| YouTube Channel

भोग्यं (bhogyaM)

 
शब्दकल्पद्रुमः
Sanskrit
भोग्यं,
क्ली,
(भुज + ण्यत् ।) धनम् धान्यम् ।इति राजनिर्घण्टः
भोगमर्हतीति भोग +यत् भोगार्हेत्रि
(यथा, कामन्दकीये ८१ ।“यथा रक्षेच्च निपुणं शस्यं कण्टकिशाखया ।फलाय लगुडः कार्य्यस्तद्बद्भोग्यमिदं जगत् ।”)आधिभेदः यथाह नारदः ।“विश्रम्भहेतू द्वावत्र प्रतिभूराधिरेव ।अधिक्रियत इत्याधिः विज्ञेयो द्विलक्षणः
कृतकालोपनेयश्च यावद्देयोद्यतस्तथा ।स पुनर्द्विविधः प्रोप्यो गोप्यो भोग्यस्तथैव
”गोप्यो रक्षणीयः भोग्यस्यार्थः फलभोग्यपदेद्रष्टव्यः तद्यथा, --“काले कालकृतो नश्येत् फलभोग्यो नश्यति ।”फलं भोग्यं यस्यासौ फलभोग्यः क्षेत्रारामादिःस कदाचिदपि नश्यति इति मिताक्षरायांव्यवहाराध्यायः