां वैगुण्यमाह ।शुष्कं विरुद्ध्वं विष्ठम्भि वह्निव्यापादमावहेत् ।”शुष्क चिपिटादि विरुद्धं क्षीरमत्स्यादि ।विष्टाम्भि चणकमसूरादि वह्निमान्द्यं कुर्य्यात् ।“न भुक्त्वा रदैश्छित्त्वा निशायां वाबहून् ।”न जलान्तरितान्न द्विः शक्तूनद्यान्न केवलान्
पुनर्द्दानं पृथक् पानं सामिषं पयसा निशि ।दन्तच्छेदनमुष्णञ्च सप्त शक्तुषु वर्ज्जयेत्
”विषमाशनस्य लक्षणमाह ।“बहुस्तोकमकाले वा ज्ञेयं तद्विषमाशनम् ।”बहुलाल्पस्य भक्षितस्य दोषमाह ।“आलस्यगौरवाटोपशब्दांश्च कुरुतेऽधिकम् ।हीनमात्रं तनोः कार्श्यं करोति बलक्षयम्
”अधिकं अन्नम्
अकाले भुक्तस्य दोषमाह ।“अप्राप्तकालो भुञ्जानोऽप्यसमर्थतनुर्नरः ।तांस्तान् व्याधीनवाप्नोति मरणञ्चाधिगच्छति
”अप्राप्तकालः कालादतिप्राक् भुञ्जानोऽसमर्थ-शरीरो भवति तथा सति तांस्तान् व्याधीन्शिरोव्यथाविसूचिकालसकबिलम्बिकादीन्प्राप्नोति तेषामाधिक्ये मरणमपि प्राप्नो-तीत्यर्थः ।“कालेऽतीतेऽग्रतो जन्तोर्व्वायुनापहतेऽनले ।कृच्छ्राद्विपच्यते भुक्तं स्याद्भोक्तुं पुनः स्पृहा
कुक्षेर्भागद्वयं भोज्यैस्तृतीयं वारि पूरयेत् ।वायोः सञ्चरणार्थाय चतुर्थमवशेषयेत्
रसेनान्नस्य रसना प्रथमेनोपतर्पिता ।न तथा स्वादुमाप्नोति ततः सेच्याम्बुनान्तरा
अत्यम्वुपानान्न विपच्यतेऽन्न-मनम्बुपानाच्च एव दोषः ।तस्मान्नरो वह्निविवर्द्धनायमुहुर्मुहुर्व्वारि पिबेदभूरि
भुक्तस्यादौ जलं पीतं कार्श्यमन्दाग्निदोषकृत् ।मध्येऽग्निदीपनं श्रेष्ठमन्ते स्थौल्यकफप्रदम्
”अन्यच्च ।“समस्थूलकृशा भुक्तमध्यान्तप्रथमाम्बुपाः ।”इति वाग्भटः
भुक्तं भोजनम् ।“तृषितस्तु चाश्नीयात् क्षुधितो पिबेज्जलम् ।तृषितस्तु भवेद्गुल्मी क्षुधितस्तु जलोदरी
”ननु शिष्टा भोजनान्ते दुग्धं पिबन्ति तत् कथ-मुचितम् यतस्त्रिधा विभक्तस्य भोजन-कालस्य प्रथमो भागो वातस्य द्वितीयः पित्तस्यतृतीयः कफस्य अतएवाह ।“अश्नीयात्तन्मना भूत्वा पूर्व्वन्तु मधुरं रसम् ।मध्येऽम्ललवणौ पश्चात् कटुतिक्तकषायकान्
”अस्यायमभिप्रायः भोजने पूर्व्वं भुक्तो मधुरोरसो बुभुक्षितस्य वातपित्तयोः शमको भवति ।“भोजनमध्ये भुक्तावम्ललवणौपित्ताशये वह्निवृद्धिं कुरुतः ।भोजनान्त्यसमये भुक्ताः कटुतिक्त-कषाया रसा कफं शमयन्तीति ।”अतो भोजनावसानसमयस्य कफकाल-त्वात्तत्र कथं श्लेष्मजनकं दुग्धं पातुमुचितंभवति यत उक्तम् ।“दुग्धं स्वादुरसं स्निग्धमोजस्यं धातुवर्द्धनम् ।वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलमिति
”उच्यते ।“विदाहीन्यन्नपानानि यानि भुङ्क्ते हि मानवः ।तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिबेत्
”अतएव ब्रह्मपुराणे ।“कुर्य्यात् क्षीरान्नमाहारं दध्यन्नं कदाचनेति
लवणाम्लकटूष्णानि विदाहीन्यति यानि तु ।तद्दोषं हर्त्तुमाहारं मधुरेण समापयेत्
”भोजनावसानसमये दुग्धादिमधुरभोजनेनैववर्द्धितकफो लवणाम्लकटुभोजनजनितां पित्तस्यवृद्धिं नाशयति पित्तवृद्धिनाशनेन कफस्यापिवृद्धिरुपक्षीणा भवति क्षीणकफवृद्धिरग्निमान्द्या-दीन् व्याधीन् उत्पादयितुं शक्नोति
“एवं भुक्त्वा समाचामेत् रूक्षग्रहणपूर्व्वकम् ।भोजने दन्तलग्नानि निर्हृत्याचमनञ्चरेत्
दन्तलग्नमनिर्हार्य्यं लेपं मन्येत दन्तवत् ।न तत्र बहुशः कुर्य्याद्यत्नं निर्हरणं प्रति
आचम्य जलयुक्ताभ्यां पाणिभ्यां चक्षुषीस्पृशेत् ।भुक्त्वा पाणितले घृष्ट्वा चक्षुषोर्यदि दीयते ।अचिरेनैव तद्वारि तिमिराणि व्यपोहति
भुक्त्रा संस्मरेन्नित्यमगस्त्यादीन् सुखावहान् ।विष्णुरात्मा तथैवान्नं परिणामश्च वै यथा ।सत्येन तेन यद्भुक्तं जीर्य्यत्यन्नमिदं तथा
अगस्तिरग्निर्वडवानलश्चभुक्तं ममान्नं जरयत्वशेषम् ।सुखञ्च मे तत् परिणामसम्भवंयच्छत्वरोगं मम चारुदेहे
अङ्गारकमगस्तिञ्च पावकं सूर्य्यमश्विनौ
यश्चैतान् संस्मरेन्नित्यं भुक्तं तस्याशु जीर्य्यति
इत्युच्चार्य्य स्वहस्तेन परिमार्ज्य तथोदरम् ।अनायासप्रदायीनि कुर्य्यात् कर्म्माण्यतन्द्रितः
”अतन्द्रितः जाग्रत्तिष्ठेन्न तु सुप्यात् भुक्त-मात्रस्य तु स्वप्नान्मन्दाग्निः कुपितः कफ इतिवचनात् ।“जीर्णेऽन्ने वर्द्धते वायुर्विदग्धे पित्तमेधते ।भुक्तमात्रे कफश्चापि क्रमोऽयं भोजनोपरि
”विदग्धे किञ्चित्पक्वे पित्तमेधते किञ्चिदपक्वेकफः
भुक्तमात्रे संजातकफस्य प्रतीकारमाह ।“धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः
पूगकर्पूरकस्तूरी लवङ्गसुमनःफलैः ।फलैः कटुकषायैर्वा मुखवैषद्यकारिभिः ।ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः
”धूभेन अगुर्व्वादिधूमेन अपोह्य कफं दूरी-कृत्य कषायकटुतिक्तकैः फलैः कर्पूरकस्तूरी-लवङ्गादिभिः पूगैः क्रमुकैः सुमनःफलैःजातीफलैः
फलैः एलाहरीतक्यादिफलैः ।“रते सुप्तोत्थिते स्नाते भुक्ते वान्ते सङ्गरे ।सभायां विदुषां राज्ञां कुर्य्यात्ताम्बूलभक्षणम्
भुक्त्वा शतपदीं गच्छेच्छनैस्तेन तु जायते ।अन्नसंघातशैथिल्यं ग्रीवाजानुकटीसुखम्
भुक्त्रोपविशतस्तुन्दं शयानस्य तु पुष्टता ।आयुश्चंक्रममाणस्य मृत्युर्धावति धावतः
”चंक्रममाणस्य पदशतं शनैर्गच्छतः
*
“श्वासानष्टौ समुत्तानस्तान् द्विः पार्श्वे तु दक्षिणे ।ततस्तद्द्विगुणान् वामे पश्चात् सुप्यात् यथासुखम् ।वामदिशायामनलो नाभेरूर्द्ध्वोऽस्ति जन्तूनाम् ।तस्मात्तु वामपार्श्वे शयीत भुक्तप्रपाकार्थम्
त्रिदोषशमनी खट्वा तूली वातकफापहा ।भूशय्या वृं हणी वृष्या काष्ठपट्टी तु वातुला
”इति भावप्रकाशः
*
अन्यच्च ।“स्नातो यथावत् कृत्वा देवर्षिपितृतर्पणम् ।प्रशस्तरत्नपाणिस्तु भुञ्जीत प्रयतो गृही
कृते जप्ये हुते वह्नौ शुद्धवस्त्रधरो नृप ! ।दत्त्वातिथिभ्यो विप्रेभ्यो गुरुभ्यः संश्रिताय तु
पुण्यगन्धधरः शस्तमाल्यधारी नरेश्वर ! ।नैकवस्त्रधरोऽथार्द्रपाणिपादो नरेश्वर !
विशुद्धवदनः प्रीतो भुञ्जीत विदिङ्मुखः ।प्राङ्प्रखोदङ्मुखो वापि चैवान्यमना नरः
”“अन्नं प्रशस्तं पथ्यञ्च प्रोक्षितं प्रोक्षणोदकैः ।न कुत्सिताहृतञ्चैव जुगुप्सावदसंस्कृतम्
दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस्तथा गृही ।प्रशस्तशुद्धपात्रेषु भुञ्जीताकुपितो नृप !
नासन्दीसंस्थिते पात्रे नादेशे नरेश्वर ! ।नाकाले नातिसङ्कीर्णे दत्त्वाग्रञ्च नरोऽग्नये
आसन्दी दारुमयत्रिपदी ।“मन्त्राभिमन्त्रितं शस्तं पर्य्युषितं नृप ! ।अन्यत्र फलमांसेभ्यः शक्तुशाकादिकान्तथा
तद्वद्धरितकेभ्यश्च गुडपक्वेभ्य एव ।भुञ्जीतोद्धृतसाराणि कदाचिन्नरेश्वर !
”हरितकेभ्यः अपक्वलेह्यादिभ्यः
“नाशेषं पुरुषोऽश्नीयादन्यत्र जगतीपते ! ।मध्वम्बुदधिसर्पिभ्यः शक्तुभ्यश्च विवेकवान्
अश्नीयात्तन्मयो भूत्वा पूर्व्वन्तु मधुरं रसम् ।लवणाम्ले तथा मध्ये कटुतिक्तादिकांस्ततः
प्राक् द्रवं पुरुषोऽश्नीयान्मध्ये कठिनाशनम् ।अन्ते पुनर्द्रवाशी तु बलारोग्ये मुञ्चति ।अनिन्द्यं भक्षयेदित्थं वाग्यतोऽन्नमकुत्सयन् ।पञ्चग्रासं महामौनं प्राणाद्याप्यायनादि तत्
भुक्त्वा सम्यगथाचम्य प्राङ्मुखोदङ्मुखोऽपि वा ।यथावत् पुनराचामेत् पाणी प्रक्षाल्य मूलतः
स्वस्थः प्रशान्तचित्तश्च कृतासनपरिग्रहः ।अभीष्टदेवतानाञ्च कुर्व्वीत स्मरणं नरः
अग्निराप्याययत्वन्नं पार्थिवं पवनेरितः ।दत्तावकाशं नभसा जरयत्वस्तु मे सुखम्
अन्नं बलाय मे भूमेरपामग्न्यनिलस्य ।भवत्वेतत्परिणतौ ममास्त्वव्याहतं सुखम्
प्राणापानसमानानामुदानव्यानयोस्तथा ।अन्नं पुष्टिकरञ्चास्तु ममास्त्वव्याहतं सुखम्
अगस्तिरग्निर्वडवानलश्चभुक्तं मयान्नं जरयत्वशेषम् ।सुखञ्च मे तत्परिणामसम्भवंयच्छत्वरोगं मम चास्तु देहे
विष्णुः समस्तेन्द्रियदेहदेहि-प्रधानभूतो भगवान् यथैकः ।सत्येन तेनान्नमशेषमेत-दारोग्यदं मे परिणाममेतु
विष्णुरत्ता तथैवान्नं परिणामश्च वै तथा ।सत्येन तेन मे भुक्तं जीर्य्यत्वन्नमिदं तथा
इत्युच्चार्य्य स्वहस्तेन परिमृज्य तथोदरम् ।अनायासप्रदायीनि कुर्य्यात् कर्म्माण्यतन्द्रितः
सच्छास्त्रादिविनोदेन सन्मार्गादविरोधिना ।दिनं नयेत्ततः सन्ध्यामुपतिष्ठेत् समाहितः
”इति विष्णुपुराणे अंशे ११ अध्यायः
*
अपरञ्च ।“भुञ्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ।भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेद्व्रती
भैक्षेण वृत्तिनो वृत्तिरुपवाससमा स्मृता ।पूजयेदशनं नित्यमद्याच्चैनदकुत्सयन्
दृष्ट्वा हृष्येत् प्रसीदेच्च प्रतिनन्देच्च सर्व्वशः ।अनारोग्यमनायुष्यमस्वर्ग्यञ्चातिभोजनम् ।अपुण्यं लोकविद्विष्टं तस्मात्तत् परिवर्जयेम्
प्राङ्मुखोऽन्नानि भुञ्जीत सूर्य्याभिमुख एव वा ।नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः
प्रक्षाल्य पाणी पादौ भुञ्जानो द्विरुपस्पृशेत् ।शुचौ देशे समासीनो भुक्त्वा द्विरुपस्पृशेत्
नाश्नीयाद्भार्य्यया सार्द्धं नैनामीक्षेत मेहतीम् ।न भक्षयेदभक्ष्याणि नापेयं वा पिबेद्द्विजः
”अभक्ष्यान्नन्तु भक्तशब्दे द्रष्टव्यम्
*
“भुञ्जीत बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् ।अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तम ! ।भुञ्जीत चेदमूढात्मा तिर्य्यग्योनिं गच्छति
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षया ।नाशयत्याशु पापानि देवानामर्च्चनन्तथा
यो मोहादथवालस्यादकृत्वा देवतार्च्चनम् ।भुङ्क्ते याति नरकान् शूकरेष्वभिजायते
तस्मात् सर्व्वप्रयत्नेन कृत्वा कर्म्माणि वै द्विजः ।भुञ्जीत स्वजनैः सार्द्धं याति परमां गतिम्
”इति कौर्म्मे उपविभागे १७ अध्यायः
*
व्यास उवाच ।“प्राङ्मुखोऽन्नानि भुञ्जीत सूर्य्याभिमुख एव वा ।आसीनस्त्वासने शुद्धे भूम्यां पादौ निधाय तु
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः
श्रियं प्रत्यङ्मुखो भुङ्क्ते हृयतं भुङ्क्ते उदङ्मुखः
पञ्चार्द्रो भोजनं कुर्य्याद्भूमौ पात्रं निधाय तु ।उपवासेन तत्तुल्यं मनुराह प्रजापतिः
उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ ।आचम्यार्द्राननोऽक्रोधः पञ्चार्द्रो भोजनञ्चरेत्
महाव्याहृतिकं भिन्नं परिधायोदकेन तु ।अमृतोपस्तरणमसीत्यापोऽशानक्रियाञ्चरेत्
खाहाप्रणवसंयुक्तां प्राणापानाहुतिन्ततः ।अपानाय ततः कृत्वा व्यानाय तदनन्तरम्
उदानाय ततः कुर्य्यात् समानायेति पञ्चमीम् ।विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः
शेषमन्नं यथोक्तञ्च भुञ्जीत व्य्यञ्जनैर्युतम् ।ध्यात्वा तन्मनसा देवमात्मानं वै प्रजापतिम्
अमृतापिधानमसीत्युपरिष्टादपः पिबेत् ।आचान्तः पुनराचामेदायं गौरीतिमन्त्रतः
द्रुपदां वा त्रिरावाह्य सर्व्वपापप्रणाशिनीम् ।प्राणानां ग्रन्थिरसीत्यालभेद्धृदयन्ततः
आचम्याङ्गुष्ठमात्रेति पादाङ्गुष्ठेऽथ दक्षिणे ।निःस्रावयेद्धस्तजलं मूर्द्धहस्तः समाहितः
हुत्वान्नमन्त्रणं कुर्य्यात् सन्ध्यायामिति मन्त्रतः ।अथाक्षरेण स्वात्मानं योजयेद्ब्राह्मणोऽति हि
सर्व्वेषामेव योगानामात्मयोगः परः स्मृतः ।योऽनेन विधिना कुर्य्यात् याति ब्रह्मणःक्षयम्
यज्ञोपवीती भुञ्जीत स्रग्गन्धालङ्कतो नरः ।सायं प्रातर्नान्तरा वै सन्ध्यायान्तु विशेषतः
नाद्यात् सूर्य्यग्रहात् पूर्व्वमह्नि सायं शशिग्रहात् ।ग्रहकाले तु नाश्नीयात् स्नात्वाश्नीयात्तु मुक्तयोः ।मुक्ते शशिनि भुञ्जीत यदि स्यान्महानिशा
अमुक्तयोरस्तं गतयोः स्नात्वा दृष्ट्वा परेऽहनि ।नाश्नीयात् प्रेक्षमाणानामप्रदायैव दुर्म्मतिः
नायज्ञशिष्टादन्यद्वा क्रुद्धो नान्यमानसः
आत्मार्थं भोजनं यस्य रत्यर्थं यस्य मैथुनम् ।वृत्त्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम्
यद्भुङ्क्ते वेष्टितशिरा यच्च भुङ्क्ते उदङ्मुखः ।सोपानत्कश्च यद्भुङ्क्ते सर्व्वं विद्यात्तदासुरम्
नार्द्धरात्रे मध्याह्ने नाजीर्णे नार्द्रवस्त्रधृक् ।न भिन्नासनगतो शयानः स्थितोऽपि वा
भिन्नभाजने चैव भूम्यां पाणिषु ।नोच्छिष्टो घृतमादद्यान्न मूर्द्धानं स्पृशेदपि
ब्रह्म कीर्त्तयेद्वापि निःशेषं भार्य्यया ।नान्धकारे नाकाशे देवालयादिषु
नैकवस्त्रस्तु भुञ्जीत यानस्थितोऽपि वा ।न पादुकानुगतो वा हसन् विलपन्न हि
भुक्त्वैवं सुखमास्थाय तदन्नं परिणामयेत्
”इति कूर्म्मे उपविभागे १८ अध्यायः
*
अपरञ्च ।“दत्त्वा हुत्वा पितृदेवताभ्योभृत्वातिथीन् भृत्यजनावशिष्टम् ।तुष्टः शुचिः श्रद्दधानोऽत्ति योऽन्नंतस्यामृतं स्यात् पुमान् भुनक्ति
”सायं प्रातर्मनुष्याणामशनं देवनिर्म्मितम् ।धैदिके लौकिकेऽग्नौ तु प्रत्यक्षे जाठरे तथा
उपलिप्ते समे देशे शुचिः श्रद्धासमन्वितः ।पात्रेष्वर्थानुरूपेषु पुत्त्रशिष्यादिभिर्वृतः
सुसंस्कृतं हितं स्निग्धं भुञ्जीतान्नमकुत्सयन् ।यवगोधूमशाल्याट्यं मांसशाकादिभिर्युतम्
कट्वम्ललवणैस्तिक्तैर्व्यञ्जनैस्तु सुगन्धिभिः ।भक्ष्यप्रकारान् विविधान् कन्दमूलफलानि
पात्रं भूमौ प्रतिष्ठाप्य यो भुङ्क्ते वाग्यतः शुचिः ।भोजने भोजने चैव त्रिरात्रफलमश्नुते
यत्नेन धारयेद्विप्रः पवित्रं दक्षिणे करे ।भुञ्जानस्तु विशेषेण अन्नदोषैर्न लिप्यते
यातुधानाः पिशाचाश्च असुरा राक्षसास्तथा ।घ्नन्ति केबलमन्नस्य मण्डलस्य विवर्ज्जनात्
आदित्या वसवो रुद्रा ब्रह्मा चैव पितामहः ।मण्डलान्युपजीवन्ति तस्मात् कुर्व्वीत मण्डलम्
चतुष्कोणं द्बिजाग्रस्य त्रिकोणं क्षत्त्रियस्य तु ।द्विकोणाकृति वैश्यस्य शूद्रस्य वर्त्तुलं सदा
लौहे मृण्मये पात्रे भिन्नेऽश्नीयात् कटेऽम्बरे ।आपः पुनन्त्वितिमन्त्रेण भुव्यास्तीर्य्य समासनम्
”ध्रुवा द्यौरित्युपविश्य पात्रं प्रक्षाल्य मूर्द्धानंदिवोऽरतिमितिपात्रमभिमन्त्र्य भूम्यावृत्वायनेतिभूमौ पात्रं प्रतिष्ठापयेत् आहतवासाः शुक्ल-वासा वा पवित्रात्मा क्षान्तात्मा प्राङ्मुखआसीनः पाणी प्रक्षाल्य दशहोतारन्निगद्येतिध्यायेदव्यक्तं पुरुषम् तत ओजोऽसीत्यन्नाद्य-माह्रियमाणं प्रतिपत्तयेत् ओजोसीत्यादिनाप्रतिगृह्य अहमस्म्यग्निरश्मीत्यृग्भ्यामभिमन्त्रयेत् ।उद्बुध्यस्वेति जाठराग्निमन्तरस्थं प्रबोधयेत् ।भूतपतये नमः भुवनपतये नमः भूतानां पतयेनमः इति नमस्कारान्ते बलित्रयं भूमौ दद्यात् ।अथात्रैवात्मानं चिन्तयेत् ।“प्राणस्य हृदयं स्थानमपानस्य गुदं स्मृतम् ।समानो नाभिदेशे तु उदानः कण्ठमाश्रितः
पञ्चमः तु विज्ञेयो व्यानः सर्व्वाङ्गसन्धिषु ।राजीवसदृशः प्राणो हृदये नित्यसंस्थितः
तस्याधस्तादपानस्तु वै गोक्षीरसन्निभः ।नाभ्या मध्ये समानस्तु विद्युज्ज्वालासमप्रभः
प्राणस्योपर्य्युदानस्तु इन्द्रनीलसमप्रभः ।उभाभ्यामथ शाखाभ्यामथवाप्येकशाखया ।अशून्यं पात्रं कुर्व्वीत एवं हानिर्न जायते
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुख ! ।त्वं यज्ञस्त्वं वषट्कारस्त्वं विष्णोः परमं पदम्
”अभृतोपस्तरणमसीत्यपः स्पृश्योपस्थाय वाचंनियच्छेत् न्यस्तं महाव्याहृतिभिरद्भिः प्रदक्षिणंपरिषिच्य सव्येन पाणिना पात्रमविमुञ्चन्नमृतो-पस्तरणमसीति पुरस्तादपः पीत्वा पञ्चभिस्तैःप्राणाहुतीर्ज्जुहोति प्राणे निविष्टोऽमृतं जुहोमिशिवोमाविशाप्रदाहाय प्राणाय स्वाहा ।अपाने निविष्टोऽमृतं जुहोमि शिवोमाविशा-प्रदाहायापानाय स्वाहा व्याने निविष्टोऽमृतंजुहोमि शिवोमाविशाप्रदाहाय समानायस्वाहा इति तूष्णीं भूयो व्रतयेत् प्रजापतिंमनसा ध्यायेत्
*
प्राणाय स्वाहेति प्राण-स्तृप्यति प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषितृप्यति आदित्यस्तृप्यति आदित्ये तृप्यतिद्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्चिद्द्यौ-श्चादित्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं अनु-तृप्यति व्यानाय स्वाहेति व्यानस्तृप्यति ।व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्र-मास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति ।दिक्षु तृप्यन्तीषु यत्किञ्चिद्दिशः खं चन्द्रमा-श्चाधितिष्ठन्ति तत्तृप्यति तस्यानुतृप्तिं अनु-तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्च्च-सेनेति अपानाय स्वाहेत्यपानस्तृप्यति अपानेतृप्यति वाक् तृप्यति वाचि तृप्यन्त्यां अग्नि-स्तृप्यति अग्नौ तृप्यति पृथिवी तृप्यति ।पृथिव्यां तृप्यन्त्यां यत्किञ्चित् पृथिवी वाग्नि-श्चाधितिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं अनुतृप्यति ।तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्च्च-सेनेति समानाय स्वाहा इति समानस्तृप्यति ।समाने तृप्यति मनस्तृप्यति मनसि तृप्यतिपर्य्यन्यस्तृप्यति पर्य्यन्ये तृप्यति विद्युत्तृप्यति ।विद्युति तृप्यन्त्यां यत्किञ्चिद्धिद्युत्पर्य्यन्यश्चाधि-तिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं अनुतृप्यतिप्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्च्चसेनेति ।उदानाय स्वाहेति उदानस्तृप्यति उदानेतृप्यति वायुस्तृप्यति वायौ तृप्यति आकाश-स्तृप्यति आकाशे तृप्यति यत्किञ्चिद्वायु-श्चाकाशश्चाधितिष्ठतस्तत्तृप्यति तस्यानुतृप्ति-मनुतृप्यति प्रजया पशुभिरन्नाद्येन तेजसाब्रह्मवर्च्चसेनेति
*
“भुक्तेऽन्नेकेचित्काङ्क्षन्ति भुक्तशेषं भुविक्षिपेत् ।केचित काङ्क्षन्त्यनाजीवाः केचित् कर्म्मवशा-नुगाः
भुञ्जन्तु मम चोत्सृष्टं पात्रे वाथ मुवि स्थिते ।अमृतापिधानमसीत्युपरिष्टात् पयः पिबेत्
अह्नि पूर्व्वोपरिष्टाच्च वस्त्रं प्राणस्य निर्णयेत् ।भुक्त्रा पीत्वा यः कश्चित् शून्यं पात्रं समुत्सृजेत्
पुनः क्षुत्पिपासार्त्तो भवेज्जन्मनि जन्मनि ।अमृतापिधानमसीत्युपरिष्टादपः पिबेत्
”अपः पीत्वाचान्तः प्राणस्थानान्यद्भिः स्पृशति ।प्राणानां ग्रन्थिरसीति हृदयमालभ्य जपतिप्राणानां ग्रन्थिरसि इति प्राणदेशम् विष्णो-र्जठरमसीतिनाभिदेशम् यो देवानामधि-पतीति पुनरपि हृदयदेशमालभ्य जपति ।सावित्रीञ्चानुभाष्य त्रिरापो रसानां रसभुक्तत्रात्मा कर्म्मेष्टिः प्रीयतां विश्वभुगिति ध्यायेद-व्यक्तं पुरुषम्
*
“आहिताग्निरनड्वांश्च ब्रह्मचारी ते त्रयः ।अश्नन्त एव सिद्ध्यन्ति नैषां सिद्धिरनश्नताम्
गृहस्थो ब्रह्मचारी योऽनश्नंस्तु तपश्चरेत् ।प्राणाग्निहोत्रलोपेन अवकीर्णी भवेत्तु सः
अन्तराप्रातराशञ्च सायमाशन्तथैव ।सदोपवासी भवति यो भुड्क्ते कदाचन
प्राणाग्निहोत्रमन्त्राणां निरुद्धे भोजने जपेत् ।त्रेधाग्निहोत्रमन्त्रांस्तु द्रव्यालाभेन तर्पयेत्
यथाहि नलमैषीकमग्निप्रोतं प्रहूयते ।तद्वत् सर्व्वाणि पापानि निर्दहन्त्यात्मयाजिनः
यथेह क्षुधिता बाला मातरं पर्य्युपासते ।एवं सर्व्वाणि भूतानि अग्निहोत्रमुपासते
”इति
*
“भोजनस्य निषेधन्तु प्रवक्ष्याम्यनुपूर्व्वशः ।नोच्छ्रितो भक्षयेत् किञ्चिन्न गच्छन् वा कदाचन
खट्वारूढो भुञ्जीत पाणिस्थं कदाचन ।चन्द्रसृर्य्योपरागे ग्रस्तास्ते चन्द्रसूर्य्ययोः
गोब्राह्मणोपवासेन वाजीर्णे तु भोजने ।निशीथे नैकवासास्तु लग्नोच्छिष्टभाजने
रात्रौ तिलसम्बद्धं दधि शक्तून्न माक्षिकम्
कोविदारवटाश्वत्थफलानि कदाचन ।चणकञ्च कौसुम्भं करमथितञ्च यद्दधि
वेद्या बहिः पुरोडाशं तुल्यं गोमांसभक्षणे ।नोच्छिष्टेन घृतं ग्राह्यं शक्तून् वापद्गतोऽपि सन् ।पलाण्डुं लशुनं वापि भुञ्जंस्तत्पापमाप्नुयात्
नानार्द्रमुखपाणिस्तु चन्द्रतारार्कमीक्षयेत् ।भुञ्जन् कुर्व्वन् स्वमूर्द्धानं स्पृशेद् ब्रह्म कीर्त्तयेत्
नार्द्रवासाः शिरःक्लिन्नः सोपानत्को निरासनः ।शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकम्
नाश्नीयान्न पिबेच्चैव कृत्वा पर्य्यस्तिकां नरः ।पादप्रसारणं कृत्वा वेष्टितमस्तकः
श्राद्धस्य यच्छिष्टं ग्रहे पर्य्युषितञ्च यत् ।दम्पत्योर्भुक्तशेषन्तु भुञ्जीत कदाचन
नातिचरितमश्नीयात् भुक्त्रा शेषं विवर्ज्जयेत् ।न भक्षयेत्तु निःशेषमन्यत्र दधिसर्पिषोः
पयसो मधुशक्तूनां तिलानामोदनस्य ।न चैको मिष्टमश्नीयान्न बहूनाञ्च पश्यताम्
बहवस्तु भुञ्जन्ति तथा चकस्य पश्यतः ।ओष्ठौ लिहेत् पाणिं नाङ्गुलिं पात्रमेव
शून्यालयेऽग्निशालायां देवागारे तथैव ।आयुर्निरस्यते तस्य मिष्टैकस्य बुभुक्षतः
अदत्त्वा गोऽग्निविप्रेभ्यः कुमारायानुयायिषु ।एकोऽन्नं मिष्टमश्नाति ततोऽन्यो नास्त्यपुण्यकृत्
यस्त्वेकपङ्क्त्यां विषमं ददातिस्नेहाद्भयाद्वा यदि वार्थहेतोः ।वेदेषु दृष्टामृषभिस्तु गीतांतां ब्रह्महत्यां मुनयो वदन्ति
एकपङ्क्त्युपविष्टानां दुष्कृतानां दुरात्मनाम् ।सर्व्वेषां तत्समं तावद्यावत् पङ्क्तिर्न भिद्यते
एवं यो ब्राह्मणो भुङ्क्ते सन्तर्प्य पितृदेवताः ।स द्वे कुले समुद्धृत्य ब्रह्मसायुज्यमाप्नुयात्
”इति वह्निपुराणे भोजनविधानम्
*
त्रिविधभोजनं यथा, --“उच्छिष्टमवशिष्टं वा पथ्यं पूतमभीप्सितम् ।भक्तानां भोजनं विष्णोर्नैवेद्यं सात्त्विकं मतम्
इन्द्रियप्रीतिजननं शुक्रशोणितवर्द्धनम् ।भोजनं राजसं शुद्धमायुरारोग्यवर्द्धनम्
अतः परं तामसानां कट्वम्लोष्णाविदाहिकम् ।पूतिपर्य्युषितं ज्ञेयं भोजनं तामसप्रियम्
”इति कल्किपुराणे २५ अध्यायः
*
श्राद्धादिषु निमन्त्रितस्यान्यत्र भोजने दोषोयथा, --“निमन्त्रितोऽन्यतो भुङ्क्ते श्राद्धे दैवे सपैतृके ।स द्विजो नरके वासं लभते नात्र संशयः
”देवतादिष्वभुक्तवत्सु भोजने दोषा यथा, --“देवतापितृमर्त्येषु महत्सु ब्राह्मणेषु ।अभुक्तवत्सु येऽश्नन्ति बालपित्रग्निमातृषु
दुष्टास्ते पूयनिचये निपात्यन्तेऽधमाधमाः ।सूचीमुखाश्च जायन्ते क्षुधार्त्ताः किरिविग्रहाः
”“एकपङ् क्त्युपविष्टाश्च समुत्थाय प्रयान्ति ये ।विड्भोजनं राक्षसेन्द्र ! नरकन्ते प्रयान्ति हि
एकसार्थप्रयातञ्च तथान्यञ्चार्थितं नराः ।असंविभज्य भुञ्जन्ति ते यान्ति श्लेष्मभोजनम्
पायसं कृशरं मांसं वृथा भुक्तञ्च यैर्नरैः ।तेषामयोगुडास्तप्ताः क्षिप्यन्ते वदनेऽद्भुताः
”इति वामनपुराणे १२ अध्यायः
*
औषधातिरिक्तकिञ्चिद्भोजनवतो नित्यनैमित्तिक-क्रियानिषेधो यथा, --“द्रव्ये भुक्ते त्वजीर्णे नैव भुक्त्रा किञ्चन ।कर्म्म कुर्य्यान्नरो नित्यं सूतके मृतके तथा
पत्रं पुष्पञ्च ताम्बूलं भेषजत्वेन कल्पितम् ।कणादिपिप्पल्यन्तञ्च फलं भुक्वा चाचरेत्
जलस्यापि नरश्रेष्ठ ! भोजनाद्भेषजादृतें ।नित्यक्रिया बिवर्त्तेत सह नैमित्तिकैः सदा
”इति कालिकापुराणे ५४ अध्यायः
भोजने पाकविधौ दिङ्नियमो यथा, --“पूर्व्वाशाभिमुखो भूंत्वा उत्तराशामुखेन वा ।पचेदन्नञ्च मध्याह्ने सायाह्ने विवर्ज्जयेत्
अग्न्याशाभिमुखे पक्त्वा अमृतान्नं विजानीहि ।पूर्व्वामुखो धर्म्मकामः शोकहानिश्च दक्षिणे
श्रीकामश्चोत्तरमुखे पतिकामश्च पश्चिमे ।ऐशान्याभिमुखे पक्त्वा दरिद्रो जायते नरः
”पाकपात्रनिरूपणं यथा, --“यदा तु आयसे पात्रे पक्त्वा अश्नाति वै द्विजः ।स पापिष्ठोऽपि भुङ्क्तेऽन्नं रौरवे परिपच्यते
ताम्रे पक्त्वा चक्षुर्हानिर्मणौ भवति वै क्षयः ।पितृभ्यां पक्वमन्नञ्च पितृव्येण यशस्विनि !
पुण्डरीकस्य यज्ञस्य लभते फलमीप्सिंतम् ।वातुलेन तु यत् पक्वं भगिन्या कनिष्ठया ।असगोत्रेण यत् पक्वं शोणितं तदपि स्मृतम्
अभक्तेन यत् पक्वं स्त्रिया पक्वं तथैव ।पक्वपात्रे यत् पक्वं तत् सर्व्वं निष्फलं भवेत्
”पाककाष्ठनिरूपणं यथा, --“उडुम्बरेण काष्ठेन कदम्बस्य दलेन ।शालेन करमर्द्देन उदरावर्त्तकेन
पक्त्वान्नं नैव भुञ्जीत भुक्त्रा रात्रिमुपावसेत
”निषिद्धान्नं यथा, --“गर्हितान्नमवीरान्नं भुक्त्वा चान्द्रायणञ्चरेत् ।अप्रजा या तु वनिता नाश्नीयादेव तद्गृहे
शालकाष्ठस्य पक्वान्नं शिरीषकस्य चैव हि ।कालचण्डातकस्यैव वज्रवारणकस्य
भेरण्डशाल्मलैर्वापि पक्वान्नं गर्हितं स्मृतम्
”पाकपात्रत्यागकालो यथा, --“यदा मृण्मयपात्रे तु पक्वं वै सार्व्वकालिकम् ।मासें पक्षे तथाष्टासु तत्पात्रं विसृजेद् गृही
धनुःपाके तथा सिंहे मीने चैव वरानने ! !यः कुर्य्याद्भोजनं देवि ! कृच्छ्रेणेव विशुद्ध्यति
”पाकार्थजलदानं यथा, --“एकदा तु जलं दद्याद् द्बिवारं प्रदापयेत् ।त्रिभागं पूरयेत् पात्रं पश्चात्तोयं दापयेत्
”भोजनस्थानादि यथा, --“उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वाग्यतः ।प्राङ्मुखोऽन्नानि भुञ्जीत शुचिः पीठमव-स्थितः
”पीठनिरूपणं यथा, --“सार्द्धहस्ते चतुष्कोणे सहकारविनिर्मिते ।चामभद्रदारुमये प्रादेशोच्छ्रायसंयुते
वरुणासने भवेद्वृद्धिर्भद्रके श्रियमाप्नुयात् ।चामे धनविवृद्धिः स्याद्धर्म्मवृद्धिस्तु भद्रके ।शालासने कशेरुके किंशुके मरणं भवेत्
”भोजने दीपनिरूपणं यथा, --“घृतदीप्त्या यज्ञफलं तैले धेनुफलं लभेत्
”भोजने चाण्डालादिदृष्टिनिषेधो यथा, --“यदा भोजनकाले तु चाण्डालैः पतितैस्तथा ।श्वकुक्कुटवराहैश्च म्लेच्छैश्च अन्त्यजैरपि ।अन्नं वाप्यथ पानं वा दृष्टमात्रं परित्यजेत्
”“रजस्वलायाः संस्पृष्टीर्वाचं श्रुत्रा प्रमादतः ।व्रतस्थो वर्ज्जयेद्देवि ! अव्रते प्रोक्षणञ्चरेत्
देवालये तथा तीर्थे सिद्धक्षेत्रे शङ्करि ! ।ब्राह्मणानां समाजे तु भुक्त्वा क्रतुफलं लभेत्
आचान्ती भोजनं कुर्य्यादनामायां हिरण्ययुक् ।सुवर्णेन स्पृशेदन्नं तदन्नञ्चामृतं विदुः
रजःस्पृशं यदन्नञ्च भुक्त्रा भवति किल्विषी ।पौष्पकेण स्पृशेदन्नमन्नं विष्ठासमं भवेत्
वैदूर्य्येण माणिक्येन स्फटिकेन स्पृशेदपि ।स्वर्णेन संस्पृशेदन्नं तदन्नं शुचितामियात्
”भोजने दिङ्नियमो यथा, --“आयुष्यं प्राङ्मुखो भुङ्क्ते रात्रौ चैव उदङ्-मुखः ।यशस्वी दक्षिणे चैव पश्चिमे तु विवर्ज्जयेत्
”भोजने मण्डलानि यथा, --“मण्डलं भोजने काले चतुष्कोणं द्विजस्य ।क्षत्त्रियस्य भवेद्दैर्घं वैश्यस्य कूर्म्मपृष्टकम् ।स्त्रीशूद्राणां भवेद्वृत्तं शकटाकारमेव वा
”अथ भोजनकालः ।“सायं प्रातर्द्विजातीनामशनं देवनिर्म्मितम् ।नित्यमह्नि तमस्विन्यां सार्द्धप्रहरयामतः
रात्रौ यामत्रयान्ते सन्ध्ययोर्न कदाचन ।अकालभोजनं कृत्वा प्राणायामेन शुद्ध्यति ।अहोरात्रेश्च सन्ध्यायां भुक्त्वा कृच्छ्रं समाचरेत्
”मोदकादिभक्षणानन्तरमन्नभोजनविधिर्यथा, --मोदकं कन्दुपक्वञ्च गव्याढ्यं घृतसंयुतम् ।पुनः पुनर्भोजने पुनरन्नं दुष्यति ।त्रिसन्ध्यं भुक्तवान् यस्तु स्वार्थं द्विजःक्वचित्
भुक्त्वा रात्रिमुपगमे कृच्छ्रेणैकेन शुद्ध्यति
कोलं हरिद्रा सौवीरं मरीचं जातिकोषकम् ।ग्रन्थिपर्णादिकं सर्व्वं गन्धद्रव्यं तथौषधिः ।प्रशस्तमेषामामान्नं स्विन्नञ्चापि दुष्यति
कुटुम्बभरणार्थाय पाकं पश्चान्निवेदयेत् ।वैश्वदेवान्नमुद्धत्य भोजयेन्न विचारयेत्
नाश्नीयात् केवलं रात्रौ विल्वञ्चैव तथा दधि ।अङ्केन तृणगुच्छेन काष्ठखण्डेन वह्निना
पङ्क्तिभेदं ततः कुर्य्यात् पश्चाद्भुञ्जीत वाग्यतः ।हस्तदत्तं यदन्नञ्च शूद्रादत्तं भक्षयेत्
घृततैलञ्च लवणं पानीयं पायसं दधि ।रविवारे तथा षष्ठ्यां भौमवारे दिनक्षये ।पर्व्वकाले द्वादश्यां द्विजस्तिक्तं भक्षयेत्
वामेन पिबेत्तोयं रसं तक्रमेव ।भेकाखुशिशुमार्ज्जारैस्तथा पारावतैरपि
कलविङ्कैः पन्नगैश्च पाके स्पृष्टेऽपि सुन्दरि ! ।गोधया बनमार्ज्जारैः पाकं विसृजेत् क्वचित्
स्वर्णरौप्यमये पात्रे पाषाणे ब्रह्मपत्रके ।सकृद्भुक्त्वा तु देवेशि ! पराकस्य फलं लभेत्
पूर्व्वायां स्वर्णपात्रे भोजनं यः समाचरेत् ।पुण्डरीकस्य यज्ञस्य लभते फलमीप्सितम्
स्वर्णपात्रे पश्चिमायां उत्तराभिमुखेन वा ।तदन्नं शौकरं मांसं भुक्त्वा चान्द्रायणञ्चरेत्
सर्व्वकामः स्वर्णपात्रे यशस्वी खर्परेषु ।पद्मपत्रे भवेत् पुष्टिर्हविष्याशी तु पुण्यवान्
क्षयी भवति ताम्रे काचपात्रे दरिद्रता ।तूतपत्रे भवेदायुः कदले कीर्त्तिमाप्नुयात्
मधुपत्रे रोगः स्याद्वटपत्रे तु वैष्णवः ।शालपत्रे भवेत्कामी पनसे चैव स्वर्गतिः ।निशापत्रे प्ररोहे पुनः संस्कारमर्हति
”इति मत्स्यसूक्ततन्त्रे ४२ पटलः
अथ स्मृत्युक्तभोजनविधिः बहिःप्रक्षालित-पाणिपादवदनो रत्नपाणिर्द्विवासा द्विराचान्तोगोमयोपलिप्ते प्रावृते देशे शुद्धः शुद्धनीचासनो-पविष्टो धर्म्मवृद्धिकामः प्राङ्मुख उदङ्मुखोवा यशस्कामो जीवत्पितृमातृकेतरो दक्षिणा-मुखो धनकामः प्रत्यङ्मुखो भूमिस्पृष्टदक्षिण-पाद आसनारूढसव्यपादोऽन्तर्जानुकरो दक्षि-णदिक्कृतपानीयपात्रो दक्षिणावर्त्तेन चतु-ष्कोणमण्डलं कृत्वा लोहताम्रमृण्मयभवादि-दुष्टभग्नकांस्यकदल्यादिपत्रपृष्ठपद्मपलाशपत्रेतर-पात्रं विधाय प्रक्षाल्य आत्मानं पात्रञ्चदक्षिणक्रमेण जलेन वेष्टयित्वा तदुपरि लोहे-तरपात्रान्तरेण हस्ताभ्यां प्रतिषिद्धेतरमन्ना-दिकं स्थापयित्वा अन्नं दृष्ट्वा प्रहृष्येत् अस्माकंनित्यमेवास्तु इत्यभिलप्य संप्रोक्ष्य आचाराच्चतु-ष्कोणमण्डलाभ्यन्तरे जललिखितचक्रोपरि ओँनारायणाय नम इत्यन्नं सजलं मध्ये दद्यात् ।तत्पार्श्वे ओँ भुवः पतये स्वाहा ओँ भुवनपतयेस्वाहा ओँ भूतानां पतये स्वाहा इति बलि-चतुष्टयं दद्यात् तदिदं सोपकरणमन्नं ओँविष्णवे नम इत्युत्सृज्य तदग्रं किञ्चित् ओँविश्वकसेनाय नम इति दत्त्वा अन्नोपरि विष्णु-निर्म्माल्यतुलसीपत्रं प्रक्षिप्य विष्णुपादोदकं पुरान गृहीतञ्चेदिदानीम् ।“ओँ कृष्ण कृष्ण महाबाहो भक्तानामार्त्ति-नाशन ! ।सर्व्वपापप्रशमनं पादोदकं प्रयच्छ मे
”इति गृहीत्वा इष्टदेवतानामपरेरितं श्रुत्वास्वयं त्रिरुच्चार्य्य वा ओँ अमृतोपस्तरणमसिस्वाहा इत्यनेन पीत्वा ।“ओँ अकालमृत्युहरणं सर्व्वव्याधिविनाशनम् ।विष्णोः पादोदकं पुण्यं शिरसा धारयाम्यहम्
”इत्यनेन पादोदकशेषं शिरसि दद्यात् ।“ओँ उच्छिष्टभोजिनस्तस्य वयमुच्छिष्टकाङ्क्षिणः ।येन लीलावराहेण हिरण्याक्षो निपातितः
”इत्युक्त्वा अङ्गुष्ठानामिकाभ्यां घृतप्लुतस्तोकमन्न-मादाय महामौनी साङ्गुष्ठसर्व्वाङ्गुलिभिर्व्वा ओँप्राणाय स्वाहा इत्यनेन मुखे दत्त्वा अदन्तच्छिन्नंनिगिरेत् एवं ओँ अपानाय स्वाहा ओँ समा-नाय स्वाहा ओँ उदानाय स्वाहा ओँव्यानाय स्वाहा ततो वीर्य्यकामो मौनीभुञ्जीत ततः प्रथमं द्रवयुक्तमधुरं मध्ये कठि-नाम्ललवणानि अन्ते द्रवयुक्तकटतिक्तानियथालाभं क्षीरान्तं साङ्गुष्ठैदक्षकरसर्व्वाङ्गु-लिभिः अनतितृप्तं भुञ्जीत पश्चादधिकं जला-दिकं पातव्यम् जलक्षीरदधिघृतमधुशाक-शक्तुमांसेतरद्रव्याणां शेषं रक्षणीयम् भोजनेसंपूर्णे तु मांसभोजने करं प्रक्षाल्य तदभोजनेतु करमप्रक्षाल्यैव सान्नेन हस्तेन जलं गृहीत्वाओँ अमृतापिधानमसि स्वाहा इति जलगण्डूषंगृहीत्वा सान्नं तज्जलशेषं ओँ रौरवेऽपुण्य-निलये पद्मार्व्वुदनिवासिनाम् उच्छिष्टभागि-नामन्नमक्षय्यमुपतिष्ठतामिति भूमौ निक्षिपेत् ।भोजनकाले तु विडालकर्म्मकस्पर्शत्यागः ।विडालकर्त्तृकस्पर्शे दोषः ततः स्थानान्तरंन गच्छेत् परावृत्य मृद्भिर्मुखहस्तलेपमपनीयतृणादिना जिह्वाघर्षणयोग्यं दन्तेभ्यो गृहीत-रसद्रव्यं रक्तपातक्षतादिकं विना अपनयेत् ।यत्ने कृते यदि निःसरति तदा दोषः ।ततो जिह्वाञ्च संघृष्य जलगण्डूषैर्मुखाभ्यन्तरंसंशोध्य पाणी पादौ प्रक्षाल्य आसनस्थ एवभूमौ पादौ दत्त्वा द्विराचम्य मुखं तुलसी-पत्रादिना संशोध्य दक्षिणपादाङ्गुष्ठे दक्षिण-हस्तेन --“ओँ अङ्गुष्ठमात्रपुरुषो ह्यङ्गुष्ठञ्च समाश्रितः ।ईशः सर्व्वस्य जगतः प्रभुः प्रीणातु विश्वधृक्
”इति मन्त्रेण जलं दद्यात् ततो महीमार्ज्जना-भावे अशुचित्वादविलम्बमेव भोजनपात्रमुद्धृत्यतत् स्थानं उच्छिष्टमपनीय गोमयोदकाभ्यांसंमृज्य सिञ्चेत् सुस्थः प्रशान्तचित्त आसनेउपविश्याभीष्टदेवतानाम स्मृत्वा --“ओँ अग्निराप्याययत्वन्नं पार्थिवं पवनेरितः ।दत्तावकाशो नभसा जरयत्वस्तु मे सुखम्
अन्नं बलाय मे भूमेरपामग्न्यनिलस्य ।भवत्वेतत्परिणतौ ममास्त्वव्याहतं सुखम्
प्राणापानसमानानामुदानव्यानयोस्तथा ।अन्नं तुष्टिकरञ्चास्तु ममास्त्वव्याहतं सुखम्
अगस्तिरग्निर्व्वडवानलश्चभुक्तं ममान्नं जरयत्वशेषम् ।सुखं ममैतत्परिणामसम्भवंयच्छत्वरोगं मम चास्तु देहे
विष्णुः समस्तेन्द्रियदेहदेहि-प्रधानभूतो भगवान् यथैकः ।सत्येन तेनान्नमशेषमेत-दारोग्यदं मे परिणाममेतु
विष्णुरत्ता तथैवान्नं परिणामश्च वै यथा ।सत्येन तेन मद्भुक्तं जीर्य्यत्वन्नमिदं तथा
”इत्युच्चार्य्य वामहस्तेनोदरं परिमृजेत् ततःपादशतव्रजनानन्तरं वामपार्श्वेन किञ्चित्कालंशयितव्यम् ततस्ताम्बूलादि मुखवासद्रव्यंभोक्तव्यम् इत्याह्निकाचारे पञ्चमयामार्द्ध-कृत्यम्
*
अथ भोजनादिदानफलम् ।“भोजनाच्छादनं दत्त्वा दत्त्वा चोपानहौ द्विज ! ।स स्वर्गलोकं संभुज्य सर्व्वकामोऽत्र जायते
विद्यां भक्त्या प्रयच्छेद्यः परंब्रह्मण्यसौ विशेत् ।विद्यार्थिने विप्राय यो दद्याद्भोजनं नरः
अन्नं प्राणो जलं प्राणः प्राणश्चौषधमुच्यते ।तस्मादौषधदानेन दत्ताः स्युरसवो द्विजाः
इति पराशरस्मृतिः
भोजने प्रतिषेधो यथा, --“ताम्रपात्रे पयःपानमुच्छिष्टे घृतभोजनम् ।दुग्धे लवणं दद्यात् सद्यो गोमांसभक्षणम्
यः शूद्रेण समाहूतो भोजनं कुरुते द्बिजः ।सुरापश्च विज्ञेयः सर्व्वधर्म्मबहिष्कृतः
स्नानं रजकतीर्थेषु भोजनं गणिकालये ।शयनं पूर्व्वपादे ब्रह्महत्या दिने दिने
”इति कर्म्मलोचनम्
अथ शिशूनां प्रथमान्नभोजनदिनादि यथा, यमः ।“ततोऽन्नप्राशनं मासि षष्ठे कार्य्यं यथाविधि ।अष्टमे वाथ कर्त्तव्यं यद्वेष्टं मङ्गलं कुले
”षष्ठ इति मुख्यः कल्पः प्रागुक्तन्यायात् कृत्य-चिन्तामणौ ।“अन्नस्य प्राशनं प्रोक्तं मासि षष्ठेऽष्टमे बुधैः ।स्त्रीणान्तु पञ्चमे मासि सप्तमे प्रजगौ मुनिः
द्वादशीसप्तमीनन्दारिक्तासु पञ्चपर्व्वसु ।बलमायुर्यशो हन्यात् शिशूनामन्नभोजनम्
”भुजबलभीमे ।“षष्ठे मासि निशाकरे शुभकरे रिक्तेतरे वैतिथौसौम्यादित्यसितेन्दुजीवदिवसे पक्षे कृष्णेतरे ।प्राजेशादितिपौष्णवैष्णवयुगैर्हस्तादिषट्कोत्तरै-राग्नेयाप्पतिपित्रभैश्च नितरामन्नादिभक्षेशुभम्
”युगैरिति प्राजेशादौ प्रत्येकं सम्बध्यते अत्रापितिथ्यङ्गादिविद्धर्क्षं विवर्जयेत ।“वृषद्वन्द्वधनुर्मीनकन्यालग्नेऽन्नभक्षणम् ।त्रिकोणाष्टकयूकान्त्यग्रहा यद्वत्तथा फलम्
दुष्टः शशधरो लग्नात् षष्ठाष्टस्थोऽन्नभक्षणे
”मार्कण्डेयपुराणम् ।“देवतापुरतस्तस्य पितुरङ्कगतस्य ।अलङ्कृतस्य दातव्यमन्नं पात्रे काञ्चने
मध्वाज्यकणकोपेतं प्राशयेत् पायसन्ततः ।कृतप्राशनमुत्सङ्गे मातुर्बालन्तु तं त्यजेत्
देवाग्रतोऽथ विन्यस्य शिल्पभाण्डानि सर्व्वशः ।शास्त्राणि चैव शस्त्राणि ततः पश्येत्तु लक्षणम्
प्रथमं यत् स्पृशेद्बालः शिल्पभाण्डं स्वयं तथा ।जीविका तस्य बालस्य तेनैव तु भविष्यति
”सोमवारे दोषमाह भोजराजः ।“वाचालो बलवान् दिने दिनपतेरत्यन्तदीप्ता-नलोदेही हीनहुताशनः शिशिरगौ कौजे रुजापीडितः ।बौधे भोगसुखोदयी प्रथमभुग्जीवे चिरायुःसुखीशुक्रे सौख्यबलान्वितोऽतिसुभगो मन्दे चमन्दानलः
”इति ज्योतिस्तत्त्वम्
तद्वैदिकपर्य्यायाः आवयति भर्वति बभस्ति३ वेति वेवेष्टि अविष्यन् वप्सति ७भसथः वब्धाम् ह्वरति १० इति दशाति-कर्म्माणः इति वेदनिघण्टौ अध्यायः
(तथा सुश्रुते सूत्रस्थाने ४६ अध्याये ।“वक्ष्याम्यतः परं कृत्स्नमाहारस्योपकल्पनाम् ।घृतं कार्ष्णायसे देयं पेया देया तु राजते
फलानि सर्व्वभक्ष्यांश्च प्रदद्याद्वैदलेषु ।परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत्
प्रद्रवाणि रसांश्चैव राजतेषूपहारयेत् ।कट्वराणि खडांश्चैव सर्व्वान् शैलेषु दापयेत्
दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः ।पानीयं पानकं मद्यं मृण्मयेषु प्रदापयेत्
काचस्फटिकपात्रेषु शीतलेषु शुभेषु ।दद्याद्वैदूर्य्यपात्रेषु रागषाडवसट्टकान्
पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे ।सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान्
फलानि सर्व्वभक्ष्यांश्च परिशुष्काणि यानि ।तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत्
प्रद्रवाणि रसांश्चैव पाणीयं पानकं पयः ।खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत्
सर्व्वान् गुडविकारांश्च रागषाडवसट्टकान् ।पुरस्तात् स्थापयेत्प्राज्ञो द्वयोरपि मध्यतः
एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् ।भोक्तारं विजने रम्ये निःसम्बाधे शुभे शुचौ
सुगन्धिपुष्परचिते समे देशेऽथ भोजयेत् ।पूर्व्वं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ
पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत् ।आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान्
ततः पेयांस्ततो भोज्यान् भक्ष्यांश्चित्रांस्ततःपरम् ।घनपूर्व्वं समश्नीयात् केचिदाहुर्विपर्य्ययम्
आदावन्ते मध्ये भोजनस्य तु शस्यते ।अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः
तेषु तत्प्रत्यनीकाढ्यं भुञ्जीत प्रातरेव तु ।येषु चापि भवेयुश्च दिवसा भृशमायताः
तेषु तत्कालविहितमपराह्णे प्रशस्यते ।रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः
कृत्वासममहोरात्रं तेषु भुञ्जीत भोजनम् ।तस्मात् सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्ज्जितम् ।यथोक्तगुणसम्पन्नमुपसेवेत भोजनम्